SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितखोपाटीकोपेतः गामा मूर्त वा त्रिकालगोचरमपि बाबमर्थमनुमानादवैति, “जाणइ बज्मेऽणुमाणाओ" (विशे० गा. ८१४) इति वचनात् । यत एतत्परिणतान्येतानि मनोद्रव्याणि इत्येतदन्यथानुपपतेरमुकोऽर्थोऽनेन चिन्तित इति लेखाक्षरदर्शनात् तदुक्तार्थमिव प्रत्यक्षं मनोद्रव्यदर्शनाचिन्त्यमर्थमनुमिमीते । स चैष वायाभ्यन्तररूपो द्विविधोऽपि विषयः स्फुटतरबहुतरविशेषाध्यासितत्वेन विपुलमतेविमलतरोऽवसेय इति । निरूपितं मनःपर्यायज्ञानम् ।। ___ अथ केवलज्ञानं व्याचिख्यासुराह-"केवलमिगविहाणं" ति 'केवलं' केवलज्ञानम् 'एकविधानम्' एकविषम् , प्रथमत एव सर्वद्रव्यक्षेत्रकालभावप्राहकत्वादिति भाव इति ॥ ८॥ अमिहितं केवलज्ञानं तदभिधाने च व्याख्यातानि पञ्चापि ज्ञानानि । इदानीमेतेषामावरणमाह एसिं जं आवरणं, पडु व्य चक्खुस्स तं तयावरणं । दंसणचउ पणनिदा, वित्तिसमंदसणावरणं ॥९॥ 'एषां मतिज्ञानादीनां पञ्चानां ज्ञानानां यद् 'आवरणम्' आच्छादकम् , 'पट इव' सूत्रादिनिष्पनशाटक इव 'चक्षुषः' लोचनस्य, तत् तेषां मतिज्ञानादीनामावरणं तदावरणमुच्यते । इदमत्र हृदयम्यथा घनघनतरघनतमेन पटेनावृतं सत् निर्मलमपि चक्षुर्मन्दमन्दतरमन्दतमदर्शनं भवति, तथा ज्ञानावरणेन कर्मणा घनघनतरपनतमेनावृतोऽयं जीवः शारदशशपरकरनिकरनिर्मलतरोऽपि मन्दमन्दतरमन्दतमज्ञानो भवति, तेन पटोपमं ज्ञानावरणं कर्मोच्यते। तत्रावरणस्य सामान्यत एकरूपत्वेऽपि यत् पूर्वोक्तानेकभेदभिन्नस मतिज्ञानस्यानेकभेदमेवाऽऽवरणखभावं कर्म तद् मतिज्ञानावरणमेकग्रहणेन गृह्यते चक्षुषः पटलमिव १ । तथा पूर्वाभिहितभेदसन्दोहस्य श्रुतज्ञानस्य यद् आवरणखभावं कर्म तत् श्रुतज्ञानावरणम् २ । तथा प्राक्प्रपश्चितमेदकदम्बकस्यावधिज्ञानस्य यद् आवरणखभावं कर्म तद् अवधिज्ञानावरणम् ३ । तथा प्रागनितिमेदद्वयस्य मनःपर्यायज्ञानस्य यद् आवरणखभावं कर्म तद् मनःपर्यायज्ञानावरणम् । तथा पूर्वप्ररूपितखरूपस्य केवलज्ञानस्य यद् आवरणखमावं कर्म तत् केवलज्ञानावरणम् ५। उक्तं च बृहत्कर्मविपाके सेरउग्गयससिनिम्मलतरस्स जीवस्स छायणं जमिह । नाणावरणं कम्मं, पडोवमं होइ एवं तु ॥ जह निम्मला वि चक्खू , पडेण केणावि छाईया संती। मंदं मंदतरागं, पिच्छइ सा निम्मला जह वि॥ तेह महसुयनाणावरण अवहिमणकेवलाण आवरणं । जीवं निम्मलरूवं, आवरइ इमेहिं मेएहिं ॥ (गा० १०-१२) तदेवमेतानि पञ्चावरणान्युत्तरप्रकृतयः, तनिष्पन्नं तु सामान्येन ज्ञानावरणं मूलप्रकृतिः । १जानाति बाह्याननुमानात् ॥ २ शरदुद्गतशशिनिर्मलतरस्य जीवस्य च्छादनं यदिह । ज्ञानावर कर्म पटोपमं भवति एवं तु ॥ यथा निर्मलमपि चक्षुः पटेन केनापि च्छादितं सत् । मन्दं मन्दतरफ प्रेक्षते तद् निर्मलं यद्यपि ।। तथा भविभुतज्ञानावरणमवधिमनाकेवलानामावरणम् । जीवं निर्मलरूपमारणोत्येमि भेदः। ३ "तह मामुयनाशाण ओहीयणकेवलाण आवरणं ।" इति ब्रहस्कर्मविपाके।
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy