________________
२२-२४] कर्मविपाकनामा प्रथमः कर्मग्रन्थः । सुरन्ति-विशिष्टमैश्वर्यमनुभवन्ति दिव्याभरणकान्त्या सहजशरीरकान्त्या च दीप्यन्त इति मुराः, यदि वा सुष्टु रान्ति-ददति प्रणतानामीप्सितमर्थ लवणाधिपसुस्थित इव लवणजलघौ मार्ग जनार्दनस्पति सुराः-देवाः तेषामायुः सुरायुर्येन तेष्ववस्थितिर्भवति १। नृणन्ति-निश्चिन्वन्ति वस्तुतत्त्वमिति नराः-मनुष्याः तेषामायुनरायुस्तद्भवावस्थितिहेतुः २ । “तिरि" ति प्राकृतत्वात् तिरोऽश्चन्ति-गच्छन्तीति तिर्यश्चः, व्युत्पत्तिनिमित्तं चैतत् , प्रवृत्तिनिमितं तु तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, ततस्तिरब्धामायुस्तिर्यगायुर्येनेतेषु स्थीयते ३ । नरान् उपलक्षणत्वात् तिरश्वोऽपि प्रभूतपापकारिणः कायन्तीव आह्वयन्तीवेति' नरकाः-नरकावासास्तत्रोत्पन्ना जन्तवोऽपि नरकाः, नरको वा विद्यते येषां ते "अप्रादिभ्यः" (सि०७-२-४६) इति अप्रत्यये नरकास्तेषामायुर्नरकायुर्येन ते तेषु ध्रियन्ते । एतच्चायुईडिसदृशं भवति । तत्र हडिः-खोडकरतेन सदृशं तत्तुल्यम् , यथा हि राजादिना हडौ क्षिप्तः कश्चिचौरादिस्ततो निर्गमनमनोरथं कुर्वाणोऽपि विवक्षितं कालं यावत् तया ध्रियते, तथा नारकादिस्ततो निष्क्रमितुमना अपि तदायुषा प्रियत इति हडिसदृशमायुः । व्याख्यातं चतुर्विषं पञ्चममायुष्कर्म ।।
सम्प्रति षष्ठं नामकर्माभिधित्सुराह-"नामकम्म चित्तिसमं” इत्यादि । नामकर्म भवति 'चित्रिसमं' चित्रं कर्म तत् कर्तव्यतया विद्यते यस्य स चित्री-चित्रकरस्तेन समम्-सदृशं चित्रिसमम् । यथा हि चित्री चित्र चित्रप्रकारं विविधवर्णकैः करोति, तथा नामकर्मापि जीवं नारकोऽयं तिर्यग्जातिकोऽयमेकेन्द्रियोऽयं द्वीन्द्रियोऽयमित्यादिव्यपदेशैरनेकधा करोतीति चित्रिसममिदमिति । एतच्चानेकभेदम् , कथम् ? इत्याह-"बायालतिनवइविहं तिउत्तरसयं च सत्तट्टी" ति । अत्र विधाशब्दस्य प्रत्येकं योगाद द्विचत्वारिंशद्विधम् , यद्वा त्रिनवतिविधम् , यदि वा व्युत्तरशतविधम् , अथवा सप्तपष्टिविधम् । चशब्दः समुच्चये व्यवहितसम्बन्धश्च, स च तथैव योजितः ॥ २३ ॥ अथ नामकर्मणो द्विचत्वारिंशतं भेदान् प्रचिकटयिषुराह
गइजाइतणुउवंगा, बंधणसंघायणाणि संघयणा। .
संठाणवन्नगंधरसफासअणुपुस्विविहगगई॥२४॥ इह नाम्नः प्रस्तावात् सर्वत्र गत्यादिषु नामेत्युपस्कारः कार्यः । तथाहि-तिनाम जातिनाम तनुनाम उपाङ्गनाम ( ग्रन्थानम् १०००) बन्धननाम सङ्घातननाम संहनननाम संस्था
नाम वर्णनाम गन्धनाम रसनाम स्पर्शनाम आनुपूर्वीनाम विहायोगतिनामेति । तत्र गम्यतेतथाविधकर्मसचिवैजींवैः प्राप्यत इति गतिः-नारकादिपर्यायपरिणतिः, तद्विपाकवेद्या कर्मप्रकृतिरपि गतिः, सैव नाम गतिनाम १ । जननं जातिः-एकेन्द्रियादिशब्दव्यपदेश्येन पर्यायेण जीवानामुत्पत्तिः, तद्भावनिबन्धनभूतं नाम जातिनाम २ । तनोति-जन्तुरात्मप्रदेशान् विस्तारयति यस्यां सा तनुः, तज्जनकं कर्मापि तनुः, सैव नाम तनुनाम, शरीरनामेत्यर्थः ३ । "उवंग" ति उपलक्षणत्वाद् अङ्गोपाङ्गनाम, तत्र “अौप् व्यक्तिम्रक्षणगतिः" इति धातोः अध्यन्ते-गर्भोत्पत्तेरारभ्य व्यक्तीभवन्ति जन्मप्रभृतेर्पक्ष्यन्ते चेत्यानि शिरउरउदरादीनि वक्ष्यमाणखरूपाणि, तदवयवभूतान्यङ्गुल्यादीन्युपाङ्गानि, शेषाणि तु तत्प्रत्यवयवभूतान्यङ्गुलिषु १°ति नरकावासाख ख०० उ०॥