________________
कर्मविपाकनामा प्रथमः कर्ममन्या। र्यम् । तमा यथा मतिज्ञानमादेशतः सर्वव्यादिविषयमेवं श्रुतज्ञानमपि इति विषयसाधर्म्यम् । यथा च मतिज्ञानं परोक्षं तथा भुतज्ञानमपि इति परोक्षत्वसाधर्म्यम् । तत इत्थं खाम्यादिसाधादेते मतिश्रुते नियमादेकत्र वक्तव्ये, ते चावध्यादिज्ञानेभ्यः प्रागेव, तद्भाव एवाऽवध्यादिसनावात् । उक्तं च
जै सामिकालकारणविसयपरोक्खत्तणेहि तुल्लाई ।
तम्भावे सेसाणि य, तेणाऽऽईए मइसुयाइं ॥ (विशे० गा०८५) ननु भवतामेका मतिश्रुते, प्रागेव चावध्यादिभ्यः, परमेतयोरेव मतिश्रुतयोर्मध्ये पूर्व मतिः पश्चात् श्रुतमित्येव तत् कथम् ? उच्यते-मतिपूर्वत्वात् श्रुतज्ञानस्स, तथाहि-सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चात् श्रुतम् । यदाह निविडबडिमसम्भारतिर- .. स्कारतरणिः श्रीजिनभद्रगणिक्षमाश्रमणः
मैइपुवं सुयमुत्तं, न मई सुयपुखिया विसेसोऽयं ।
पुवं पालणपूरणभावाओ जं मई तस्स ॥ (विशे० गा० १०५) नन्धध्ययनचूर्णावप्युक्तम्तेसै वि य मइपुवयं सुयं ति किचा पुर्व मइनाणं कयं, तपिट्ठओ सुयं ति ॥ (पत्र ११)
आह-यदि खामित्वादिमिरनयोरमेदस्तहि द्वयोरप्येकत्वमस्तु, मेदहेत्वभावाद् अभेदहेतूना चाभिहितत्वात् , तदयुक्तम् , भेदहेत्वभावस्यासिद्धत्वात् । तथाहि-खाम्यादिभिरभेदे सत्यपि लक्षणभेदादनयोर्भेदः, तथाहि-मन्यते योग्योऽर्थोऽनयेति मतिः, श्रवणं श्रुतमित्यादि । तथा हेतुफलमावाद् मेदः, तथाहि-मतिज्ञानं श्रुतस्य कारणम् , श्रुतं तु कार्यम् । यञ्च यदुत्कर्षापकर्षवशादुत्कर्षापकर्षभाक् तत् तस्य कारणम् , यथा घटस्य मृत्पिण्डः, तमाहि-श्रुतेष्वपि बहुषु ग्रन्थेषु यद्विषयं स्मरणमीहाऽपोहादि वाऽधिकतरं प्रवर्तते स अन्यः स्फुटतरः प्रतिभाति न शेषः । तथा मेद मेवाद् मेदः, तथाहि-मतिज्ञानमष्टाविंशत्यादिभेदम् , श्रुतज्ञानं तु चतुर्दशादिमेवम् । तथा इन्द्रियविभागाद् भेदः, तस्मतिपादिका चेयं पूर्वान्तर्गता गावा
सोइंदिओवलद्धी, होइ सुयं सेसयं तु महनाणं ।
मुत्तूणं दबसुयं, अक्खरलंभो य सेसेसु ॥ (विशे० गा० ११७) तथा वैल्कसमं मतिज्ञानं कारणत्वात् , शुम्बसमं श्रुतज्ञानं तत्कार्यस्वादिस्यप्यनयोर्मेदनिबन्धनम् । तथा इतश्च मेद:- मतिज्ञानमनक्षरं साक्षरं च, तथाहि-अवग्रहज्ञानमनक्षरम् , तस्यानिदेश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पत्वात् ; ईहादिज्ञानं तु साक्षरम् , तस्य परामर्शदिरूपतयाऽवश्यं वर्णाऽऽहषितत्वात् ; भुतज्ञानं पुनः साक्षरमेव, अक्षरमन्तरेण शब्दार्थपर्यालोचनमानुपपत्तेः। तथा इतश्च मेद:-मूककल्सं मतिज्ञानम् , खमात्रमत्यायकत्वात अमूककल्यं
१ यत् खामिकालकारणविषयपरोक्षत्वैस्तुल्ये । तद्भावे शेषाणि च तेनाऽऽदौ मतिश्रुते ॥ २ मतिपूर्व श्रुतमुकं न मतिः श्रुतपूर्षिका विशेषोऽयम् । पूर्व पालनपूरणमानास् यन्मतिस्तस (श्रुतस्य ) ॥ ३ तयोरपि च मतिपूर्वकं श्रुतमिति कृत्वा पूर्व मतिज्ञानं कृतं तत्पृछतः श्रुतमिति ॥ ४ श्रोग्रेन्द्रियोपलब्धिः भवति श्रुतं शेषकं तु मतिज्ञानम् । मुक्त्वा द्रव्यश्रुतमक्षरलाभश्व शेषेषु ॥ ५ खासदशम् ॥ ६ रज्जुसदशम् ॥ मिश्रितलाव ॥