________________
८]
affarnatar aan: कर्मग्रन्थः ।
२१
तथा न प्रतिपाति अप्रतिपाति, यत् किलाऽलोकस्य प्रदेशमेकमपि पश्यति तद् अप्रतिपातीति भावः ६ । हीयमानकप्रतिपातिनोः कः प्रतिविशेषः ? इति चेद् उच्यते-- हीयमानकं पूर्वावस्थातोऽघोऽघो ह्रासमुपगच्छदभिधीयते, यत् पुनः प्रदीप इव निर्मूलमेककालमपगच्छति तत् प्रतिपातीति । यद्वा ऽनन्तद्रव्यभावविषयत्वात् ततारतम्य विवक्षयाऽनन्त मेदम्, असयक्षेत्रकालविषयत्वात्तु तत्तारतम्यविवक्षयाऽसत्येय मेदमवधिज्ञानम् । यद्वा चतुर्विधमवविज्ञानं द्रव्यक्षेत्र कालभावात् । तथा चाह
'तं समासओ चउविहं पनचं, तं जहा-दबओ खेतओ कालओ भावओ । दखओ णं ओहिनाणी जहणं अताई रूविदबाई जाणइ पासह, उक्कोसेणं सबरूविदबाई जाणइ पासइ । खितओ णं ओहिनाणी जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं असंखेज्जाइं अलोएं लोयप्पमाणमिसाई खंडाई जाणइ पासइ । कालओ णं ओहिनाणी जहनेणं आवलियाए असंखिज्जइभागं, उक्कोसेणं असंखिज्जाओ उस्सप्पिणी ओसप्पिणीओ तीयं च अणागयं च काल जाणइ पासइ । भावओ णं ओहिनाणी जहन्त्रेण वि अणंते भावे जाणइ पासइ, उक्कोसेण वि अणते भावे जाणइ पासद सबभावाणं अनंतभागं । ( नन्दी पत्र ९७ - १ ) इति ।
उक्तमवधिज्ञानम् । इदानीं मनः पर्यवज्ञानं व्याख्यानयन्नाह - " रिउमइ विउलमई मणनाणं”ति । ‘मनोज्ञानं’ मनःपर्यायज्ञानमित्यर्थः, ऋजुमतिविपुलमति मेदाद्विविषम् । तत्र ऋवीसामान्यग्राहिणी मतिः ऋजुमतिः, घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धना मनोद्रव्यपरिच्छित्तिरित्यर्थः । यदाह
रिउ सामन्नं तम्मत्तगाहिणी रिउमई मणोनाणं ।
पायं विसेसविमुहं, घडमित्तं चिंतियं मुणइ || ( विशे० गा० ७८४ ) तथा विपुला - विशेषप्राहिणी मतिर्विपुलमतिः, घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोsurat महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति भावार्थ:, अस्यां व्युत्पत्तौ स्वतनं ज्ञानमेव गृह्यत इति । अथवा ऋज्वी- सामान्यग्राहिणी मतिरस्यासौ ऋजुमतिः । विपुलाविशेषप्राहिणी मतिरस्य स विपुलमतिः, अस्यां व्युत्पत्तौ तद्वान् गृह्यते । यद्वा मनः पर्यायज्ञानं चतुर्विधम् —- द्रव्य क्षेत्रकालभाव मेदात् । उक्तं च-
तं समासओ चउबिहं पनतं तं जहा — दवओ खित्तओ कालओ भावओ । दखओ णं
१ तत् समासतश्चतुर्विधं प्रशप्तम्, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतः । द्रव्यतोऽवधिज्ञानी जघन्येनानन्तानि रूपिद्रव्याणि जानाति पश्यति, उत्कर्षेण सर्वरूपिद्रव्याणि जानाति पश्यति । क्षेत्रतोऽवधिज्ञानी जघन्येनालयास भागम् उत्कर्षेणासवेयानि अलोके लोकप्रमाणमात्राणि खण्डानि जानाति पश्यति । कालतोऽafeज्ञानी जघन्येनाssवलिकाया असधेयभागम्, उत्कर्षेणाऽसङ्ख्या उत्सर्पिण्यवसर्पिणीः अतीतं चानागतं व काल आनाति पश्यति । भावतोऽवधिज्ञानी जघन्येनाप्यनन्तान् भावान् जानाति पश्यति, उत्कर्षेणापि अनन्तान भावान् जानाति पश्यति सर्वभावानामनन्तभागम् ॥ २ ऋजु सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानम् । प्राय विशेषविमुखं षटमात्रं चिन्तितं जानावि ॥ ३ तत् समासतश्चतुर्विधं प्रशप्तम्, तद्यथा - द्रव्यतः क्षेत्रतः कालतो. भावतः । द्रव्यत ऋजुमतिरनन्ताननन्तप्रदेशिकान स्कन्धान् जानाति पश्यति । तानेव विपुलमतिरभ्य विकतरान् बिमलतरान् जानाति पश्यति ॥