________________
देवेन्द्रसूरिविरक्तिखोपाटीकोपेतः
[गाथा यावत् अतुरादयो मैदा भवन्तीति वाक्यार्थः । तथाहि गतिनाम चतुर्षा, जातिनाम मधषा, तनुनाम पञ्चधा, उपाननाम त्रिधा, बन्धननाम पञ्चधा, सङ्घातननाम पञ्चधा, संहनननाम षोढा, संस्थाननाम पोढा, वर्णनाम पञ्चधा, गन्धनाम द्विधा, रसनाम पञ्चधा, स्पर्शनामाऽष्टधा, आनुपूर्वीनाम चतुर्धा, विहायोगतिनाम द्वेषा । एतेषां सर्वमीलने मेदाप्रमाह"इय" ति 'इति' अमुना चतुरादिभेदमीलनप्रकारेणोचर मेदानां पञ्चषष्टिरिति ॥ २९ ॥
अडवीसजुया तिनवइ, संते वा पनरपंधणे तिसयं ।
बंधणसंधायगहो, तणूसु सामनवन्नचऊ ॥३०॥ एषा पूर्वोक्ता पञ्चषष्टिः 'अष्टाविंशतियुता' प्रत्येकप्रकृत्यष्टाविंशत्या सह मीलने विमिरघिका नवतिबिनवतिर्भवति । सा च कोपयुज्यते ? इत्याह----"संते" त्ति प्राकृतत्वात् सत्तायो सत्कर्म प्रतीत्य बोद्धन्येत्यर्थः । वाशब्दो विकल्पार्थों व्यवहितसंबन्धश्च, स चैवं योज्यते'पञ्चदशबन्धनैत्रिशतं वा' पञ्चदशसथैर्वक्ष्यमाणखरूपैर्वन्धनैः प्रदर्शितत्रिनवतिमध्ये प्रक्षिप्तैलिभिरधिकं शतं त्रिशतं वा सत्तायामधिक्रियते इति शेषः । अथ त्रिनवतिमध्ये पञ्चदशानां प्रकृतीनां प्रक्षेपेऽष्टोत्तरं शतं भवतीति चेद् उच्यते-या वक्ष्यमाणाः पञ्चदश बन्धननामप्रकृतयस्तासु मध्यात् सामान्यत औदारिकादिबन्धनपञ्चकस्य त्रिनवतिमध्ये पूर्व प्रक्षिप्तत्वात् शेषाणां दशानां प्रक्षेपे त्रिशतमेव भवतीति न कश्चिद्विरोधः । सूत्रे च "पनरबंधणे" इत्यत्र विभक्तिवचनव्यत्ययः प्राकृतत्वादिति । उक्ता नामकर्मणस्त्रिनवतिव्युत्तरशतं च मेदानाम् । अथ सप्तषष्टिभेदानाह---"बंधणसंघायगहो तणूसु" ति । बन्धनानि च पञ्चदश, सङ्घाताचसङ्घातनानि पञ्च, बन्धनसङ्घातास्तेषां ग्रहणं ग्रहो बन्धनसङ्घातग्रहः । 'तनुषु' शरीरेषु, तनुग्रहणेनैव बन्धनसङ्घाता गृह्यन्ते न पृथग् विवक्ष्यन्त इत्यर्थः । तथा “सामनवनचऊ" ति सामान्यं-कृष्णनीलाबविशेषितं वर्णेनोपलक्षितं चतुष्कं सामान्यवर्णचतुष्कं गृह्यत इति शेषः । अयमत्राशयः-इह सप्तपष्टिमध्ये औदारिकादितनुपञ्चकमेव गृखते, न तद्वन्धनानि तस्स. वातनानि च, यत औदारिकतन्वा खजातीयत्वाद् औदारिकतनुसदृशानि बन्धनानि तत्सद्धाताश्च गृहीताः; एवं वैक्रियादितन्वाऽपि निर्जनिजबन्धनसाता गृहीता इति न पृथगेते पक्षदश बन्धनानि पञ्च सङ्घाता गण्यन्ते । तथा वर्णगन्धरसस्पर्शानां यथासङ्ख्यं पञ्चद्विपञ्चाऽष्टमेदैनिष्पन्नां विंशतिमपनीय तेषामेव सामान्य वर्णगन्धरसस्पर्शलक्षणं चतुष्कं गृह्यते, ततश्चानन्तरोदितात् त्र्युत्तरशता वर्णादिषोडशकबन्धनपञ्चदशकसङ्घातपञ्चकलक्षणानां पत्रिंशत्यकृतीनामपसारणे सति सप्तषष्टिर्भवतीति ।। ३० ॥ एतदेवाह-~
इय सत्तही बंधोदए य न य सम्ममीसया बंधे।
बंधुदए सत्ताए, वीसवीसऽट्ठवन्नसयं ॥३१॥ 'इति' पूर्वोक्तप्रकारेण सप्तषष्टिर्नामकर्मप्रकृतीनां भवति । सा च कोपयुज्यते! इत्याह"बंधोदए य" ति बन्धश्च उदयश्च बन्धोदयं तस्मिन् 'बन्धोदये' बन्धे च उदये च सप्तषष्टिर्भवति, चशब्दाद् उदीरणायां च सप्तषष्टिः । अथ बन्धनसङ्घातनवर्णादिविशेषाणां विवक्षा१०जा निजा बख०ग०3०॥