SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितखोपाटीकोपतः गाया तिर्मनु नरकेष्वित्यर्थः, ओसनशब्दसेहापि सम्बन्धादसातम्, 'तुः पुनर व्यवहितसम्ब धध, स चैवं योज्यते--तिर्यमरकेषु पुनरसातं प्रायो भवति । भोसनग्रहणात् केपावित् महस्तितुरङ्गादीनी तिरश्चां नारकाणामपि जिनजन्मकल्याणकादिषु सातमप्यस्तीति । उक्तं द्विविधं वेदनीयं तृतीयं कर्म । इदानीमष्टाविंशतिविधं मोहनीयं चतुर्थ कर्माभिषित्सुराह-"मजं व मोहणीयं" इत्यादि । 'मममिव' मदिरासहशं मोहयतीति मोहनीयं कर्म । "प्रवचनीयादयः" (सि० ५.१-८) इति कर्तर्यनीयप्रत्ययः । यथा हि मद्यपानमूढः प्राणी सदसद्विवेकविकलो भवति, तथा मोहनीयेनापि कर्मणा मूढो जन्तुः सदसद्विवेकविकलो भवतीति । तच द्विविध' द्विमेदम्, कथम् इत्याह-"दसणचरणमोह"ति दर्शनमोहाचरणमोहादित्यर्थः । तत्र दृष्टिदर्शनं यथावस्थितवस्तुपरिच्छेदस्तद् मोहयतीति "कर्मणोऽण्" (सि० ५-१-७२) इत्यणपत्यये दर्शनमोहम् । चरन्ति-परमपदं गच्छन्ति जीवा अनेनेति चरणं चारित्रं तद् मोहयतीति चरणमोहमिति ।। १३ ।। अथ दर्शनमोहं व्याख्यानयनाह दसणमोहं तिविहं, सम्मं मीसं तहेव मिच्छत्तं। सुद्धं अद्धविसुद्धं, अविसुद्धं तं हवा कमसो॥१४॥ दर्शनमोहं पूर्वोक्तशब्दार्थ 'त्रिविधं त्रिप्रकारं भवति । "सम्म"ति सम्यक्त्वं 'मिश्र' सम्यम्मिथ्यात्वं तथैव मिथ्यात्वम् । एतदेव स्वरूपत आह-शुद्धमविशुद्धमविशुद्धं तद् भवति 'क्रमशः' क्रमेणेति । अयमत्रार्थ:-मिथ्यात्वपुगलकदम्बकं मदनकोद्रवन्यायेन शोषितं सद् विकाराजनकत्वेन शुद्धं सम्यक्त्वं भवति, तदेव किञ्चिद्विकारजनकत्वेनार्धविशुद्ध मिश्रम् , तदेव सर्वथाप्यविशुद्धं मिथ्यात्वमिति । उक्तं चतपथेह प्रदीपस्य, खच्छामपटलैहम् । न करोत्यावृति काश्चिदेवमेतद्रुचेरपि ।। एकपुली द्विपुझी च, त्रिपुली वा ननु क्रमात् । दर्शन्युभयवांश्चैव, मिथ्यावृष्टिः प्रकीर्तितः ॥ अत्राह-सम्यक्त्वं कथं दर्शनमोहनीयं स्यात् ?, न हि तद् दर्शनं मोहयति, तस्यैव दर्शनत्वात् , उच्यते-मिथ्यात्वपकृतित्वेनातिचारसम्भवाद् औपशमिकादिमोहत्वाच दर्शनमोहनीयमिति ॥ १४ ॥ इत्युक्तं सोपतसिविधं दर्शनमोहम् । सम्प्रत्येतदेव व्याचिख्यासुः प्रथम सम्यक्त्वखरूपमाह जियअजियपुनपावाऽऽसवसंवरबंधमुक्खनिजरणा। जेणं सहहह तयं, सम्मं वहगाइबहुभेयं ॥ १५ ॥ जीवश्च अजीवश्च पुण्यं च पापं च आवश्च संवरश्च बन्धश्च मोक्षश्च निर्जरणं च निर्जरा, एतानि नव तत्त्वानि 'येन' कर्मणा 'श्रद्दधाति' प्रत्येति तत् सम्यक्त्वमुच्यते । तत्र नव तत्त्वान्यमूनि जीवा१ऽजीवा २ पुनं३, पावाऽऽसव ५ संवरो ६ य निजरणा । नां नारक० ख० ग० ० ०॥ २ जीवाजीवो पुण्यं पापमाश्रवः संवरण निर्जरणा । बन्यो मोक्षय तथा नव तत्त्वानि भवन्ति इति यानि ॥१॥ एकविधद्विविधत्रिविधाचतुर्क पञ्चविधषविधा जीवा।।
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy