________________
२०० देवेन्द्रसूरिविरचितखोपाटीकोपेतः
[ गाथा पदानि तैर्युक्तं-समन्वितं सत् , किम् ? इत्याह-'त्रिविधं त्रिप्रकारं भवति । यथा-परीत्तासषेयकं १ युक्तासापेयकम् २ असङ्ख्यातासङ्ख्येयकम् ३ इति उक्तं त्रिधाऽसङ्ख्येयकम् । अधुना त्रिविधमनन्तकमाह--"एवमणतं पि तिह" ति 'एवम्' अनेनानन्तरप्रदर्शितप्रकारेण परीत्तयुक्तनिजपदयुक्तलक्षणेन 'अनन्तमपि' अनन्तकमपि न केवलमसायकमित्यपिशब्दार्थः 'त्रिधा' त्रिप्रकारं वेदितव्यम् , तद्यथा--परीत्तानन्तकं १ युक्तानन्तकम् २ अनन्तानन्तकम् ३ इति । एवमेतानि समुदितानि सप्तापि पदानि पुनरेकैकशस्त्रिरूपाणि भवन्तीति दर्शयितुमाह-"जहन्नमज्झुक्कसा सवे" ति प्राकृतत्वाल्लिङ्गव्यत्ययाद् 'जघन्यमध्यमोत्कृष्टानि' जघन्य. मध्यमोत्कृष्टभेदभिन्नानि 'सर्वाणि' समस्तानि एकैकशः सप्तापि पदानि वेदितव्यानीत्यर्थः । तथाहि-जघन्यसङ्ख्येयकं मध्यमसङ्ख्येयकम् उत्कृष्ट सङ्ख्येयकम् । तथा जघन्यपरीत्तासङ्ख्येयकं मध्यमपरीत्तासङ्ख्येयकम् उत्कृष्टपरीवासयेयकम् । जघन्ययुक्तासङ्ख्येयकं मध्यमयुक्तासङ्ख्येयकम् उत्कृष्टयुक्तासङ्खधेयकम् । जघन्यासङ्ख्यातासङ्ख्येयकं मध्यमासङ्ख्यातासङ्खधेयकम् उत्कृष्टासङ्ख्यातासअधेयकम् । तथा जघन्यपरीत्तानन्तकं मध्यमपरीत्तानन्तकम् उत्कृष्टपरीत्तानन्तकम् । जघन्ययुक्तानन्तकं मध्यमयुक्तानन्तकम् उत्कृष्टयुक्तानन्तकम् । जघन्यानन्तानन्तकं मध्यमानन्तानन्तकम् उत्कृष्टानन्तानन्तकम् । तदेवं सङ्ख्यातकं त्रिधा असञ्जयातमनन्तकं च नवधा भवतीति ।। ७१।।
तदेवं सङ्ख्येयकादिमेदप्ररूपणामात्रं कृत्वा विस्तरतस्तत्वरूपं निरूपयिषुः सङ्ख्यातकं त्रिधेति यदुदिष्टं तद् विवृण्वन्नाह
लहु संखिलं दु चिय, अओ परं मज्झिमं तु जा गुरुयं ।
जंबूहीवपमाणयचउपल्लपरूवणाह इमं ॥७२॥ इहैकको गणनसङ्ख्यां न लभते, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते, नैकसझ्याविषयत्वेन । अथवा आदानसमर्पणादिव्यवहारकाले एक वस्तु प्रायो न कश्चिद् गणयति, अतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यां लभते, तस्माद् द्विप्रभृतिरेव गणनसङ्ख्या । अत एवाह-'सत्येयं' सङ्ख्यातकं 'लघु' जघन्यं-हवं, चियशब्दस्याऽवधारणार्थत्वात् , यदाहुः श्रीहेमचन्द्रसूरिपादाः प्राकृतलक्षणे-"णइ चेअ चिय च अवधारणे" (सि०८-२-१८४) द्वावेव, नैकः, पूर्वोदितयुक्तः । अतः परम्' एतस्माद् द्विकभूतजघन्यसङ्ख्यातकादूर्ध्वं मध्यमं तु सङ्ख्यातकं पुनस्त्रिचतुरादिकमनेकप्रकारं भवति । कियहरं यावद् मध्यमं भवति । इत्याह--"जा गुरुयं" ति 'यावद्' इत्यवधौ 'गुरुकम्' उत्कृष्टं-सर्वोपरिवर्ति सङ्ख्यातकं प्रामोतीति शेषः । अथेदमेव गुरुकं सायातकं कथं विज्ञेयम् ? इत्याह-'इदम्' अधुनैव वक्ष्यमाणस्वरूपं गुरुकं सायातकं ज्ञेयमिति शेषः । कया ? 'जम्बूद्वीपप्रमाणचतुष्पल्यप्ररूपणया' जम्बूनाना वृक्षणोपलक्षितो द्वीपो जम्बूद्वीपस्तेन जम्बूद्वीपेन प्रमाणम्-इयत्वावधारणं येषां ते जम्बूद्वीपप्रमाणकास्ते च ते चत्वारः-चतुःसङ्ख्याः पल्याश्च-धान्यपल्या इव जम्बूद्वीपप्रमाणकचतुःपल्यास्तेषां प्रकृष्टरूपा प्ररूपणा-ज्यावर्णना तया । एतदुक्तं भवति-यथा जम्बूद्वीपो लक्षयोजनप्रमाण एवमेतेऽप्यायामविष्कम्भाभ्यां प्रत्येकं लक्षयोजनप्रमाणा वृत्ताकारत्वाच परिधिना,