SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितखोपजटीकोपेतः [गाया गामि, शृङ्खलाबद्धप्रदीप इव यद् न गच्छन्तं ज्ञानिनमनुगच्छति, यत् किल तद्देशवस्यैव भवति, तद्देशनिबन्धनक्षयोपशमजत्वात् , देशान्तरगतस्य त्वपैति, तद् अवविज्ञानमनानुगामीति भावः । थवाह भगवान् श्रीदेवर्द्धिक्षमाश्रमण: से' किं तं अणाणुगामियं ओहिनाणं? अणाणुगामियं ओहिनाणं से जहानामए केह पुरिसे एग महं जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरतेसु परिपेरतेसु परिहिंडमाणे परिहिंडमाणे परिघोलमाणे परिघोलमाणे तमेव जोइट्ठाणं पासह अन्नत्य गए न पासह, एवमेव अणाणुगामियं ओहिनाणं जत्थेव समुप्पजह तत्थेव संखिज्जाणि वा असंखिजाणि वा जोयणाई पासइ न अन्नत्य । (नन्दी पत्र ८९-१) भाष्यकारोऽप्याह अणुगामि उ अणुगच्छद, गच्छंतं लोयणं जहा पुरिसं । इयरो उ नाणुगच्छइ, ठियप्पईवु व गच्छंतं ॥ ( विशे० गा० ७१५) तथा वर्धत इति वर्धमानम् , ततः संज्ञायां कन्प्रत्ययः, बहुबहुतरेन्धनप्रक्षेपादभिवर्धमानज्वलनज्वालाकलाप इव पूर्वावस्थातो यथायोगं प्रशस्तप्रशस्ततराध्यवसायतो वर्धमानमवधिज्ञानं वर्धमानकम् । एतत् किलाङ्गुलासझ्येयभागादिविषयमुत्पद्य पुनर्वृद्धिं विषयविस्तरणात्मिका याति यावदलोके लोकप्रमाणान्यसङ्ख्येयानि खण्डानीति ३ । तथा हीयते-तथाविध. सामग्र्यभावतो हानिमुपगच्छतीति हीयमानम् , कर्मकर्तृविवक्षायाम् अनट्प्रत्ययः, हीयमानमेव हीयमानकम् , "कुत्सिताल्पाज्ञाते" (सि० ७-३-३३) कप्रत्ययः, पूर्वावस्थातो यदधोऽधो हासमुपगच्छति तद् हीयमानकमवधिज्ञानमिति ४ । उक्तं च नन्दिचूर्णी हीयमाणं पुधावत्थाओ अहोऽहो हस्समाणं (पत्र १४) इति । तथा प्रतिपततीत्येवंशीलं प्रतिपाति ५ । यदाह--- से किं तं पडिवाई ? पडिवाई जम्नं जहन्नेणं अंगुलस्स असंखिज्जभागं वा संखिजभागं वा वालग्गं वा वालग्गपुहत्तं वा एवं लिक्खं वा जूयं वा जवं वा जवपुहत्तं वा अंगुलं वा अंगुलपुहत्तं वा, एवं एएणं अहिलावेणं विहत्थि वा हत्यं वा कुच्छि वा कुभिहस्तद्वयमुच्यते धणुं वा ग्राउयं वा जोयणं वा जोयणसयं वा जोयणसहस्स वा संखिज्जाणि वा असंखिज्जाणि वा जोयणसहस्साई, उक्कोसेणं लोगं पासित्ताणं परिवडिजा, से तं पडिवाई । (नन्दी पत्र ९६-२) अथ किं वदनानुगामिकमवधिज्ञानम् ? अनानुगामिकमवधिज्ञानं स यथानामकः कश्चित्पुरुष एकं महज्योविःस्थानं कृत्वा तस्यैव ज्योतिःस्थानस्य परिपर्यन्तेषु परिपर्यन्तेषु परिहिण्डमानः परहिण्डमानः परिघोलयमानः परिघोलयमानः तदेव ज्योतिःस्थानं पश्यति अन्यत्र गतो न पश्यति, एवमेव अनानुगामिकमवधिज्ञानं यत्रैव समुत्पद्यते तत्रैव सत्येयानि वाऽसोयानि वा योजनानि पश्यति नान्यत्र ॥२ °वामेव ख०३ अनुगामि खनुगच्छति गच्छन्तं लोचनं यथा पुरुषम् । इतरतु नानुगच्छति स्थितप्रदीप इव गच्छन्तम् ॥ ४ गामि. ओऽणुग०॥ ५ हीयमानं पूर्वावस्थातोऽधोऽधो इस्यमानं ॥ अथ किं तत् प्रतिपाति प्रतिपाति यद जघन्येनाकुलस्यासययभागं वा सझयेयभागं वा बाला या वालाप्रपृथक्त्वं वा एवं लिक्षां वा यूको वा य वा यवपृथक्त्वं वा अङ्गुलं वा मालपृषकलं वा, एवमेतेनाभिलापेन वितरित वा हस्तं वा कुक्षि या धनुर्क क्रोशं वा योजनं षा योजनशतं वा योजनसहलं वा सहयेयानि वा असोयानि वा योजनसहस्राणि, उरकर्षण लोकं दृष्य प्रतिपतेत्, एतत प्रतिपाति॥
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy