________________
१४
देवेन्द्रसरिविरचितखोपाटीकोपेतः
[गाथा तेषां जातय इति विग्रहः । भावार्थोऽयम्-एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियजातिनामभेदात् पञ्चधा जातिनाम । तत्र एकस्य स्पर्शनेन्द्रियज्ञानस्यावरणक्षयोपशमाद् एकविज्ञानमाज एकेन्द्रियाः, द्वयोः स्पर्शनरसनज्ञानयोरावरणक्षयोपशमाद् द्विविज्ञानभाजो द्वीन्द्रियाः, त्रयाणां स्पर्शनरसनघ्राणज्ञानानामावरणक्षयोपशमात् त्रिविज्ञानभाजस्त्रीन्द्रियाः, चतुर्णा स्पर्शनरसनप्राणचक्षुर्ज्ञानानामावरणक्षयोपशमात् चतुर्विज्ञानभाजश्चतुरिन्द्रियाः, पञ्चाना स्पर्शनरसनप्राणचक्षुःश्रोत्रज्ञानानामावरणक्षयोपशमात् पञ्चविज्ञानभाजः पञ्चेन्द्रियाः । तत एकेन्द्रियाणां जातिनाम एकेन्द्रियजातिनाम, एवं यावत् पञ्चेन्द्रियजातिनाम । ___ अत्राह-ननु एतेन जातिनाना किं भावेन्द्रियमेकादिकं जन्यते ? उत द्रव्येन्द्रियम् ? माहोखिदेकेन्द्रियोऽयमित्यादिव्यपदेशः ? इति त्रयी गतिः । तत्र यद्यायः पक्षः स न युक्तः, भावेन्द्रियस्य श्रोत्रादीन्द्रियज्ञानावरणक्षयोपशमजन्यत्वात् "क्षायोपशमिकानीन्द्रियाणि" इति वचनात् । अथ द्रव्येन्द्रियं जन्यते तदप्ययुक्तम् , द्रव्येन्द्रियस्येन्द्रियपर्याप्तिनामोदयजन्यत्वात् । एकेन्द्रियादिव्यपदेशस्त्वेकादीन्द्रियज्ञानावरणक्षयोपशमपर्याप्तिनामभ्यामेव सेत्स्यति किमन्तर्गडुना जातिनाम्ना ?, अत्रोच्यते-आद्यविकल्पयुगलं तावद् अनभ्युपगमादेव निरस्तम् । यत् पुनरुक्तम् 'एकेन्द्रियादिव्यपदेशस्तु' इत्यादि तदयुक्तम् , यत इन्द्रियज्ञानावरणक्षयोपशम इन्द्रियपर्याप्तिश्च यथाक्रमं भावेन्द्रियजनने द्रव्येन्द्रियजनने च कृतार्था कथमेकेन्द्रियादिव्यपदेशनिबन्धनपरिणतिलक्षणं कार्यान्तरं जनयितुमलम् !, न ह्यन्यसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गात् , तस्माद् एकेन्द्रियादीनां समानजातीयजीवान्तरेण सह समाना बाह्या काचित् परिणतिरेकेन्द्रियादिशब्दवाच्या अवश्य जातिनामकर्मोदयत एवाभ्युपगन्तव्या । उक्तं च
अन्यभिचारिणा सादृश्येन एकीकृतोऽर्थात्मा जातिः इति । तथाहि-बकुलादीनामनुमानादिसिद्धे इन्द्रियपञ्चकक्षयोपशमे सत्यपि पञ्चेन्द्रियशब्दव्यपदेश्यपञ्चेन्द्रियजातिनामकर्मोदयजन्यविशिष्टबाबपरिणत्यभावात् न पञ्चेन्द्रियव्यपदेशो भवति । यद्येवं गोतुरगभुजगमातङ्गादिक्रमे सत्यपि पञ्चेन्द्रियव्यपदेश्यस्यापि पर्यायस्य कारणं किश्चित् कर्माभ्युपगन्तव्यम् ? इति चेद् नैवम् , जातिनामकर्मवैचित्र्यादेव तत्सिद्धेः । न चात्रैकान्तेन युक्त्युपन्यास एवाग्रहः कार्यः, आगमोपपतिगम्यत्वात् तत्त्वस्य । यदवादि
आगमश्चोपपत्चिश्व, सम्पूर्ण दृष्टिलक्षणम् ।
अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥ इति । उक्तं जातिनाम पञ्चधा २ । तथा औदारिकं च वैक्रियं च आहारकं च तैजसं च कामिक चेति द्वन्द्वः । भावार्थोऽयम्-औदारिकवैक्रियाऽऽहारकतैजसकार्मणनाममेदात् पञ्चधा शरीरनाम । तत्र उदारं-प्रधानम् , प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्यापि अनन्तगुणहीनत्वात् , यद्वा उदारं-सातिरेकयोजनसहसमानत्वात् शेषशरीरापेक्षया बृहत्प्रमाणम् , बृहत्ता चास्य वैक्रियं प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्ययोचरवैक्रियं योजनलक्षमानमपि लभ्यते, उदारमेवौदारिकम् , “विनयादिभ्यः" (सि०७-२१ विद्धि ल° ख०॥