________________
११-१३) कर्मविपाकनामा प्रथमः कर्मप्रन्धः। २९ "पीणद्धी" इति निपात्यते । अस्यां हि जामदवस्वाध्यवसितमर्थमुत्वाय साधयति । श्रूयते बेतवागमे कथानकम् -
कचित् प्रदेशे कोऽपि क्षुल्लको द्विरदेन दिवा स्खलीकृतः स्त्यानचुदये. वर्तमानखमिनेव द्विरदे बद्धाभिनिवेशो रजन्यामुस्थाय तदन्तयुगलमुत्पाव्य खोपाश्रयद्वारे विस्वा पुनः सुतवान् इत्यादि।
इमां च व्युत्पत्तिमाश्रित्याह-"दिणचिंतियस्थकरणी थीणद्धी" इति दिने-दिवसे चिन्तिसमुपलक्षणत्वाभिशायामपि चिन्तितम्-अध्यवसितमर्थ करोति-साधयति निद्रानिद्रावतोरमेदोपचारादिनचिन्तितार्थकरणी, "रम्यादिभ्यः" (सि०५-३-१२६) कर्तर्यनद्प्रत्ययः । यहा स्त्याना-पिण्डीमूता ऋद्धिः-आत्मशक्तिरस्यामिति स्त्यानलिः, एतत्सद्भावे हि प्रथमसंहननस्य केशवार्धबलसदृशी शक्तिः । एनां च व्युत्पत्तिमाश्रित्याह-"अद्धचकिपद्धबल" ति अर्थवक्रिणः-वासुदेवस्य बलापेक्षया अर्ध बलं-स्थाम यस्या उदये जन्तोर्भवति साऽचयर्धबला, तद्विपाकवेद्या कर्मप्रकृतिरपि थीणद्धीति ५। अत्र चक्षुर्दर्शनावरणादिचतुष्कं मूलत एव दर्शनलब्धिमुपहन्ति, निद्रापञ्चकं तु प्राप्ताया दर्शनलब्धेरुपघातकृत् । आह च गन्धहस्ती
निद्रादयः समधिगताया एव दर्शनलब्धेरुपधाते वर्तन्ते, दर्शनावरणचतुष्टयं तूद्गमोच्छेदित्वात् समूलघातं हन्ति दर्शनलब्धिमिति (तत्त्वार्थ अ०८ सू. ८ सिद्ध० टीका)। ___ अभिहितं द्वितीयं नवविधं दर्शनावरणम् । साम्प्रतं तृतीयं कर्म वेचं वेदनीयापरपर्यायं व्याचिख्यासुराह-"महुलित" इत्यादि । मधुना-मधुररसेन लिप्ता-खरण्टिता खड्गस्य-करवालस्य धारा-तीक्ष्णाग्ररूपा तस्या जिया लेहनमिव-आखादनसदृशं द्विषैव' द्विप्रकारमेव सातासातभेदात् , तुशब्द एवकारार्थः, 'वेदनीय' वेधं कर्म भवति । इह च मधुलेहनसन्निभं सातवेदनीयम् , खाधाराच्छेदनसममसातवेदनीयम् । उक्तं च
मेहुआसागणसरिसो, सायावेयस्स होइ हु विबागो। जं असिणा तहि छिज्जइ, सो उ विवागो असायस्स ।।
(वृ० कर्मवि० गा० २९) ॥१२॥ अथ गतिचतुष्टये सातासातखरूपमाह
ओसन्नं सुरमणुए, सायमसायं तु तिरियनरएसु ।
मज व मोहणीयं, दुविहं दंसणचरणमोहा॥१३॥ ओसन्नशब्दो देशीवचनो बाहुल्यवाचकः, यथा-"ओसनं देवा सायं वेयणं वेयंति ।" तत्र 'मोसन' बाहुल्येन प्रायेणेत्यर्थः, सुराश्व-देवा मनुजाश्च-मनुष्याः सुरमनुजं समाहारद्वन्द्वः, तस्मिन् सुरमनुजे सुरेषु मनुजेष्वित्यर्थः 'सातं' सातवेदनीयं भवति । ओसन्नग्रहणात् च्यवनकालेऽन्यदाऽपि सुराणामसातोदयोऽप्यस्ति, चारकनिरोधवधवन्धनशीतातपादिमिर्मनुजानामक सातमिति । नरकमवाः प्राणिनोऽप्युपचारात् नरकाः, ततस्तिर्यञ्चश्च नरकाश्च तिर्यमरकानेषु
१°समानम ख० ग० ० ॥ २ मध्वाखादनसदृशः सातवेद्यस्य भवति खड विपाकः । यदसिना तत्र सियते सतु विपाकोऽसातस ॥ ३ हु ख०म०॥ ४ बाहुस्पेन देवाः सातं वेदनं वेदवन्ति ।