________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा बरणविलये न तथाविधो भतिज्ञानादिसंज्ञितः केवलज्ञानस्य प्रकाशो भवति, किन्तु सर्वात्मना यमावस्थितं वस्तु परिच्छिन्दन् परिस्फुटरूपोऽन्य एवेत्यदोषः । उक्तं च श्रीपूज्यैः ----
कटविवरागयकिरणा, मेहंतरियस्स जह दिणेसस्स ।
ते कडमेहावगमे, न हुंति जह तह इमाई पि ॥ अन्यैरपि न्यगादि--
मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ।। यथा जात्यस्य रत्नस्य, निःशेषमलहानितः ।
स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ॥ अन्ये पुनराहुः--सन्त्येव मतिज्ञानादीन्यपि सयोगिकेवल्यादौ, केवलमफलत्वात् सन्त्यपि वदानी न विवक्ष्यन्ते, यथा सूर्योदये नक्षत्रादीनि । उक्तं च- .
अन्ने आमिणिबोहियणाणाईणि वि जिणस्स विजंति ।
अफलाणि य सूरुदए, जहेव नक्खत्तमाईणि ॥ शुद्धं वा केवलम् , तदावरणमलकलङ्कपकापगमात् । सकलं वा केवलम् , तत्पथमतयैव निःशेषतदावरण विगमतः संपूर्णोत्पत्तेः । असाधारणं वा केवलम् , अनन्यसहशत्वात् । अनन्तं वा केवलम् , ज्ञेयानन्तत्वात् अपर्यवसितानन्तकालावस्थायित्वाद्वा । निर्व्याघातं वा केवलम् , लोकेऽलोके वा क्वापि व्याघाताभावात् । केवलं च तद् ज्ञानं च केवलज्ञानं यथावस्थितसमस्तभूतभवद्भाविभावखभावावभासि ज्ञानमिति भावना।
आह-नन्वेतेषां पञ्चानां ज्ञानानामित्थं क्रमोपन्यासे किं कारणम् ? उच्यते---इह मतिश्रुते तावदेकत्र वक्तव्ये, परस्परमनयोः खामिकालकारणविषयपरोक्षत्वसाधर्म्यात् । तथाहिय एव मतिज्ञानस्य खामी स एव श्रुतज्ञानस्य य एव श्रुतज्ञानस्य खामी स एव मतिज्ञानस्यापि "जैत्य मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ भइनाणं" (नन्दी पत्र १४०-१) इत्यादिवचनप्रामाण्यात् , ततः खामिसाधर्म्यम् । तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि, तत्र प्रवाहापेक्षयाऽतीतानागतवर्तमानरूपः सर्वकालः, अप्रतिपतितैकजीवापेक्षया षट्षष्टिसागरोपमाणि समधिकानि, उक्तं च------
दो बारे विजयाइसु, गयम्स तिन्नऽञ्चुए अहव ताई।
अइरेगं नरमवियं, नाणाजीवाण सम्बद्धा ॥ (विशे० गा० २७६२) इति कालसाधर्म्यम् । यथा चेन्द्रियनिमित्तं मतिज्ञानं तथा श्रुतज्ञानमपीति कारणसाध१ कटविवरागतकिरणाः, मेघान्तरितस्य यथा दिनेशस्य । ते कटमेघापगमे, न भवन्ति यथा तथेमान्यपि ॥ २ अन्ये आमिनिबोधिकज्ञानादीन्यपि जिनस्य विद्यन्ते। अफलानि च सूर्योदये यथैव नक्षत्रादीनि ॥ ३ यत्र मतिज्ञानं तत्र श्रुतज्ञानं यत्र श्रुतज्ञानं तत्र मतिज्ञानम् ॥ ४ द्वौ वारी विजयादिषु, गतस्य त्रीन् ( बारान् ) अच्युतेऽथवा तानि ( सागराणि ६६)। अतिरेक नरभविकं नानाजीवानां सर्वाता ।