________________
६०-६४]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१८९
स्तूदीरणा पूर्वोक्तकारणादेव न भवति । "णुदीरगु अजोगि" त्ति अयोगिकेवली न कस्यापि कर्मण उदीरकः, योगसव्यपेक्षत्वाद् उदीरणायाः, तस्य च योगाभावादिति ॥
उक्ता गुणस्थानकेषूदीरणास्थानयोजना । सम्प्रति गुणस्थानकेष्वेव वर्तमानानां जन्तूनामल्पस्वबहुत्वमाह - " थेव उवसंत" त्ति स्तोकाः 'उपशान्ताः' उपशान्तमोहगुणस्थानवर्तिनो जीवाः, यतस्ते प्रतिपद्यमानका उत्कर्षतोऽपि चतुःपञ्चाशत्प्रमाणा एव प्राप्यन्त इति । तेभ्यः सकाशात् क्षीणमोहाः समयेयगुणाः, यतस्ते प्रतिपद्यमानका एकस्मिन् समयेऽष्टोत्तरशतप्रमाणा अपि लभ्यन्ते । एतचोत्कृष्टपदापेक्षयोक्तम् अन्यथा कदाचिद् विपर्ययोऽपि द्रष्टव्यः -- स्तोकाः क्षीणमोहाः, बहवस्तु तेभ्य उपशान्तमोहाः । तथा तेभ्यः क्षीणमोहेभ्यः सकाशात् सूक्ष्मसम्परायानिवृत्तिबादरापूर्वकरणा विशेषाधिकाः । स्वस्थाने पुनरेते चिन्त्यमानास्त्रयोऽपि 'समाः ' तुल्या इति ॥ ६२ ॥ जोगि अपमत्त इयरे, संखगुणा देससासणामीसा । अविरय अजोगिमिच्छा, असंख चउरो दुवे णंता ॥ ६३ ॥
तेभ्यः सूक्ष्मादिभ्यः सयोगिकेवलिनः सङ्ख्यातगुणाः, तेषां कोटीपृथक्त्वेन लभ्यमानत्वात् । तेभ्योऽप्रमत्ताः सङ्ख्यगुणाः, कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्यः “इयरे" ति अप्रमत्त प्रतियोगिनः प्रमत्ताः सहधेयगुणाः । प्रमादभावो हि बहूनां बहुकालं च लभ्यते विपर्ययेण स्वप्रमाद इति न यथोक्तसयाव्याघातः । " देस" इत्यादि देशविरतसाखादनमिश्राविरतलक्षणाश्चत्वारो यथोत्तरमसङ्ख्येयगुणाः । अयोगिमिय्यादृष्टिलक्षणौ च द्वौ यथोत्तरमनन्तगुणैौ । तत्र प्रमत्तेभ्यो देशविरता असङ्ख्येयगुणाः, तिरश्चामप्यसङ्ख्यातानां देशविरतिभावात् । साखादनास्तु कदाचित् सर्वथैव न भवन्ति, यदा भवन्ति तदा जघन्येनैको द्वौ वा, उत्कर्षतस्तु देशविरतेभ्योऽप्ययगुणाः । तेभ्योऽपि मिश्रा असश्येयगुणाः, साखादनाद्धाया उत्कर्षतोऽपि षडावलिकामात्रतया स्तोकत्वात्, मिश्राद्धायाः पुनरन्तर्मुहूर्तप्रमाणतया प्रभूतत्वात् । तेभ्योऽप्यसङ्ख्येगुणा अविरतसम्यग्दृष्टयः, तेषां गतिचतुष्टयेऽपि प्रभृततया सर्वकालसम्भवात् । तेभ्योऽप्ययोगिकेवलिनो भवस्थाभवस्थभेदभिन्ना अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्योऽप्यनन्तगुणा मिथ्यादृष्टयः, साधारणवनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् तेषां च मिथ्यादृष्टित्वादिति ॥ ६३ ॥ तदेवमभिहितं गुणस्थानवर्तिनां जीवानामल्पबहुत्वम् । इदानीं “नमिय जिणं जियमग्गण" ( गा० १ ) इत्यादि द्वारगाथासूचितं भावद्वारं व्याचिख्यासुराहउवसमग्वयमीसोदयपरिणामा दु नव ठार इगवीसा ।
तियभेय सन्निवाहय सम्मं चरणं पढम भावे ॥ ६४ ॥
इह किल षड् भावा भवन्ति । विशिष्टहेतुभिः खतो वा जीवानां तत्तद्रूपतया भवनानि भवन्त्येभिरुपशमादिभिः पर्यायैरिति वा भावाः । किंनामानः पुनस्ते : इत्याह-- " उवसमखयमीसोदय" इत्यादि । अत्र सूचकत्वात् सूत्रस्यैवं प्रयोगः, " उवसम" त्ति औपशमिको भावः, "ख" चि क्षायिको भावः, "मीस" त्ति क्षायोपशमिको भावः, "उदय" त्ति औदयिको भावः, "परिणाम" ति पारिणामिको भावः । तत्रोपशमनमुपशमः - विपाकप्रदेशरूपतया द्विवियस्य विष्कम्भणं स एव तेन वा निर्वृत्त औपशमिकः । क्षयः - कर्मणोऽत्यन्तोच्छेदः