SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रदरिविरचितखोपाटीकोपतः तिश्च यथाख्यातचारित्रं च सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्राणि तेषां पात:-विनाशः सम्यक्त्वाप्सर्वविरतियथाख्यालचारित्रघातस्तं कुर्वन्तीत्येवंशीलाः सम्यक्त्वाणुसर्वविरतिथयाख्यातचारित्रघातकराः । एतदुक्तं भवति-अनन्तानुबन्धिनः कषायाः सम्यक्त्वघातकाः । यदाहुः श्रीभद्रबाहुखामिपादाः पंढमिल्लयाण उदए, नियमा संजोयणाकसायाणं । सम्मइंसणलंमं, भवसिद्धीया वि न लहंति ॥ (आ० नि० गा० १०८) अप्रत्याख्यानावरणा देशविरतेर्षातकाः, न सम्यक्त्वस्येत्याल्लब्धम् । यदाहुः पूज्यपादाः बीयेकसायाणुदये, अप्पञ्चक्खाणनामधिज्जाणं । सम्मइंसणलंमं, विरयाविरयं न उ लहंति ॥ (आ०नि० गा० १०९) प्रत्याख्यानावरणास्तु सर्वविरतर्घातकाः, सामर्थ्यान्न देशविरतेः । उक्तं च~ तैइयकसायाणुदए, पञ्चक्खाणावरणनामधिज्जाणं । देसिकदेसविरई, चरितलंभं न उ लहंति ॥ (आ० नि० गा० ११०) संज्वलनाः पुनर्यथाख्यातचारित्रस्य घातकाः, न सामान्यतः सर्वविरतेः । उक्तं च श्रीमदाराध्यपादैः मूलगुणाणं लंभ, न लहह मूलगुणघाइणं उदए । संजरुणाणं उदए, न लहइ चरणं अहक्खायं ॥ (आ० नि० गा० १११) इति ॥ १८॥ अथ जलरेखादिदृष्टान्तेन किञ्चित्सविशेषं क्रोधादिकषायाणां स्वरूपं व्याचिख्यासुराह जलरेणुपुढविपव्वयराईसरिसो चउविहो कोहो । तिणिसलयाकट्टडियसेलत्थंभोवमो माणो ॥१९॥ इह राजिशब्दः सदृशशब्दश्च प्रत्येक सम्बध्यते । ततो जलराजिसशस्तावत् संज्वलनः क्रोषः, यथा ययादिभिर्जलमध्ये राजी-रेखा क्रियमाणा शीघ्रमेव निवर्तते, तथा यः कथमप्युदयप्राप्तोऽपि सत्वरमेव व्यावर्तते स संज्वलनः क्रोधोऽभिधीयते १ । रेणुराजिसदृशः प्रत्याख्यानावरणः क्रोधः, अयं हि संज्वलनक्रोधापेक्षया तीव्रत्वाद रेणुमध्यविहितरेखावत् चिरेण निवर्तत इति भावः २ । पृथिवीराजिसदृशस्त्वप्रत्याख्यानावरणः, यथा स्फुटितपृथिवीसम्बधिनी राजी कचवरादिभिः पूरिता कष्टेनापनीयते, एवमेषोऽपि प्रत्याख्यानावरणापेक्षया कप्टेन निवर्तत इति भावः ३ । विदलितपर्वतराजिसदृशः पुनरनन्तानुबन्धी क्रोधः, कथमपि निवर्तयितुमशक्य इत्यर्थः ४ । उक्तश्चतुर्विधः क्रोधः ॥ इदानीं मानोऽभिधीयते-तत्र तिनिसलतोपमः संज्वलनो मानः, यथा तिनिश:-बनस्पति१ प्राथमिकानामुदये नियमासयोजनाकषायाणाम् । सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते ॥ २ द्वितीयकषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलामं विरताविरतं न तु लभन्ते ॥ ३ तृतीयकषायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशेकदेशविरतिं चरित्रलामं न तु लभन्दे ।। ४ मूलगुणानां लाभ न लभते मूलगुणघातिनामदये। संज्वलनामामदये न लमते चरणं यथाख्यासम्॥
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy