________________
विशेषतत्सम्बन्विनी लता सुखेनैव नमति, एवं यस मानवोदये जीव खामहं मुक्खा सुखेनैव ममति स संज्वलनमानः १ । यथा स्तब्धं किमपि काठममिखेदाविबहूपायैः कष्टेन नमति, एवं यस्य मानस्योदये जीवोऽपि कष्टेन नमति स काठोपमः प्रत्याख्यानावरणो मामः २ । यथाऽसि-हडं बहुतरैरुपायैरतितरां महता कष्टेन नमति, एवं यस्य मानसोदये जीवोऽप्यतिसरां महता कष्टेन नमति सोऽस्थ्युपमोऽप्रत्याख्यानावरणो मानः ३ । शिलायां घटितः शैलः शैलचासौ स्तम्भश्च शैलस्तम्भस्तदुपमस्त्वनन्तानुबन्धी मानः, कथमप्यनमनीय इत्यर्थः ॥१५॥ उक्तश्चतुर्विधो मानः। अथ मायालोमो व्याख्यानयबाह
मायाऽवलेहिगोमुत्तिमिंढसिंगघणवंसिमूलसमा ।
लोहो हलिहखंजणकहमकिमिरागसामाणो ॥२०॥ मायाऽवलेखिकासमा संज्वलनी, धनुरादीनामुल्लिख्यमानानां याऽवलेखिका वक्रत्वग्रूपा पतति, यथाऽसौ कोमलत्वात् सुखेनैव प्राञ्जलीक्रियते, एवं यस्या उदये समुत्पन्नाऽपि हृदये कुटिलता सुखेनैव निवर्तते सा संज्वलनी माया १। गौः-बलीवर्दस्तस्य मार्गे गच्छतो वक्रतया पतिता मूत्रधारा गोमूत्रिकाऽभिधीयते, यथाऽसौ शुष्का पवनादिभिः किमपि कष्टेन मीयते, एवं यजनिता कुटिलता कष्टेनापगच्छति सा गोमूत्रिकासमा प्रत्याख्यानावरणी माया २१ एवं मेषशृङ्गसमायामप्यप्रत्याख्यानावरणमायायां भावना कार्या, नवरमेषा कष्टतरनिवर्तनीया ३ । धनवंशीमूलसमा त्वनन्तानुबन्धिनी माया, यथा निबिडवंशीमूलस्य कुटिलता किल बहि नाऽपि न दखते, एवं यजनिता मनःकुटिलता कथमपि न निवर्तते साऽनन्तानुबन्धिनी मायेत्यर्थः ४ । तथा लोभो हरिद्रारागसमानः संज्वलनः, यथा वाससि हरिद्वारागः सूर्यातपस्पर्शदिमात्रादेव निवर्तते तथाऽयमपीत्यर्थः १ । कष्टनिवर्तनीयो वस्त्रविलमप्रदीपादिखञ्जनसमानः प्रत्याख्यानावरणलोमः २ । कष्टतरापनेयो वस्त्रलमनिबिडकर्दमसमानोऽप्रत्याख्यानावरणलोमः ३ । कृमिरागरक्तपट्टसूत्ररागसमानः कथमप्यपनेतुमशक्योऽनन्तानुबन्धी लोभ ४ इति ॥२०॥
उक्तं कपायमोहनीयम् । अथ नोकषायमोहनीयं व्याख्यायते, तच्च द्विविधम् -हास्यादिषदक वेदत्रिकं च । तत्र हास्यादिषट्कं व्याख्यानयन्नाह
जस्सुदया होइ जिए, हास रई अरह सोग भय कुच्छा।
सनिमित्तमन्नहा वा, तं इह हासाइमोहणियं ॥ २१ ॥ यस दयाद' विपाकात् 'भवति' जायते 'जीवे' जीवस्य हासो रतिः अरतिः शोको मयं "कुच्छ"वि जुगुप्सा, हासादिशब्देषु सिलोपः प्राकृतत्वात् , 'सनिमितं' सकारणम् 'मन्यथा' अनिमित्वं निष्कारणम्, वाशब्दः पक्षान्तरद्योतकः, तद् 'इह' प्रक्चने हास्यादिमोहनीयम् । आदिशब्दाद् रतिमोहनीयम् अरतिमोहनीयं शोकमोहनीयं भयमोहनीयं जुगुप्सामोहनीयं मण्यत इति शेषः, इति गाथाक्षरार्थः । भावार्थः पुनस्यम्-यदुदयात् सनिमितमनिमितं वा मीवस्य हासः-हासं भवति तद् हासमोहनीयम् १ । यदुदयात् सनिमित्तमनिमितं वा बाधाभ्यन्तरेषु वस्तुपु जीवस्य रतिः-प्रमोदो भवति तद् रतिमोहनीयम् २ । यदुदयात् सनिमित१ कोनापनीय ग०५०॥