________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा
इत्यादिप्रतिपादितगुरुलक्षणविलक्षणेऽगुरावपि गुरुबुद्धिः, संयमसूनृतशौचब्रह्मसत्यादि (ब्रह्माकिञ्चन्यादि) खरूपधर्मप्रतिपक्षेऽधर्मेऽपि धर्मबुद्धिरिति मिथ्यात्वम् ॥ १६ ॥ उक्तं मिथ्यात्वम्, तद्भणने चाभिहितं त्रिविधमपि दर्शनमोहनीयम् । इदानीं चारित्रमोहनीयमभिधित्सुराहसोलस कसाय नव नोकसाय दुविहं चरितमोहणियं । अण अप्पचक्खाणा, पचक्खाणा य संजलणा ॥ १७ ॥ 'द्विविधं ' द्विभेदं चारित्रमोहनीयं भवति, तद्यथा – “सोलस कसाय" ति कप्यन्ते - हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कषः - संसारः, कषमयन्ते - गच्छन्त्येभिर्जन्तव इति कषायाः । यद्वा कषस्याऽऽयः – लाभो येभ्यस्ते कषायाः क्रोधमानमायालोभाः । तत्र क्रोधोऽक्षान्तिपरिणतिरूपः, मानो जात्यादिसमुत्थोऽहङ्कारः, माया परवञ्चनाद्यात्मिका, लोभोऽसन्तोषात्मको गृद्धिपरिणामः । ततः षोडशसङ्ख्याः कषायाः कषायमोहनीयमुच्यते । विभक्तिलोपश्च प्राकृतत्वात्, एवमुत्तरत्रापि । “नव नोकसाय" त्ति कषायैः सहचरा नोकषायाः, ते च नव — हास्यादयः षट् यो वेदाः । अत्र नोशब्दः साहचर्यवाची । एषां हि केवलानां न प्राधान्यमस्ति, किन्तु कषायै - रनन्तानुबन्ध्यादिभिः सहोदयं यान्ति, तद्विपाकसदृशमेव विपाकं दर्शयन्ति, बुधग्रहवदन्यसंसर्गमनुवर्तन्ते इति भावः । कषायोद्दीपनाद्वा नोकषायाः । उक्तं च
कषायसहवर्तित्वात्, कषायप्रेरणादपि ।
हास्यादिनवकस्योक्ता, नोकषायकषायता ॥
३४
ततो नवसङ्ख्या नोकषाया नोकषायमोहनीयमुच्यते । अथ “यथोद्देशं निर्देशः " इति न्यायात् प्रथमं कषायमोहनीयं व्याख्यानयन्नाह – “अण अप्पच्चक्खाणा" इत्यादि । " अण" त्ति अनन्तानुबन्धिनः । तत्रानन्तं संसारमनुबध्नन्तीत्येवंशीला अनन्तानुबन्धिनः । यदवाचियस्मादनन्तं संसारमनुबध्र्ध्नन्ति देहिनाम् ।
ततोऽनन्तानुबन्धीति, संज्ञाऽऽद्येषु निवेशिता ||
ते चत्वारः क्रोधमानमायालोभाः । यद्यपि चैतेषां शेषकषायोदयरहितानामुदयो नास्ति, तथाप्यवश्यमनन्तसंसारमौलकारणमिध्यात्वोदया क्षेपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः । शेषकषाया हि नावश्यं मिथ्यात्वोदयमाक्षिपन्ति, अतस्तेषामुदययौगपद्ये सत्यपि नायं व्यपदेश इत्यसाधारणमेतेषामेवैतन्नामेति । तथा न वेद्यते खल्पमपि प्रत्याख्यानं येषामुदयादतोऽप्रत्याख्यानाः । यदभाणि --
नाल्पमप्युत्सहेद्येषां प्रत्याख्यानमिहोदयात् । अप्रत्याख्यान संज्ञाऽतो, द्वितीयेषु निवेशिता ॥
ते चत्वारः क्रोधमानमायालोमाः । तथा प्रत्याख्यानं - सर्वविरतिरूपमा वृण्वन्तीति प्रत्याख्यानावरणाः । यन्यगादि
सर्वसावद्यविरतिः, प्रत्याख्यानमिहोच्यते । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥
१ आद्याः कषायाः ।