________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । 'से किं तं महनाणं ! महनाणं दुविहं पन्नतं, तं जहा–सुयनिस्सियं च अस्सुयनिस्सियं च । से किं तं अस्सुयनिस्सियं ? अस्सुयनिस्सियं चउविहं पन्नतं, तं जहा
उम्पत्तिया वेणइया, कम्मिया परिणामिया ।
बुद्धी चउबिहा वुत्ता, पंचमा नोवलन्भई ।। (नन्दी पत्र ११४-१) तत्रौत्पत्तिकी बुद्धिर्यथा रोहकस्य । वैनयिकी बुद्धिः पददर्शनात्करिण्यादिज्ञायकच्छात्रस्येव । कर्मजा कर्षकस्येव । पारिणामिकी श्रीवजखामिन इव । यत्तु पूर्व श्रुतपरिकर्मितमतेर्व्यवहारकाले पुनरश्रुतानुसारितया समुत्पद्यते तत् श्रुतनिश्रितम् । यदुक्तं श्रीविशेषावश्यके
पुँवं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं ।
तं निस्सियमियरं पुण अणिस्सियं मइचउकं तं ॥ (विशे० गा० १६९) तचतुर्धा भवति, तद्यथा--अवग्रह ईहा अपायः धारणा । यदाह___ से किं तं सुयनिस्सियं मइनाणं ? सुयनिस्सियं मइनाणं चउन्विहं पन्नतं, तं जहा-- उग्गहो ईहा अवाए धारणा ।। ( नन्दी पत्र १६८-१)
पुनरवग्रहो द्वेषा-व्यञ्जनावग्रहः अर्थावग्रहश्च । आह च___ "से किं तं उग्गहे ? उग्गहे दुविहे पनते, तं जहा-बंजणुग्गहे अत्थुग्गहे य ।। (नन्दी पत्र १६८-२) तत्र व्यज्यते-प्रकटीक्रियतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम् । आह च--
जिजइ जेणत्यो घड्ड व दीवेण वंजणं तं च । (विशे० गा० १९४) तचोपकरणेन्द्रियं कदम्बपुष्पातिमुक्तकपुष्पक्षुरप्रनानाकृतिसंस्थितश्रोत्रघ्राणरसनस्पर्शनलक्षणं शब्दगन्धरसस्पर्शपरिणतद्रव्यसङ्घातो वा । ततश्च व्यञ्जनेनोपकरणेन्द्रियेण व्यञ्जनानां शब्दादिपरिणतद्रव्याणामवग्रहणं परिच्छेदनमेकस्य व्यञ्जनशब्दस्य लोपाद्यञ्जनावग्रहः, किमपीदमित्यव्यक्तज्ञानरूपार्थावग्रहादघोऽव्यक्ततरं ज्ञानमित्यर्थः । अयं चतुर्धा । यदाह सूत्रकृत्"वंजणवग्गहु चउह" ति स्पष्टम् । चातुर्विध्यमेव भावयति--"मणनयणविणिंदियचउक"ति मनग्ध मानसं नयनं च लोचनं मनोनयने, मनोनयने विना मनोनयनविना, नाम नान्नैकायें समासो बहुलम्" (सि० ३-१-१८) इति समासः । इन्द्रियाणां चतुष्कमिन्द्रियचतुष्कं तस्माद् इन्द्रियचतुष्कात् , अत्र "गम्ययपः कर्माधारे" (सि० २-२-७४ ) इति पञ्चमी । मनोनयनवर्जमिन्द्रियचतुष्कमाश्रित्य व्यञ्जनावग्रहश्चतुर्षा भवतीति भावार्थः ।
१ अथ किं तद् मतिज्ञानम् !, मतिज्ञानं द्विविधं प्रज्ञप्तम् , तयथा-श्रुतनिधितं चाश्रुतनिधितं च । अप कि तदधुतनिश्रितम् ? अश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तम् , तद्यथा-औत्पत्तिकी वैनयिकी, कर्मजा पारिणामिकी। बुद्धिचतुर्विधा प्रोक्का, पश्चमी नोपलभ्यते ॥ २ °पारि ख० ग० ॥ ३ पूर्व श्रुतपरिकर्मितमतेर्यत् साम्प्रतं श्रुतावीतं । तद् निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ॥ ४ अथ किं तत् श्रुतनिश्रितं मतिज्ञानम् ? श्रुतनित्रितं मतिज्ञानं चतुर्विध प्रशप्तम् , तद्यथा-अवग्रह ईहा अपायः धारणा ॥ ५ अथ कोऽसाववप्रहः ? अवप्रहो द्विविधः प्राप्तः, तद्यथा-व्यञ्जनावग्रहोऽर्यावग्रहश्च ॥ ६ मते वंजक० ग०॥ ७ व्यज्यते येनार्थ: घट इस दीपेन न्यजनं तच ॥ ८ कचन्द्रक्षु क°कपुष्पचन्द्रा घ०॥