________________
देवेन्द्रसूरिविरचितखोपाटीकोपेतः
[गा रकूर्मरबवरखालांशुकाष्टापदाडशसुप्रतिष्ठकमयूरश्रीदामाभिषेकतोरणमेदिनीजकपिवरमवनादर्शप वैतगजवषमसिंहचामररूपमशस्तोत्तमद्वात्रिंशल्लक्षणधराः खभावत एव सुरमिवदनाः प्रतनुको बमानमायालोमाः सन्तोषिणो निरौत्सुक्या मार्दवार्जवसम्पन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादौ ममत्वकारणे ममत्वामिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धा हस्त्यश्वकरभगोमहिमादिसद्भावेऽपि तत्परिभोगपरामुखाः पादविहारिणो ज्वरादिरोगयक्षभूतपिशाचादिग्रहमारिपसनोपनिपातविकलाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमिन्द्राः। तेषां पृष्ठकरण्डकानि चतुःषष्टिसाकानि, चतुर्थातिकमे चाहारग्रहणम् , आहारोऽपि च न शाल्यादिधान्यनिष्पन्नः किन्तु पृथिवीमृतिका कल्पद्रुमाणां पुष्पफलानि च । तथाहि-जायन्ते खलु तत्रापि विससात एवं शालिगोधूममुद्गमाषादीनि धान्यानि परं न तानि मनुष्याणामुपभोगं गच्छन्ति, या तु पृथिवी सा. शर्करातोऽप्यनन्तगुणमाधुर्या, यश्च कल्पद्रुमफलानामाखादः स चक्रवर्तिभोजनादप्यषिकगुणः । यदुक्तम्---
'तेसि णं भंते ! पुष्फफलाणं केरिसए आसाए पन्नते ? गोयमा ! से जहानामए रणो चाउरंतचकवट्टिस्स कल्लाणे भोयणजाए सयसहस्सनिष्फन्ने वन्नोववेए गंधोववेए रसोववेए फ्रासोववेए आसायणिजे विस्सायणिजे दप्पणिज्जे मयणिजे विहणिजे सबिंदियगायपल्हायणिज्जे आसाएणं पनत्ते, इत्तो इतराए चेव पन्नते । (जम्बू० पत्र ११८-१)
ततः पृथिवी कल्पपादपपुष्पफलानि च तेषामाहारः । तथाभूतं चाहारमाहार्य प्रासादादिसंस्थाना ये गृहाकाराः कल्पद्रुमास्तेषु यथासुखमवतिष्ठन्ते । न च तत्र क्षेत्रे दंशमशकयूकामस्कुणमक्षिकादयः शरीरोपद्रवकारिणो जन्तव उपजायन्ते । येऽपि जायन्ते भुजगन्याप्रसिंहादयस्तेऽपि मनुष्याणां न बाधायै प्रभवन्ति, नापि ते परस्परं हिंस्यहिंसकभावे वर्तन्ते, क्षेत्रानुभावतो रौद्रभावरहितत्वात् । मनुष्ययुगलानि च पर्यवसानसमये युगलं प्रयुक्ते, तत् पुनर्युगलमेकोनाशीतिदिनानि पालयन्ति । तेषां शरीरोच्छ्योऽष्टौ धनुःशतानि, पल्योपमासकीयमागप्रमाणमायुः, स्तोककषायतया स्तोकप्रेमानुबन्धतया च ते मृत्वा दिवमुपसर्पन्ति । मरणं च तेषां जृम्भिकाकाशक्षुतादिमात्रव्यापारपुरस्सरे भवति, न शरीरपीडारम्भपुरस्सरमिति । अत्र गाथा:
हिमगिरिनिग्गयपुवावरदाढा विदिसि संठिया लवणे । जोयणतिसए गंतुं, तिन्नि सए वित्थराऽऽयामा ॥ वेइयवणसंडजुया, चउ अंतरदीव तेसि नामाइं।
एगोरुग १ आभासिय २, वेसाणियनाम ३ नंगूली ४ ॥ १ तेषां भगवन् ! पुष्पफलाना कीश आखादः प्रज्ञप्तः! गौतम ! स यथानामकः राजथातुरन्तचक्रवर्तिनः कल्याणं भोजनजातं शतसहसनिष्पर्ण वर्णोपपेतं गन्धोपपेतं रसोपपेतं स्पोपपेतं भाखादनीयं विखादनीय दर्पणीयं मदनीयं बृंहणीयं सर्वेन्द्रियगात्रप्रहादनीयमाखादेन प्राप्तम् , इत इष्टतरचव प्राप्तः॥ २ हिमगि रिनिर्गतपूर्वापरदाढा विदिधि संस्थिता लवणे । योजनत्रिशतं गला श्रीणि शतानि वित्तराऽऽयामाः॥ वेदिका बनखण्डयुताबखार अन्तरद्वीपास्तेषां नामानि । एकोरुकः १ आमासिकः २ वैषाणिकनामा ३ नामोलिः ४ ।