________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[" गायी
'तस्यावरणं' दर्शनावरणम्, तत् चतुर्षा भवति चक्षुर्दर्शनाबरणम् १ अचक्षुर्दर्शनावरणम् २ अवधिदर्शनावरणम् ३ केवलदर्शनावरणम् ४ इति गाथाक्षरार्थः । भावार्थस्त्वयम् - इह चक्षुर्दर्शनं नाम यत् चक्षुषा रूपसामान्यग्रहणं तस्यावरणं चक्षुर्दर्शनावरणं चक्षुः सामान्योपयोगावरणमिति यावत् १ । अचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यद् दर्शनं स्वस्वविषयसामान्यपरिच्छेदोचक्षुर्दर्शनं तस्यावरणमचक्षुर्दर्शनावरणम् २ । अवधिना रूपिद्रव्यमर्यादया दर्शनं सामान्यार्थग्रह - णमवधिदर्शनं तस्यावरणमवधिदर्शनावरणम् ३ । केवलेन सम्पूर्णवस्तुतत्त्वमाहकबोषविशेषरूपेण यद् दर्शनं वस्तुसामान्यांशग्रहणं तत् केवलदर्शनं तस्यावरणं केवलदर्शनावरणं ४ |
अत्राह - ननु यथाऽवधिदर्शनावरणं कर्मोच्यते तथा मनः पर्यायज्ञानस्यापि दर्शनावरणं कर्म किमिति नोच्यते ?, उच्यते मनःपर्यायज्ञानं तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृहदुत्पद्यते, न सामान्यम्, अतस्तद्दर्शनाभावात्तदावरणं कर्मापि न भवति । अत्र च चक्षुर्दर्शनावरणोदये एकद्वित्रीन्द्रियाणां मूलत एव चक्षुर्न भवति, चतुःपञ्चेन्द्रियाणां तु भूतमपि चक्षुस्तथाविधे तदुदये विनश्यति तिमिरादिना वाऽस्पष्टं भवति । चक्षुर्वर्जशेषेन्द्रियमनसां पुनर्यथासम्भवमभवनमस्पष्टभवनं वाऽचक्षुर्दर्शनावरणोदयादिति ॥ १० ॥ अभिहितं दर्शनावरणचतुष्कम्, सम्प्रति निद्रापञ्चकमभिषित्सुराह—
सुहपडिवोहा निद्दा १, निद्दानिद्दा २ य दुक्खपडिबोहा । पयला ३ ठिओवविट्ठस्स पयलपयला ४ उ चंकमओ ॥ ११ ॥ सुखेन-अकृच्छ्रेण नखच्छोटिकामात्रेणापि प्रतिबोध: - जागरणं स्वप्नुर्यस्यां स्वापावस्थायां सा सुखप्रतिबोधा निद्रा, तद्विपाकवेद्या कर्मप्रकृतिरपि कारणे कार्योपचारात् निद्रेत्युच्यते १ । निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा, मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, 'च' समुच्चये, दुःखेन - कष्टेन बहुभिर्घोलनाप्रकारैरत्यर्थमस्फुट तरी भूत चैतन्यत्वेन स्वप्तः प्रतिबोधो यस्यां सा दुःखप्रतिबोधा, अत एव सुखप्रतिबोधनिद्रापेक्षयाऽस्या अतिशायिनीत्वम्, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा २ । प्रचलति विघूर्णते यस्यां स्वापावस्थायां प्राणी सा प्रचला, सा च स्थितस्योर्ध्वस्थानेन उपविष्टस्य - आसीनस्यं भवति, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला ३ । प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला, इयं 'तु:' पुनरर्थे 'चङ्क्रमतः ' चङ्क्रमणमपि कुर्वतो जन्तोरुपतिष्ठते, अतः स्थानस्थित खप्तप्रभवप्रचलामपेक्ष्या ऽतिशायिनीत्वमस्याः, तद्विपाकवेखा कर्मप्रकृतिरपि प्रचलाप्रचला ४ | सूत्रे च "पयलपयला" इति हखत्वं " दीर्घखौ मिथो वृत्तौ " ( सि० ८ - १ - ४ ) इति सूत्रेण । इति ॥ ११ ॥
I
दिणचिंतियत्थकरणी, थीणद्धी ५ अद्धचकिअद्धबला । महुलित्तबग्गधारालिहणं व दुहा उ वेयणियं ॥ १२ ॥
૪
स्त्याना - बहुत्वेन सङ्घातमापन्ना गृद्धि: - अभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनविषया स्वापावस्थायां सा स्त्यानगृद्धिः । " गौणादयः " ( सि० ८-२-१७४ ) इति प्राकृतसूत्रेण
१ 'नमचक्षुर्द क० ख० ग० घ० ङ० ॥ २ स्यापि भ° ग० ॥