________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः।
२५ प्रीणि योजनशतानि लबणसमुद्रमवगास दंष्ट्राया उपरि पूर्वोकप्रमाणो नाहोलिकनामा बीपः । एवमेते चत्वारो द्वीपा हिमवतश्चतसृष्वपि विदिक्षु तुरुयप्रमाणा अवतिष्ठन्ते । तत एषामेकोलादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं चत्वारि चत्वारि योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किश्चिन्यूनपश्चषष्टिसहितद्वादशयोजनशतपरिशेषा मयोतपनवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातश्चतुर्योजनशतप्रमाणान्तस हककर्णगजकर्णगोकर्णशष्कुलकर्णनामानश्चत्वारो द्वीपाः । तद्यथा--एकोरुकस्य परतो हवकर्णः, सामासिकस परतो गजकर्णः, वैषाणिकस्य परतो गोकर्णः, नाङ्गोलिकस्म परतः शष्कुलकर्णः, एवमग्रेऽपि भावना कार्या । तत एतेषामपि हयकर्णादीनां चतुर्णामपि द्वीपानां परतः पुनरमि स्थाकम पूर्वोचरादिविदिक्षु प्रत्येकं पञ्च पञ्च योजनशतान्यतिकम्य पञ्चयोजनशतायामविष्कम्मा एकाशीत्यधिकपश्चदशयोजनशतपरिक्षेपाः पूर्वोकप्रमाणपद्मवरवेदिकावनखण्डमण्डितबायप्रदेशा जम्बूद्वीपवेदिकातः पञ्चयोजनशतप्रमाणान्तरा आदर्शमुखमेण्दमुखाऽयोमुखगोमुखनामानश्चत्वारो द्वीपाः। एतेषामप्यादर्शमुखादीनां चतुर्णा द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोचरादिविदिक्षु प्रत्येकं षट् षड् योजनशतान्यतिक्रम्य षड्योजनशतायाम विष्कम्भाः सप्तनवत्यधिकाष्टावशयोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातः षड्योजन शतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपाः । एतेषामप्यश्चमुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक सप्त सप्त योजनशतान्यतिक्रम्य सप्तयोजनशतायामविष्कम्भास्त्रयोदशाधिकद्वाविंशतियोजनशतपरिरयाः पूर्वोक्तप्रमाणपत्रवरवे. दिकावनखण्डसमवगूढा जम्बूद्वीपवेदिकातः सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहयकर्णाकर्णक
प्रावरणनामानश्चत्वारो द्वीपाः। तत एतेषामश्वकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोतरादिविदिक्षु प्रत्येकमष्टावष्टौ योजनशतान्यतिक्रम्याष्टयोजनशतायाम विष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातोऽष्टयोजनशतप्रमाणान्तरा उल्कामुखमेघमुख विद्युन्मुखविद्युदन्ताभिधानाश्चत्वारो द्वीपाः । ततोऽमीषामप्युल्कामुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोचरादिविदिक्षु प्रत्येकं नव नव योजनशतान्यतिक्रम्य नवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपनवरवेदिकावनखण्डमण्डितपरिसरा जम्बूद्वीपवेदिकातो नवयोजनशतप्रमाणान्तरा घनदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः । एवमेते सप्त चतुष्का हिमवति पर्वते चतसृष्वपि विदिक्षु ज्यवस्थिताः, सर्वसझपयाऽष्टाविंशतिः । एवं हिमवत्तुल्यवर्णप्रमाणे पाहदपमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु व्यवस्थिता एकोहकादिनामानोऽक्षुण्णापान्तरालायाम विष्कम्भा अष्टाविंशतिसया द्वीपा वक्तव्याः, सर्वसामया षट्पञ्चाशदन्तरद्वीपाः ।। एतद्रता मनुष्या अप्येतनामान उपचारात्, भवति च सास्थ्यात् तद्यपदेशः, वा पश्चालदेशनिवासिनः पुरुषाः पञ्चाला इति । ते च मनुष्या बज्रऋषभनाराचसंहनिनः समचतु. रससंसानाः सांगोपालसुन्दराः कमण्डलुकलशयूपस्तूपवापीध्वजपताकासौवस्तिकयवमत्स्समक