________________
१५-१८]
कर्मविपाकनामा प्रथमः कर्मप्रन्यः । ते चत्वारः क्रोधमानमायालोमाः । तथा परीषहोपसर्गोपनिपाते सति चारित्रिणमपि 'संशब्द ईषदर्थे सम्-ईषद् ज्वलयन्ति-दीपयन्तीति संज्वलनाः । यदभ्यधायि
परीषहोपसर्गोपनिपाते यतिमप्यमी ।
समीषद् ज्वलयन्त्येव, तेन संज्वलनाः स्मृताः ॥ ते चत्वारः क्रोधमानमायालोमाः । तदेवं चत्वारश्चतुष्ककाः षोडश भवन्तीति ॥ १७ ॥ उक्ताः षोडश कषायाः, सम्प्रत्येतेषामेव विशेषतः किञ्चित् स्वरूपं प्रतिपिपादयिषुराह
जाजीववरिसचउमासपक्खगा नरयतिरियनरअमरा ।
सम्माणुसव्वविरईअहवायचरित्तघायकरा ॥१८॥ “जाजीव" ति “यावतावजीवितावर्तमानावटपावारकदेवकुलैवमेवे वः" (सि०८-१२७१) इति प्राकृतसूत्रेण वकारलोपे यावजीवं च वर्ष च चतुर्मासं च पक्षश्च यावज्जीववर्षचतुर्मासपक्षास्तान् गच्छन्तीति यावजीववर्षचतुर्मासपक्षगाः । "नानो गमः खड्डौ च विहायसस्तु विहः” (सि० ५-१-१३१) इति डप्रत्ययः । इदमुक्तं भवति-यावज्जीवानुगा अनन्तानुबन्धिनः, वर्षगा अप्रत्याख्यानावरणाः, चतुर्मासगाः प्रत्याख्यानावरणाः, पक्षगाः संज्वलनाः । इदं च
फेरुसवयणेण दिणतवं, अहिक्खिवंतो य हणइ मासतवं ।
वरिसतवं सवमाणो, हणइ हणंतो य सामन्नं ।। (उप० मा० गा० १३४) इत्यादिवद् व्यवहारनयमाश्रित्योच्यते; अन्यथा हि बाहुबलिप्रभृतीनां पक्षादिपरतोऽपि संज्वलनाद्यवस्थितिः श्रूयते, अन्येषां च संयतादीनामाकर्षादिकाले प्रत्याख्यानावरणानामप्रत्याख्यानावरणानामनन्तानुबन्धिनां चान्तर्मुहूर्तादिकं कालमुदयः श्रूयत इति । तथा नरकगतिकारणत्वादनन्तानुबन्धिनः कषाया अपि नरकाः, भवति च कारणे कार्योपचारः, यथा--"आयुधृतम् , नडलोदकं पादरोगः" इति । एवं तिर्यग्गतिकारणत्वात् तिर्यञ्चोऽप्रत्याख्यानावरणाः, नरगतिकारणत्वान्नराः प्रत्याख्यानावरणाः, अमरगतिकारणत्वादमराः संज्वलनाः । एतदुक्तं भवति-अनन्तानुबन्ध्युदये मृतो नरकगतावेव गच्छति, अप्रत्याख्यानावरणोदये मृतस्तिर्यक्षु, प्रत्याख्यानावरणोदये मृतो मनुष्येषु, संज्वलनोदये पुनर्मूतोऽमरेष्वेव गच्छति । उक्तश्चायमर्थः पश्चानुपूर्व्याऽन्यत्रापि
पंक्खचउमासवच्छरजावज्जीवाणुगामिणो भणिया ।
देवनरतिरियनारयगइसाहणहेयवो नेया ।। (विशे० गा० २९९२) इदमपि व्यवहारनयमधिकृत्योच्यते; अन्यथा हि अनन्तानुबन्ध्युदयवतामपि मिथ्याशां केषाश्चिदुपरितनौवेयकेषुत्पत्तिः श्रूयते, प्रत्याख्यानावरणोदयवतां देशविरतानां देवगतिः, अप्रत्याख्यानावरणोदयवतां च सम्यग्दृष्टिदेवानां मनुष्यगतिः । तथा "सम्म" ति सम्यक्त्वं च “अणुसन्धविरइ"ति विरतिशब्दस्य प्रत्येकं सम्बन्धाद् अणुविरतिश्च-देशविरतिः सर्वविर
१ परुषवचनेन दिनतपोऽधिक्षिपंश्च इन्ति मासतपः । वर्षतपः शपमानः हन्ति बंध श्रामण्यम् ॥ २ पक्षचतुर्मासवत्सरयावज्जीवानुगामिनो भणिताः । देवनरतिर्यमारकगतिसाधनहेतवो ज्ञेयाः ॥