________________
२५-२९]
कर्मविपाकनामा प्रथमः कर्मप्रन्थः ।
श्रसशब्देनोपलक्षितं प्रकृतिदशकं त्रसदशकमिदमुच्यते इति शेषः । तथा स्थावरेण-स्थावरशब्देनोपलक्षितं त्रसदशकस्य विपक्षभूतं "दस" ति प्राकृतत्वाद् दशकं स्थावरदशकम्, तत् पुनरिदं वक्ष्यमाणमिति ॥ २६ ॥ तदेवाह -
थावर सुहुम अपजं, साहारण अधिर असुभदुभगाणि । दुस्सरणाइज्जाजस, इय नामे सेयरा वीसं ॥ २७ ॥
४१
इहापि नामशब्दस्य सम्बन्धात् स्थावरनाम सूक्ष्मनाम अपर्याप्तनाम साधारणनाम अस्थि - नाम अशुभनाम दुर्भगनाम दुःखरनाम अनादेयनाम " अजस" ति अयश: कीर्तिनाम । प्ररूपितं दशकद्वयमपि, अधुना दशकद्वयमीलने यथाभूता सतीयं विंशतिर्यद्विषयोच्यते तदाह"इय" त्ति 'इति' अमुना त्रसादिप्रदर्शितप्रकारेण "नामे" ति नामकर्मणि 'सेतरा' सप्रतिपक्षा प्रत्येकसंज्ञिता विंशतिर्विज्ञेया । तथाहि त्रसनाम्नः स्थावरनाम प्रतिपक्षभूतम् एवं बादरसूक्ष्मप्रकृतीनामपि सेतरत्वं सुप्रतीतमेवेति ॥ २७ ॥ अथानन्तरोद्दिष्टत्रसादिविंशतिमध्ये यासां प्रकृतीनामाद्यपदनिर्देशेन याः संज्ञा भवन्ति ताः कथयन्नाह -
"
तसचउथिरछकं अधिरछक्कसुहुमतिगथावरचउक्कं । सुभगतिगाइविभासा, तदाहसंस्वाहिँ पयडीहिं ॥ २८ ॥
प्रकृत्योपलक्षितं चतुष्कं त्रसचतुष्कम्, एतदनुसारतः समासोऽन्यत्रापि कार्य:, ततो यथासम्भवं पुनरपि समाहारद्वन्द्वश्च । तत्र त्रसचतुष्कं यथा - त्रस बादरं पर्याप्तं प्रत्येकमिति । स्थिरषट्कम् — स्थिरं शुभं सुभगं सुखरम् आदेयं यशः कीर्तिश्चेति । अस्थिरषट्कम् - अस्थिराsशुभदुर्भगदुःखराऽनादेयाऽयशः कीर्तिस्वरूपम् । सूक्ष्मत्रिकम् -- सूक्ष्माऽपर्याप्त साधारणलक्षणम् । स्थावरचतुष्कम्~~~स्थावरसूक्ष्माऽपर्याप्त साधारणाख्यम् । सुभगत्रिकम् – सुभगसुखराऽऽदेयाभिधम् । आदिशब्दाद् दुर्भगत्रिकम् – दुर्भगदुःखराऽनादेयखरूपं गृह्यते । ततः सूत्रपदे समासो यथा -- सुभगत्रिकमादिर्यस्य दुर्भगत्रिकस्य तत् सुभगत्रिकादि तस्य विभाषा - प्ररूपणा कर्तव्येति शेषः । काभिः कृत्वा पुनस्त्रसचतुष्कादिका विभाषा कर्तव्या ? इत्याह--- ' तदादि - सङ्ख्याभिः प्रकृतिभिः ' सा - निर्दिष्टा प्रकृतिरादिर्यस्याः सत्यायाः सा तदादिः, तदादिः सत्या यासां प्रकृतीनां तास्तदादिसङ्ख्यास्ताभिस्तदादिसत्याभिः प्रकृतिभिः कोऽर्थः याऽसौ प्रकृतिस्वसादिका निर्दिष्टा तामादौ कृत्वा निर्दिष्टसङ्ख्या पूरणीयेति । एताश्च संज्ञाः प्रकृतिपिण्डकसङ्ग्राहिण्यो यथास्थानमुपयोगमायास्यन्तीति कृत्वा प्ररूपिता इति ॥ २८ ॥
उक्ता नामकर्मणो द्वाचत्वारिंशद् मेदाः । अथ तस्यैव त्रिनवतिभेदान् प्ररूपयितुकामो गत्यादिपदानां पिण्डप्रकृतिसंज्ञिकानां मध्ये येन पदेन यावन्तो भेदाः पिण्डिता वर्तन्ते तान् भेदान् तेषामाह
-
गइयाईण उ कमसो, चउपणपणतिपणपंच छच्छकं । पणदुगपणsesदुग, इय उत्तरभेयपणसट्ठी ॥ २९ ॥ 'गत्यादीनां ' पिण्डप्रकृतीनां पूर्व प्रदर्शितखरूपाणां पुनः 'क्रमशः ' क्रमेण यथासत्यमिति १० न क० ० ॥
क० ६