________________
कर्मविपकनामा प्रथमः कर्मवन्तः । भारणा । साऽपि करणमानसैः षोदैव । अर्थावग्रहादीनां च काप्रमाणमिद
उग्गह एक समय, ईहाऽवाया मुहुत्तमद्धं तु ।
कालमसंखं संख, च धारणा होइ नायवा ॥ (मा० नि० गा०१) इति । पूर्वोक्तप्रकारेणावग्रहादीनां चतुर्णा प्रत्येकं षडिषत्वात् व्यजनावग्रह मेदचतुष्टयेन सह श्रुतनिश्रितं मतिज्ञानमष्टाविंशतिभेदं भवति । अश्रुतनिश्रितेन त्वौत्पत्तिक्यादिबुद्धिचतुटयेन सह द्वात्रिंशद्भेदं भवति । जातिस्मरणमपि समतिकान्तसमपातभवावगमखरूपं मतिज्ञा. नभेद एव । तथा चाचाराङ्गटीका
जातिस्मरणं त्वामिनिबोषिकविशेषः ।। (पत्र २०-१) अथवा "बहु१बहुविध२ क्षिप्रा३ऽनिश्रिता४ऽसन्दिग्ध५ध्रुवाणां ६ सेतराणाम्" (तत्त्वा० अ० १ सू० १६) इति वचनादष्टाविंशतिरपि द्वादशधा भिद्यते । तथाहि-बहूनामपि श्रोतृणामविशेषेण प्राप्तिविषयस्थेऽपि शङ्खमेर्यादितूर्यसमुदाये क्षयोपशमवैचित्र्यात् कश्चिदवग्रहादिभिर्बहु गृहाति, एकहेलाम्फालितानामपि शङ्खमेर्यादितूर्याणां पृथक् पृथक् शब्दं गृह्णातीत्यर्थः १ । अपरस्त्वबहु गृह्णाति, अव्यक्ततूर्यध्वनिमेवोपलभत इत्यर्थः २। अन्यस्तु योषिदादिवाघमानतामधुरमन्द्रत्वादिबहुपर्यायोपेतान् शङ्खादिध्वनीनं पृथक् पृथग् जानातीति बहुविधग्राहीत्युच्यते ३ । एकद्विपर्यायोपेतांस्तु तानेव जानानोऽबहुविधग्राही ४ । अन्यस्तु क्षिप्रमचिरेणार्थ जानाति ५। अन्यस्तु विमृश्य चिरेणेति ६ । अन्यस्त्वनिश्रितमलिङ्गं गृह्णाति न पुनः पताकयेव देवकुलम् ७ । अपरस्तु पताकया देवकुलमिव लिङ्गनिश्रया गृह्णाति ८ । यद् असंशयं गृह्णाति तद् असन्दिग्धम् ९ । संशयोपेतं तु यद् गृह्णाति तत् सन्दिग्धम् १० । यद् एकदा गृहीतं तत् सर्वदैवावश्यं गृह्णाति न पुनः कालान्तरे तहणे परोपदेशादिकमपेक्षते तद् ध्रुवम् ११ । यत् पुनः कदाचिदेव गृह्णाति न सर्वदा तद् अध्रुवम् १२ । एवमेतैर्द्वादशभिर्भेदैरवग्रहादयः पूर्वोक्त मेदयुक्ता वस्तु गृहन्तीत्वष्टाविंशत्या द्वादशभिर्गुणितया त्रीणि शतानि षट्त्रिंशदधिकानि भवन्ति । यदाह भाष्यपीयूषपयोधिः
"ज बहुबहुविहखिप्पानिस्सियनिच्छियधुवेयरविभता । पुणरुग्गहादओ तो, तं छत्तीसं तिसयमेयं ॥ नाणासद्दसमूह, बहुं पिहं मुणइ भिन्नजाईयं । बहुविहमणेगमेयं, इक्विकं निद्धमहुराई ॥ बिप्पमचिरेण तं चिय, सरूवओ तं अणिस्सियमलिंगं ।
निच्छियमसंसयं जं, धुवमच्चंतं न य कयाई ॥ (विशे० गा० ३०७-९) १ अवह एकं समयमीहाऽपायौ मुहूर्तमध्यं (मिसमुहूर्त) तु । कालमसङ्ख्यातं सायातं च धारमा मपति ज्ञातव्या ॥२°न् पृथग् जाक० ख० ग०॥ ३°श्य विमृश्य चि° ख० घ० अ०॥ ४ यद् बहुबहुविवक्षिप्रानिधितनिश्चितध्रुवेतरविभक्ताः । पुनरवहादयोऽतस्तत् षदात्रिंशत्रिशतमेदम् ॥ ५ नानाशब्दसमूहं पहुं पृथग जानाति भिन्नजातिकम् । बहुविधमनेकमेदमेकैकं निग्धमधुरादिं ॥ ६ नाणं सहक ब.ग.प. ३०॥ क्षिप्रमचिरेण तथैव खरूपतः तदनिश्रितमलिगम् । निश्चितमसंशयं यद् ध्रुवमत्यन्तं न कदाचित् ॥