________________
देवेन्द्रसूरिविरचितखोपटीकोपेतः
[ गाथा
पर्वखावीन्यनोपाज्ञानि ततश्चाज्ञानि चोपानानि च अङ्गोपाङ्गानि चेति इन्द्वे "खादावस (सि० ३-१-११९) इत्येकशेषे च कृते अङ्गोपाङ्गानीति, तत्र यदुदयात् शरीरतयोपाचा व्याप पुढला अङ्गोपाङ्गविभागेन परिणमन्ति तत् कर्मापि अङ्गोपाङ्गनाम ४ । बध्यन्तेसूक्षमाणमुद्रकाः पूर्वगृहीतपुद्गलैः सह शिष्टाः क्रियन्ते येन तद् बन्धनं तदेव नाम बम्वननाम ५ । स्वत एव संन्नन्ति - सङ्घातमापद्यन्ते, ततस्ते सनन्तः सन्तः सङ्घात्यन्ते - प्रत्येकं शरीरपञ्चकप्रायोग्याः पुद्गलाः पिण्डयन्ते येन तत् सङ्घातनं तदेव नाम सङ्घातननाम ६ । संहन्यन्तेभातूनामनेकार्थत्वाद् दृढीक्रियन्ते शरीरपुद्गलाः कपाटादयो लोहपट्टिकादिनेव येन तत् संहर्न लदेव नाम संहनननाम ७ । सन्तिष्ठन्ते विशिष्टावयवरचनात्मिकया शरीराकृत्या जन्तवो भवन्ति येन तत् संस्थानं तदेव नाम संस्थाननाम ८ । वर्ण्यते - अलयितेऽनेनेति वर्णः कृष्णादिः, जन्तुशरीरे कृष्णादिवर्णहेतुकं नामकर्मापि वर्णनाम ९ । गन्ध्यते - आम्रायत इति गन्धः, तद्धेतुत्वान्नामकर्मापि गन्धनाम १० । रस्यते - आस्वाद्यत इति रसस्तिक्तादिः, जन्तुशरीरे तिकादिरसहेतुकं कर्मापि रसनाम ११ । स्पृश्यत इति स्पर्शः कर्कशादिः, तद्धेतुत्वात् कर्मापि स्पर्शनाम १२ । द्विसमयादिना विग्रहेण भवान्तरं गच्छतो जन्तोरनुश्रेणिनियता गमनपरिपाटी आनुपूर्वी, तद्विपाकवेद्या कर्मप्रकृतिरप्यानुपूर्वी १३ । गमनं गतिः, सा पुनरत्र पादादिविहरणात्मिका देशान्तरप्राप्तिहेतुद्वन्द्रियादीनां प्रवृत्तिरभिधीयते, नैकेन्द्रियाणां पादादेरभावात्, ततो विहायसा- नमसा गतिर्विहायोगतिः, तद्धेतुत्वात् कर्मापि विहायोगतिनाम १४ । ननु विहायसः सर्वगतत्वेन ततोऽन्यत्र गमनाभावाद् व्यवच्छेद्याभावेन विहायसेति विशेषणस्य वैयर्थ्यम् सत्यम्, किन्तु यदि गतिरित्येवोच्येत तदा नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्याशङ्का स्यात्, तद्व्यवच्छेदार्थं विहायोग्रहणमकारि, विहायसा गतिः प्रवृत्तिर्न तु भवगतिर्नारकादिकेति ॥ २४ ॥
अथ प्रदर्शितानां गत्यादिप्रकृतीनामभिधानसङ्ख्या कथनपूर्वकमष्टौ प्रत्येकप्रकृतीराह - पिंडपचडि प्ति चउदस, परघाउस्सासआयवुजोयं । अगुरुलहुतित्थनिमिणोबधायमिय अट्ठ पत्तेया ॥ २५ ॥
एतैर्गतिनामादिभिः पदैर्वक्ष्यमाणचतुरादिभेदानां पिण्डितानां प्रतिपादनात् पिण्डप्रकृतय उच्यन्ते । काः ? 'इति' इति एता गत्यादयोऽनन्तर गाथोद्दिष्टाः प्रकृतयः । कियन्त्यः पुनस्ताः १ इत्याह-- चतुर्दशसश्याः । तथा प्रक्रमान्नामशब्दः पराघातादिष्वप्यध्याहार्यः, तद्यथापराघातनाम उच्छ्रासनाम आतपनाम उच्योतनाम अगुरुलघुनाम “तित्थ" चि तीर्थकरनाम “निमिण” त्ति निर्माणनाम उपघातनाम 'इति' एताः पराघातादयः 'अष्टौ' अष्टसङ्ख्याः प्रत्येकप्रकृतयो ज्ञेमा, आसां पिण्डप्रकृतिवदन्य मेदाभावादिति ॥ २५ ॥
तल वायर पज्जन्तं, पत्तेय थिरं शुभं च सुभगं च । सुसराऽऽज्य जसं तसदसगं धाघरवसं तु इमं ॥ २६ ॥ नामशब्दस्येहापि सम्बन्धात् सनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरनाम शुभनाम सुभगनाम 'चशब्दौ ' समुचये सुखरनाम आदेयनाम " जसं " ति यत्रः कीर्विनाम इत्येवं