________________
_____३३
कर्मविपाकलामा प्रथमः कर्मग्रन्थः। खीणे सणमोहे, तिविहम्मि वि खाइयं भवे सम्म । वेयगमिह सोइयचरमिल्लयपुग्गलग्गार्स ॥ (धर्मसं० ८०१) उवसमसेढिगयस्स उ, होइ हु उवसामियं तु सम्मतं । जो वा अकयतिपुंजो, अखवियमिच्छो लहइ सम्मं ॥ उवसमसम्मत्ताओ, चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं, तयंतरालम्मि छाबलियं ॥ मिच्छत्तं जमुइन्नं, तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं, वेइजंतं खओवसमं ।।
(विशे० आ० गा० ५२९-३१-३२) इति ॥१५॥ उक्तं सम्यक्त्वम् । अथ मिश्रमाह
मीसा न रागदोसो, जिणधम्मे अंतमुह जहा अन्ने ।
नालियरदीवमणुणो, मिच्छं जिणधम्मविवरीयं ॥ १३ ॥ 'मिश्रात्' मिश्रोदयाद जीवस्य 'जिनधर्मे जिनधर्मस्योपरि न रागः-मतिदौर्बल्यादिना एकान्तनिश्चयात्मकश्रद्धानरूपः प्रीतिविशेषः, न च द्वेषः-एकान्तविप्रतिपत्तिपरिणामोपजातनिन्दात्मकोऽप्रीतिरूपः । मिश्रोदयश्च "अंतमुहु" ति 'अन्तर्मुहूर्त' भिन्नमुहूर्तकालं यावद् भवतीत्यर्थः । अथ कथं मिश्रोदयाजिनधर्मे न रागो न द्वेषः ? इत्याशक्य दृष्टान्तमाह-"जहा अन्ने" इत्यादि । 'यथा' इत्युदाहरणोपन्यासे 'अन्ने' कूराद्योदने 'नालिकेरद्वीपमनुजस्य' नालिकेरद्वीपवासिपुरुषस्य न रागो न च द्वेषोऽदृष्टाऽश्रुतत्वेन । उक्तं च बृहच्छतकबृहच्च - ___ जहा नालिकेरदीववासिस्स अइछुहाइयस्स वि पुरुसस्स इत्थ ओयणाइए अणेगविहे वि ढोइए तस्स आहारस्स उवरिं न रुई न य निंदा, जेण कारणेण सो ओयणाइओ आहारो न कयाइ दिट्ठो नावि सुओ । एवं सम्मामिच्छद्दिहिस्स वि जीवाइपयत्थाणं उवरिं न रुई न य निंदा ॥ इत्यादि।
उक्तं मिथम् । सम्प्रति मिथ्यात्वमाह-"मिच्छं जिणघम्मविवरीयं" ति । “मिच्छं" ति मिथ्यात्वं जिनधर्माद विपरीतं-विपर्यस्तं ज्ञेयमिति शेषः । अत्रायमाशयः-रागद्वेषमोहादिकलसाहितेऽदेवेऽपि देवबुद्धिः,
“धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः ।
सत्त्वानां धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥" १ क्षीणे दर्शनमोहे त्रिविधेऽपि क्षायिकं भवेत्सम्यक्त्वम् । वेदकमिह सर्वोदितचरमपुदलप्रासम् ॥ उपशमन्नेणिगतस्य तु भवति च भोपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुजोऽक्षपितमिथ्यात्वो लभते सम्यक्खम् ॥ उपशमसम्यक्त्वाच्यवमानस्य मिथ्याखमप्राप्नुवतः । सास्वादनसम्यक्त्वं तदन्तराले षडावलिकम्॥ मिथ्यात्वं यदुदीर्ण तत्क्षीणमनुदितं चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥ २ उक्सामगसेढिगयस्स होइ उव' इति भाष्ये ॥ ३ यथा नालिकेरद्वीपवासिनोऽतिक्षुधादितस्यापि पुरुषस्यहोदनादिकेऽनेकविधेऽपि ढोकिते तस्याहारस्योपरि न रुचिर्न च निन्दा, येन कारणेन स मोदनादिक आहारो न कदावि स्टो नापि श्रुतः । एवं सम्यग्मिथ्यादृष्टेरपि जीवादिपदार्थानामुपरि न रुचिर्न च निन्दा ॥
क.५