________________
५-१०] कर्मविपाकनामा प्रथमः कर्मप्रन्धः । पवाशुलीपचकनिष्पक्षो मुष्टिः, मूलत्वपत्रशाखादिसमुदयनिष्पनो वा वृक्षः, धृतगुडकणिकादिनिष्पनो वा मोदक इति । एवमुत्तरत्रापि भावनीयम् । व्याख्यातं पञ्चविध ज्ञानावरणं कर्म।
इदानीं नवविषं दर्शनावरणं कर्म व्याख्यानयनाह-"दसणचउ पणनिदा वितिसमं दसणावरणं" ति । इह मीमो भीमसेन इति न्यायात् पदैकदेशे पदसमुदायोपचाराद्वा "दसणचउ" इति शब्देन दर्शनावरणचतुष्कं गृपते । तत्र दृष्टिदर्शनम् , दृश्यते-परिच्छिद्यते सामान्यरूपं वस्त्वनेनेति वा दर्शनम् , तस्यावरणानि-आच्छादनानि दर्शनावरणानि तेषां चतुष्कं दर्शनावरणचतुष्कम् । तथा "पणनिद्द" ति द्रांक कुत्सितगती, नितरां द्राति-कुत्सितत्वमवि. स्पष्टत्वं गच्छति चैतन्यं यासु ता निद्रा, "मिदादयः" (सि० ५-३-१०८) इति अङ्प्रत्ययः, 'पञ्च' इति पञ्चसायाः-निद्रा१निद्रानिद्रारप्रचला३प्रचलामचलाएस्त्यानपिरूपा निद्राः पञ्चनिद्रा निद्रापञ्चकम् । ततो दर्शनावरणचतुष्कं निद्रापञ्चकमिति नवधा दर्शनावरणं भवति । किंविशिष्टम् ! इत्याह -"वित्तिसमं" ति वेत्रिणा प्रतीहारेण समं-तुल्यं वेत्रिसमम् । यथा राजानं द्रष्टुकामस्याप्यनभिप्रेतस्य लोकस्य वेत्रिणा स्खलितस्य राज्ञो दर्शनं नोपजायते, तथा दर्शनखभावस्याप्यात्मनो येनाऽऽवृतस्य स्तम्भकुम्भाम्भोरुहादिपदार्थसार्थप न दर्शनमुपजायते तद् वेत्रिसमं दर्शनावरणम् । उक्तं च
दसणसीले जीवे, दंसणघायं करेइ जं कम्मं । तं पडिहारसमाणं, दसणवरणं भवे कम्मं ॥ जह रनो पडिहारो, अणभिप्पेयस्स सो उ लोगस्स । रन्नो तहि दरिसावं, न देइ दई पि कामस्स ।। जह राया तह जीवो, पडिहारसमं तु दंसणावरणं । तेणिह विबंधएणं, न पेच्छए सो घडाईयं ॥
(बृहत्कर्मवि० गा० १९-२१) ॥९॥ अथ दर्शनावरणचतुष्कं व्याचिख्यासुराह
चक्खूदिहिअचक्खूसेसिंदियओहिकेवलेहिं च ।
दंसणमिह सामन्नं, तस्सावरणं तयं चउहा ॥१०॥ इह चक्षुःशब्देन दृष्टिगते, अचक्षुःशब्देन "सेसिदिय" ति चक्षुर्वर्जशेषेन्द्रियाणि गृपन्ते, ततश्चक्षुश्च अचक्षुश्च अवधिश्व केवलं च चक्षुरचक्षुरवधिकेवलानि तैः चक्षुरचक्षुरवधिके. बलैः । चशब्दः "अचक्खूसेसेंदिय" इत्यत्र मनसः संसूचकः । दर्शनम् इह' प्रबचने 'सामान्य सामान्योपयोग उच्यते, यदुक्तम्
जं सामनग्गहनं, भावाणं नेव कड आगारं ।
अविसेसिऊण अत्थे, दसणमिय वुच्चए समए ॥ (वृ० द्रव्यसं० गा०१३) १दर्शनशीले जीवे दर्शनघातं करोति यत् कर्म । तत् प्रतिहारसमानं दर्शनावरणं भवेत्कर्म ॥ यथा राम प्रतिहारोऽनभिप्रेतस्य स तु लोकस्य । राज्ञस्तत्र दर्शनं न ददाति बटुमपि कामस्य ॥ यथा राजा तथा जीवा प्रविहारसमं तु दर्शनावरणम् । तेनेह विवन्धकेन न प्रेक्षते स घटादिकम् ॥ २ यत् सामान्यपहनं भावानां नैव कलाकारम् । भविशेषामिलार्थान् दर्शनमित्युच्यते समये ।