________________
देवेन्द्रसरिविरचितखोपझटीकोपतः
[गामा भुतज्ञानम् , खपरप्रत्यायकत्वात् । तथा चामूनेव हेतून संगृहीतवान् माप्यसुधाम्भोनिधिः
लक्खणमेया हेउफलभावओ मेयइंदियविभागा।
वागक्खरम्येयरमेया मेओ मइसुयाणं ।। (विशे० गा० ९७) तथा कालविपर्ययखामित्वलाभसाधर्म्यान्मतिश्रुतज्ञानानन्तरमवधिज्ञानम् , तथाहि-अपतिपतितैकसत्त्वाधारापेक्षयाऽवस्थितिकालोऽवधिज्ञानस्य षट्षष्टिसागरोपमाणि । तथा यथैव मतिश्रुतज्ञाने मिथ्यात्वोदयतो विपर्ययतामासादयतस्तथाऽवधिज्ञानमपि, तथाहि-मिथ्यादृष्टेः सतस्तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानि भवन्ति । उक्तं च__ माधत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥ (प्रशम० पद्य २२७) इति ।
तथा य एव मतिश्रुतयोः खामी स एवावधिज्ञानस्यापि । तथा विभज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसंभवस्ततो लाभसाधर्म्यम् । अवधिज्ञानानन्तरं च छद्मस्थविषयभावप्रत्यक्षत्वसाधान्मनःपर्यायज्ञानमुक्तम् , तथाहियथाऽवधिज्ञानं छद्मस्थस्य भवति तथा मनःपर्यायज्ञानमपि इति छद्मस्थसाधर्म्यम् । तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयं तथा मनःपर्यायज्ञानमपि, तस्य मनःपुद्गलाऽऽलम्बनत्वाद् इति विषयसाधर्म्यम् । तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे वर्तते तथा मनःपर्यायज्ञानमपि इति भावसाधर्म्यम् । तथा यथाऽवधिज्ञानं प्रत्यक्षं तथा मनःपर्यायज्ञानमपि इति प्रत्यक्षत्वसाधर्म्यम् । उक्तं च
कालविवजयसामित्तलामसाहम्मओऽवही तत्तो।
माणसमित्तो छ उमत्थविसयभावाइसाहम्मा ॥ (विशे० गा० ८७) तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानस्योपन्यासः, सर्वोत्तमत्वाद अप्रमत्तयतिखामिसाधात् सर्वावसाने लाभाच । तथाहि-सर्वाण्यपि मतिज्ञानादीनि ज्ञानानि देशतः परिच्छेदकानि, केवलज्ञानं तु सकलवस्तुस्तोमपरिच्छेदकं सर्वोत्तमम् , सर्वोत्तमत्वाच्चान्ते सर्वशिरःशेखरकल्पमुपन्यस्तम् । तथा यथा मनःपर्यवज्ञानमप्रमत्तयतेरेवोत्पद्यते तथा केवलज्ञानमपि इत्यप्रमत्तयतिखामिसाधर्म्यम् । तथा यः सर्वाण्यपि ज्ञानानि समासादयितुं योग्यः स नियमात् सर्वज्ञानावसाने केवलज्ञानमवामोति, ततः सर्वान्ते केवलमुक्तम् । उक्तं च
'अंते केवलमुत्तमजइसामित्तायसाणलाभाओ॥ (धर्मसं० गा० ८५) इति ॥ व्याख्यातानि नामसंस्कारमात्रेण पञ्चापि ज्ञानानि । अथामून्येव सविस्तरं व्याचिख्यासुः प्रथमं मतिज्ञानं प्रकटयन्नाह ---"तत्थ महनाणं" इत्यादि । 'तत्र' तेषु पञ्चसु ज्ञानेषु मतिज्ञानमष्टाविंशतिभेदं भवतीत्युत्तरगाथायां सम्बन्धः । इह किल द्वेधा मतिज्ञानम्-श्रुतनिश्रितमभुतनिश्रितं च । तत्र च यत् प्रायः श्रुताभ्यासमन्तरेणापि सहजविशिष्टक्षयोपशमवशादुत्पद्यते तद् अश्रुतनिश्रितमौत्पत्तिक्यादिबुद्धिचतुष्टयम् , यदाह श्रीदेवर्द्धिवाचक:
१ लक्षणमेदाद् हेतुफलभावतो भेदेन्द्रियविभागात् । वल्काक्षरमूकेतरमेदाझेदो मतिश्रुतयोः ॥ २°लो मतिश्रुतयोरिवावधि ग० रु०॥ ३ कालविपर्ययखामित्वलामसाधर्म्यतोऽवधिः ततः । मानसं (मनःपर्याय) इतः छपस्थविषयभावादिसाधर्म्यात् ॥ ४ 'कल्पे उप का घ0 रु०॥ ५ अन्ते केवलमुत्तमयतिखा. मित्वानसानसाभात्॥