________________
२०२ देवेन्द्रसूरिविरचितसोपजदीकोपेतः
[गाथा शयः-एतेषां व्यावर्णितखरूपाणां चतुर्णामपि पल्यानां मध्याद् यो यथावसर सर्षपैः पूर्यते तं योजनसहस्रावगाहादूर्द्ध समधिकाष्टयोजनोच्छ्रितवेदिकान्तं पूरयित्वा तदुपरि तावत् शिखा वर्धनीया यावद् एकोऽपि सर्षपो नावतिष्ठत इति । अत्र सर्वे सवेदिकान्ताः सशिखभृताश्च कर्तव्या इति सामान्योक्तावपि प्रथममनवस्थितपल्य एव भृतः करणीयः । शेषास्तु यथावसरमेवेति मन्तव्यमिति ।। ७३ ॥ अधुना तस्यानवस्थितपल्यस्य जम्बूद्वीपप्रमाणस्य सर्षपैर्भूतस्य यद् विधेयं तदाह
तो दीवुदहिसु इकिक सरिसवं खिविय निहिए पढमे ।
पढमं व तदंतं चिय, पुण भरिए तम्मि तह वीणे ॥७४॥ 'ततः' सर्षपभरणादनन्तरमसत्कल्पनया केनचिद् देवेन दानवेन वा वामकरतले धृत्वा 'द्वीपोदधिषु' द्वीपसमुद्रेपु एकैकं 'सर्षपं' सिद्धार्थे क्षिप्त्वा 'निष्ठिते' अन्तर्भूतण्यर्थत्वात् निष्ठापितेरिक्तीकृते 'प्रथम' अनवस्थितपल्ये, कोऽर्थः ? एकं मर्षयं द्वीपे प्रक्षिपति, एकमुदधौ, पुनरप्येकं द्वीपे, एकमुदधौ, एवं प्रतिद्वीपं प्रत्युदधिं चैकैकं सर्षपं प्रतिक्षिपन्नसौ देवो वा दानवो वा तावद् गतो यावदनवस्थितपल्यो निष्ठितो भवति । ततः किं विधेयम् ? इत्याह ---"पढमं व" इत्यादि। द्वीपे समुद्रे वा यत्रासावनवस्थितपल्यो निष्ठितो भवति "तदंतं चिय"त्ति स एवानवस्थितपल्यस्य निष्ठाकारी द्वीपः समुद्रो वाऽन्तः पर्यवसानं प्रमाणतया यस्य द्वितीयानवस्थितपल्यम्य स तदन्तस्तम् , द्वितीयानवस्थितपल्यप्रमाणाभिधायकं विशेषणमिदम् , ततस्तदन्तमेव चियशब्दम्यावधारणार्थत्वाद् विस्तीर्णतया तावत्प्रमाणमेवेत्यर्थः । 'प्रथममिव' आद्यपल्यमिवेत्युपमानेन द्वितीयमनवस्थितपल्यमपि सहस्रयोजनावगाढमष्टयोजनोच्छ्रितजगत्युपरिवेदिकोपशोभितं सशिख सर्पपैभृतं कुर्यादिति सूचयति । नतः प्रथमानवस्थितपल्यमिव तदन्तमेव 'पुनः' भूयः 'भृते' सर्पपै: पूरिते 'तस्मिन्' द्वितीयानवस्थितपल्ये 'तथा तेन प्रकारेण निक्षिप्तचरमसर्षपद्वीपादेरग्रत एकः सर्षपो द्वीपे, एकः समुद्रे इत्यादिना क्षीणे' निष्ठिते सति द्वितीयानवस्थितपल्ये ॥ ७४ ॥ ततः किं विधेयम् ? इत्याह ---
विप्पइ सलागपल्लेगु सरिसवो इय सलागव(ग्वि)वणेणं ।
पुन्नो बीओ य तओ, पुवं पिव तम्मि उद्धरिए ॥७२॥ 'क्षिप्यते' निधीयते शलाकापल्ये द्वितीये शलाकासंज्ञक एकसय्य एव सर्षपः, स च नानवस्थितपल्यसत्कः किन्त्वन्य एवेत्यवसीयते, "पुण भरिए तम्मि तह खीणे" (गा० ७४) इति सूत्रावयवम्य सामम्त्यरिक्तीकरणप्रतिपादनपरत्वात् । अन्ये वनवस्थितपल्यसत्क एव क्षिप्यते इत्याचक्षते, तत्त्वं तु केवलिनो विदन्तीति । आह किमिति द्वितीयपल्य एव निष्ठिते सत्येकस्य सर्षपस्य शलाकापल्ये प्रक्षेपणमभिहितं यावता प्रथमपल्येऽपि निष्ठिते तत्रैकस्य सर्षपस्य प्रक्षेपो युज्यते ? इति, तदयुक्तम् , अभिप्रायापरिज्ञानात् , यतोऽनवस्थितपल्यशलाकामिरेवासी पूरणीयः, प्रथमश्च लक्षयोजनविस्तृतत्वेनावस्थितपरिमाणतयाऽनवस्थित एव न भवतीत्यतो द्वितीयाद्यनवस्थितपल्यशलाका एव तत्र प्रक्षेपमहन्तीति । न चैतत् खमनीषिकाविजृम्भितम् , यदुक्तमनुयोगद्वारेषु