________________
७२-७३ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
पेरिही तिलक्ख सोलस, सहस्स दो य सय सत्तावीसहिया । कोसतिय अट्टवीसं, धणुसय तेरंगुलद्धहियं ॥ ( बृह० क्षे० गा० ६ )
२०१
इतिगाथाभिहितप्रमाणोपेताः । उक्तं च श्रीमदनुयोगद्वारसूत्रे
जहन्नयं संखिज्जयं कित्तिलिय होइ ? दो रुवाई | तेण परं अजहन्नमणुकोसयाइं ठाणाई जाव उक्कोसयसंखिज्जयं न पावइ । उक्कोसयं संखिज्जयं कित्तियं होइ ? उक्कोसयस्स संखिज्जयस्स परूवणं करिम्सामि – से जहानामए पल्ले सिया एगं जोयणसयसहम्सं आयामविक्खंभेणं तिन्नि जोयस सहम्साई सोलस सहम्साइं दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं चणुस तेरस अंगुलाई अर्द्धगुलं च किंचि विसेसाहियं परिक्खेवेणं || ( पत्र २३५ - १ ) ततो जम्बूद्वीपप्रमाणचतुः पल्यप्ररूपणयेदमुत्कृष्टं सङ्ख्यातकं प्ररूपयिप्यत इति भावः ॥ ७२ ॥ अथैते चत्वारोऽपि पल्याः किंनामान: : इत्येतदाह-
पल्लाsणवट्टियसलागपडिसलागमहासलागक्खा ।
जोयणसह सोगाढा, सवेइयंता ससिह भरिया ॥ ७३ ॥
धान्यपल्य इव पल्याः कल्प्यन्ते, ते च जम्बूद्वीपप्रमाणाः । किंनामान: : इत्याह-- " अणवद्विय" इत्यादि । यथोत्तरं वर्धमानस्वभावतयाऽवस्थितरूपाभावाद् अनवस्थित एवोच्यते । तथेह शलाका:- एकैकसर्पपप्रक्षेपलक्षणास्ताभिः शलाकाभिर्भियमाणत्वात् पल्योऽपि शलाका । तथा प्रतिशलाकाभिर्निष्पन्नत्वात् प्रतिशलाका । महाशलाकाभिर्निवृत्तत्वात् महाशलाका । तत एषां द्वन्द्वेऽनवस्थितशलाकाप्रतिशलाकामहाशलाकास्ता इत्थम्भूता आख्या :- संज्ञा येषां तेऽनवस्थितशलाका प्रतिशलाकामहाशलाकाख्याः । त एव विशिष्यन्ते - योजनसहस्रं तु अवगाढा: । इदमुक्तं भवति - रत्नप्रभायाः पृथिव्याः प्रथमं योजनसहस्रप्रमाणं रत्नकाण्डं भित्त्वा द्वितीये वज्रकाण्डे प्रतिष्ठिता इति । पुनस्त एव विशिष्यन्ते - "सवेइयंत" त्ति वज्रमय्या अष्टयोजनोचच्छ्रायायाश्चत्वार्यष्टौ द्वादश योजनान्युपरिमध्याधोविस्तृताया जम्बूद्वीपनगरप्राकारकल्पाया जगत्या द्विगव्यूतोच्छ्रितेन पञ्चधनुः शतविस्तृतेन नानारलमयेन जालकटकेन परिक्षिप्ता या उपरि वेदिकेति पद्मवrवेदिकेत्यर्थः, द्विगव्यूतोच्छ्रिता पञ्चधनुः शतविस्तीर्णा गवाक्ष हेमकिङ्किणीजालघण्टायुक्ता देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतो वनखण्डवती तस्या अन्तः- प :- पर्यवसानमप्रभाग इति यावद् वेदिकान्तः, ततश्च सह वेदिकान्तेन वर्तन्त इति सवेदिकान्ताः । ते च कथं सर्पपैर्भृताः : इत्याह-- "ससिहभरिय" ति सह शिखया - उच्छ्रयलक्षणया वर्तन्त इति सशिखाः, ततः सशिखं यथा भवति तथा सर्षपैर्भृताः - पूरिताः सशिखभृताः कर्तव्या इति शेषः । अयमत्रा
1
१ परिधित्रयो लक्षाः षोडश सहस्राणि द्वे च शते सप्तविंशत्यधिके । क्रोशत्रिकं अष्टाविंशं धनुः शतं त्रयोदशाङ्गुलान्यर्द्धाधिकानि ॥ २ जघन्यं सङ्ख्यातकं कियद् भवति ? द्वे रूपे । ततः परमजघन्योत्कृष्टानि स्थानानि यावद् उत्कृष्टसङ्ख्यातकं न प्राप्नोति । उत्कृष्टं सख्यातकं कियद् भवति ? उत्कृष्टस्य सङ्ख्यातकस्य प्ररूपणां करिष्ये - असौ यथानामकः पल्यः स्यात् एकं योजनशतसहस्रम् आयामविष्कम्भाभ्याम्, त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे च सप्तविंशे योजनशते त्रयश्च क्रोशा अष्टाविंशं च धनुःशतं त्रयोदशाङ्गुलानि अर्धाङ्गुलं च किञ्चिद् विशेषाधिकं परिक्षेपेण ॥ ३-४ केवइयं अनुयोगद्वारसूत्रे ॥
क० २६