________________
११-३२] कर्मविपाकनामा प्रथम कर्मबन्धः । बहादेव बन्धे नाधिकार इत्युक्तम् , सम्पति ययोः प्रकृत्योः सर्वथैव बन्धो न भवति ते माह-"न य सम्ममीसया बंधे" ति 'नच' नैव सम्यक्त्वमिश्रके बन्धेऽधिक्रियेते। अयमभिप्रायः-सम्यक्त्वमिश्रयोर्बन्ध एव न भवति, किन्तु मिथ्यात्वपुद्गलानामेव जीवः सम्यक्त्वगुणेन मिथ्यात्वरूपतामपनीय केषाश्चिदत्यन्तविशुद्धिमापादयति, अपरेषां स्वीषद्विशुद्धिम् , केचित् पुनर्मिथ्यात्वरूपा एवावतिष्ठन्ते; तत्र येऽत्यन्तविशुद्धास्ते सम्यक्त्वन्यपदेशभाजः, ईषद्विशुद्धा मिश्रव्यपदेशभाजः, शेषा मिथ्यात्वमिति । उक्तं च--
सम्यक्त्वगुणेन ततो, विशोधयति कर्म तत् स मिथ्यात्वम् । यद्वच्छगणप्रमुखैः, शोध्यन्ते कोद्रवा मदनाः ॥ यत् सर्वथाऽपि तत्र विशुद्धं तद् भवति कर्म सम्यक्त्वम् ।
मिश्रं तु दरविशुद्धं, भवत्यशुद्धं तु मिथ्यात्वम् ।। उदयोदीरणासत्तासु पुनः सम्यक्त्वमिश्रके अप्यधिक्रियेते । एवं च सति ज्ञानावरणे पञ्च, दर्शनावरणे नव, वेदनीये द्वे, मोहे सम्यक्त्वमिश्रवर्जाः षडिंशतिः, आयुषि चतस्रः, नानि मेदान्तरसम्मवेऽपि प्रदर्शितयुक्त्या सप्तषष्टिः, गोत्रे द्वे, अन्तराये पञ्च इत्येतद्विशत्युत्तरं प्रकृतिशतं बन्धेऽधिक्रियते । एतदेव सम्यक्त्वमिश्रसहितं द्वाविंशत्युत्तरप्रकृतिशतमुदये उदीरणायां च । सत्तायां पुनः शेषकर्मणां पञ्चपञ्चाशत् नाम्नस्त्रिनवतिरित्यष्टाचत्वारिंशं शतम् , यद्वा शेषकर्मणां पञ्चपञ्चाशत् नानरुयुत्तरशतमित्यष्टापञ्चाशं शतमधिक्रियत इति । एतदेव मनसिकृत्याह-"बंधुदए सत्ताए" इत्यादि । इह शतशब्दस्य प्रत्येकं योगाद् यथासमं बन्धे विशं शतम् , उदये उपलक्षणत्वाद् उदीरणायां च द्वाविंशं शतम् , सत्तायामष्टपञ्चाशं शतम् उपलक्षणत्वादष्टाचत्वारिंशं शतमिति, भावना सुकरैव ॥ ३१॥ अथ पूर्वनिर्दिष्टान् गतिजातिप्रभृतीनां पिण्डप्रकृतीनां चतुरादिमेदान् व्याचिख्यासुराह
निरयतिरिनरसुरगई, इगवियतियचउपणिदिजाईओ।
ओरालियवेडबियआहारगतेयकम्मइगा ॥ ३२ ।। निरवाश्च तिर्यश्वश्च नराश्च सुराश्च तेषु गतिरिति विग्रहः । भावार्थोऽयम्-गतिशब्दः प्रत्येकं योज्यते, ततश्च "अयमिष्टफलं दैवम्" इति वचनाद् निर्गतम् अयम्-इष्टफलं सातवेदनीयादिरूपं येभ्यस्ते निरयाः-सीमन्तकादयो नरकावासाः, ततो निरयेषु विषये गतिरिति गतिनाम निरयगतिनाम, तद्विपाकवेद्या कर्मप्रकृतिरपि निरयगतिनाम, नारकशब्दव्यपदेश्यपर्यायनिधनं निरयगतिनामेति हृदयम् । एवं तिर्यग्नरसुरगतिनामापि वाच्यम् ।
अत्राह-ननु सर्वेऽपि पर्याया जीवेन गभ्यन्ते प्राप्यन्त इति सर्वेषामपि तेषां गतित्वअसमः, तथा च प्राग्गतिशब्दस्पेयमेव व्युत्पत्तिर्दर्शितेति, नैवम् , यतोऽविशेषेण व्युत्पादिता मपि शब्दा रूढितो गोशब्दवत् प्रतिनियतमेवार्थ विषयीकुर्वन्तीत्यदोषः । उक्तं गतिनाम चतुर्विधम् । - तथा सूचकत्वात् सूत्रस्य एकेन्द्रियाश्च द्वीन्द्रियाश्च त्रीन्द्रियाश्च चतुरिन्द्रियाश्च पञ्चेन्द्रियाश्च १ भोरालवितम्बाहारगतेयकम्मण मण सरीरा घ० ॥
-