________________
१९०
देवेन्द्रसूरिविरचितस्त्रोपज्ञटीकोपेतः
[ गाय
स एव तेन वा निर्वृतः क्षायिकः । क्षयश्च समुदीर्णस्याभावः उपशमश्ध-अनुदीर्णस्य विष्कम्भ तोदयत्वं ताभ्यां निर्वृत्तः क्षायोपशमिकः । उदयः - शुभाशुभप्रकृतीनां विपाकतोऽनुभवनं स एव तेन वा निर्वृत्त औदयिकः । परि-समन्ताद् नमनं - जीवानामजीवानां च जीवत्वादिस्वरूपानुभवनं प्रति प्रीभवनं परिणामः स एव तेन वा निर्वृत्तः पारिणामिकः । एतेषामेव यथासङ्घयं भेदानाह - "दु नव ठार इगवीसा तिय भेय" त्ति द्वौ भेदावोपशमिकस्य १ नव भेदाः क्षायिकस्य २ अष्टादश भेदाः क्षायोपशमिकस्य ३ एकविंशतिर्भेदा औदयिकस्य ४ त्रयो भेदाः पारिणामिकस्य ५ । “संनिवाइय" ति सम् - इति संहतरूपतया नि-इति नियतं पतनं-गमनमेकत्र वर्तनं सन्निपातः कोऽर्थः ? एषामेव व्यादिसंयोगप्रकारस्तेन निर्वृतः सान्निपातिकः, अयं च षष्ठो भावः ६ । अथ "यथोद्देशं निर्देशः " इति न्यायात् औपशमिकादिभावानां व्यादीन् भेदान् प्रचिकटयिषुराह - " सम्मं चरणं पढम भावे" ति इह यथासङ्घयं दर्शनमोहनीयचारित्रमोहनीयकर्मोपशमभूतं सम्यक्त्वं चरणं च 'प्रथमे' आद्ये 'भावे' औपशमिकलक्षणे भवतीति शेषः । इति निरूपितौ द्वौ भेदावौपशमिकभावस्य ॥ ६४ ॥
बीए केवलजुयलं, सम्मं दाणाइलद्धि पण चरणं । तइए सेसुवओगा, पण लद्वी सम्म विरइदुगं ॥ ६५ ॥
'द्वितीये' क्षायिके भावे नव भेदा भवन्ति । तथाहि - 'केवलयुगलं' केवलज्ञानं केवलदर्शनम् । तत्र केवलज्ञानावरणक्षयभूतत्वेन क्षायिकं केवलज्ञानं ९ केवलदर्शनावरणक्षयसम्भूतं क्षायिकं केवलदर्शनं २ दर्शनमोहनीयक्षयसमुत्थं क्षायिकं सम्यक्त्वं ३ 'दानादिलब्धयः पञ्च' दानलाभभोगोपभोगवीर्यलक्षणा दानादिरूपपञ्चप्रकारान्तरायक्षयोद्भूताः क्षायिक्यः ८ चारित्रमोहनीयक्षयसम्भूतं च क्षायिकं चरणं यथाख्यातसंज्ञितमित्यर्थः ९ । तथा 'तृतीये' क्षायोपशमिकभावेऽष्टादश भेदा भवन्ति । तद्यथा--' ---'शेषोपयोगाः' केवलज्ञानकेवलदर्शनव्यतिरिक्ता मतिज्ञानश्रुतज्ञानावधिज्ञानमनः पर्यवज्ञानरूपज्ञान चतुष्टयमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूपाज्ञानत्रि कचक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनलक्षणदर्शनत्रिकस्वरूपा दशोपयोगाः १० " पण लद्धि" ति पदैकदेशे पदसमुदायोपचाराद् दानलाभभोगोपभोगवीर्यलक्षणा लब्धयः पञ्च ५ " सम्म" त्ति सम्यक्त्वं १ 'विरतिद्विकं' देशविरतिसर्वविरतिलक्षणम् २ इत्येतेऽष्टादश मेदाः क्षायोपशमिके भवन्ति । तत्र चत्वारि ज्ञानानि त्रीण्यज्ञानानि ज्ञानावरणीयकर्मक्षयोपशमसम्भूतत्वेन त्रीणि दर्शनानि दर्शनावरणक्षयोपशमोद्भूतत्वेन, दानादिपञ्चब्धयः पञ्चविधान्तरायकर्मक्षयोपशमजन्यत्वेन क्षायोपशमिकभावान्तर्वर्तिन्य इति ।
ननु दानादिलब्धयः पूर्वं क्षायिकभाववर्तिन्य उक्ताः, इह तु क्षायोपशमिक्य इति कथं न विरोध: ? नैतदेवम्, अभिप्रायापरिज्ञानात् । इह दानादिब्धयो द्विविधा भवन्ति - अन्तराय - कर्मणः क्षयसम्भविन्यः क्षयोपशमसम्भविन्यश्च । तत्र च याः क्षायिक्यः पूर्वमुक्तास्ताः क्षयसम्भूतत्वेन केवलिन एव, याः पुनरिह क्षायोपशमिकान्तर्गता उच्यन्ते ताः क्षयोपशमसम्भूताछअस्थानामेव । सम्यक्त्वसर्वविरती अपि क्षायोपशमिके अत्र ग्राझे, ते च यथासानं दर्शनमोहनीय चारित्रमोहनीयक्षयोपशमोद्भवत्वेन प्रस्तुतभाव एव वर्तते इति भावः । देशविरतिरप्यम