________________
• देवेन्द्रसूरिविरचितखोपटीकोपेतः
[ गाथा
अश्रुतनिचितबुद्धिचतुष्टयेन सह चत्वारिंशदधिकानि त्रीणि शतानि मतिज्ञानस्य मेदानां भवन्ति । यद्वा मतिज्ञानं चतुर्विषं द्रव्यक्षेत्रकालभावभेदात् । यदाहुर्निर्दलिताज्ञानसम्भारमसराः श्रीदेवेर्द्धिवाचकवरा:
१४
तं समासओ चउहिं पन्नत्तं तं जहा दव्वओ खेत्तओ कालओ भावओ । दखओ णं आभिणिबोहियनाणी आएसेणं सबदबाई जाणइ न पासइ । खित्तओ णं आभिणिबोहियनाणी एसेणं सब खितं जाणइ न पासइ । कालओ णं आभिणिबोहियनाणी आएसेणं सबकाळं जाणइ न पासइ । भावओ णं आभिणिबोहियनाणी आएसेणं सबभावे जाणइ न पासइ । ( नन्दी पत्र १८३ - २ ) इति ।
व्याख्यातं सप्रपञ्चं मतिज्ञानम् । साम्प्रतं श्रुतज्ञानं व्याचिख्यासुराह - " चउदसहा वीसहा व सुयं "ति 'श्रुतं' श्रुतज्ञानं 'चतुर्दशधा' चतुर्दशभेदं 'विंशतिषा' विंशतिप्रकारं वा भवतीति ॥ ५ ॥ तत्र प्रथमं श्रुतस्य चतुर्दश भेदान् व्याख्यानयन्नाह -
अक्खर सन्नी सम्मं, साईअं खलु सपज्जबसियं च । गमियं अंगपविद्वं, सत्त वि एए सपडिवक्खा ॥ ६ ॥
इह श्रुतशब्दः पूर्वगाथातः सम्बध्यते । ततोऽक्षरश्रुतं १ संज्ञिश्रुतं २ सम्यक्श्रुतं ३ सादिश्रुतं ४ सपर्यवसितश्रुतं ५ गमिकश्रुतम् ६ अङ्गप्रविष्टश्रुतम् ७ इत्येते सप्त भेदाः सपतिपक्षाः श्रुतस्य चतुर्दश भेदा भवन्ति । तथाहि अक्षरश्रुतप्रतिपक्षम् अनक्षरश्रुतम् १ एवमसंशिश्रुतं २ मिथ्याश्रुतम् ३ अनादिश्रुतम् ४ अपर्यवसितश्रुतम् ५ अगमिकश्रुतम् ६ अङ्गबाश्रुतम् ७ इति । तत्राक्षरं त्रिधा - संज्ञाव्यञ्जनलब्धि भेदात् । उक्तं च
* तं सन्नावंजणलद्धिसन्नियं तिविमक्खरं भणियं ।
सुबहुलिविभेयनिययं, सन्नक्खरमक्खरागारो || ( विशे० गा० ४६४ ) सुबह्यो या एता अष्टादश लिपयः श्रूयन्ते, तथाहि-
हंसैलिवी १ भूयलिवी २, जक्खी ३ तह रक्खसी ४ य बोधवा । उड्डी ५ जवणि ६ रुकी कीरी ८ दविडी ९य सिंधविया १० ॥ मालवणी ११ नडि १२ नागरि १३, लाडलिवी १४ पारसी १५ य बोधवा । तह अनिमित्तय १६ लिवी, चाणक्की १७ मूलदेवी य १८ ॥
ܕܦ
१ 'ववाचक° क० ङ० ॥ २ तत् समासतश्चतुर्विषं प्रशप्तम्, तद्यथा-व्यतः क्षेत्रतः कालतो भावतः । द्रव्यतः णमिति वाक्यालङ्कारे ( एवं सर्वत्र ) आभिनिबोधिकज्ञानी आदेशेन सर्वद्रव्याणि जानाति न पश्यति । क्षेत्रतः आमिनिबोधिकज्ञानी आदेशेन सवं क्षेत्रं जानाति न पश्यति । कालतः आभिनिबोधिकशानी आदेशेन
कालं जानाति न पश्यति । भावतः आमिनिबधिकशानी आदेशेन सर्वान् भावान् जानाति न पश्यति ॥ ३ ° कारं भव' क० ख० ग० ॥ ४ तत् संज्ञाव्यञ्जनलब्धिसंहिकं त्रिविधमक्षरं भणितम् । सुबहुलिपिमेदनियतं संज्ञाक्षरमक्षराकारः ॥ ५ इंसलिपिर्भूतलिपिर्यक्षी तथा राक्षसी च बोद्धव्या । ओड्री यवनी तुरुष्की कीरी द्राविडी च सिन्धविका ॥ ६ पुरुकी क० ख० ग० कु० ॥ ७ माळविनी नटी नागरी लाटलिपिः पारसी व बोद्धव्या । तथाऽनिमित्तिका लिपिचाणक्या मूलदेवी च ॥