________________
१८८
[गाथा
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः आसुहुमं संतुदए, अहवि मोह विणु सत्त स्वीणम्मि।
चउ चरिमदुगे अह उ, संते उवसंति सचदए ॥ ६०॥ सूक्ष्मसम्परायगुणस्थानकमभिव्याप्य सत्तायामुदये चाष्टावपि कर्मप्रकृतयो भवन्ति । अयमर्थः----मिथ्यादृष्टिगुणस्थानकमारभ्य सूक्ष्मसम्परायं यावत् सत्तायामुदये चाष्टावपि कर्माणि प्राप्यन्ते । मोहं विना' मोहनीयं वर्जयित्वा सप्त कर्मप्रकृतयो भवन्ति 'क्षीणे' क्षीणमोहगुणस्थानके, सत्तायामुदये च मोहनीयस्य क्षीणत्वात् । “चउ चरिमदुगे" ति 'चरमद्विके' सयोग्ययोगिकेवलिगुणस्थानद्वये सत्तायामुदये च चतस्रोऽघातिकर्मप्रकृतयो भवन्ति, तत्र धातिकर्मचतुष्टयस्य क्षीणत्वात् । “अट्ठ उ संते उवसंति सत्तुदए" ति तुशब्दस्य व्यवहितसम्बन्धाद् उपशान्तमोहगुणस्थानके पुनरष्टावपि कर्मप्रकृतयः सत्तायां प्राप्यन्ते, सप्तोदये मोहनीयोदयाभावादिति भावः ॥ ६०॥ उक्ता सत्तोदयस्थानयोजना । साम्प्रतमुदीरणास्थानानि गुणस्थानकेषु निरूपयिषुराह
उइरंति पमत्तंता, सगह मीसह वेयआउ विणा।
छग अपमत्ताइ तओ, छ पंच सुहुमो पणुवसंतो ॥ ६१ ॥ मिश्यादृष्टिप्रभृतयः प्रमत्तान्ता यावद् अद्याप्यनुभूयमानभवायुरावलिकाशेषं न भवति तावत् सर्वेऽप्यमी निरन्तरमष्टावपि कर्माण्युदीरयन्ति । आवलिकावशेषे पुनरनुभूयमाने भवायुषि सप्तव, आवलिकावशेषस्य कर्मण उदीरणाया अभावात , तथास्वाभान्यात् । “मीस?" ति सम्यग्मिथ्यादृष्टिः पुनरष्टावेव कर्माण्युदीरयति, न तु कदाचनापि सप्त, सम्यग्मिथ्यादृष्टिगुणस्थानके वर्तमानस्य सत आयुष आवलिकावशेषत्वाभावात् । स ह्यन्तर्मुहूर्तावशेषायुष्क एव तद्भावं परित्यज्य सम्यक्त्वं मिथ्यात्वं वा नियमात् प्रतिपद्यत इति । 'अप्रमत्तादयस्त्रयः' अप्रमत्तापूर्वकरणानिवृत्तिबादरलक्षणा 'वेद्यायुर्विना' वेदनीयायुपी अन्तरेण षट् कर्माणि उदीरयन्ति, तेषामतिविशुद्धतया वेदनीयायुषोरुदीरणायोग्याध्यवसायस्थानाभावात् । “छ पंच सुहुमो" त्ति [ 'सूक्ष्मः' सूक्ष्मसम्परायः षट् पञ्च वा कर्माण्युदीरयति । तत्र षड् अनन्तरोक्तानि, तानि च तावद उदीरयति यावद् मोहनीयमावलिकावशेषं न भवति । आवलिकावशेषे च मोहनीये तस्याप्युदीरणाया अभावात् शेषाणि पश्च कर्माण्युदीरयति । “पणुवसंतु" ति उपशान्तमोहः पश्च कर्माण्युदीरयति न वेदनीयायुर्मोहनीयकर्माणि, तत्र वेदनीयायुषोः कारणं प्रागेवोक्तम् , मोहनीयं तूदयाभावाद नोदीर्यते, "वेद्यमानमेवोदीर्यते" इति वचनादिति ॥ ६१॥
पण दो ग्वीण दु जोगी णुदीरगु अजोगि थेव उवसंता। ___ संखगुण खीण सुहुमा, नियहिअप्पुव्व सम अहिया ॥ १२ ॥ . क्षीणमोहोऽनन्तरोक्तानि पञ्च कर्माण्युदीरयति । तानि च तावद् उदीरयति यावद् ज्ञानावरणदर्शनावरणान्तरायाण्यावलिकापविष्टानि न भवन्ति, आवलिकापविष्टेषु तु तेषु तेषामप्युदीरणाया अभावात् । द्वे एव नामगोत्रलक्षणे कर्मणी उदीरयति । “दु जोगि' ति 'दे' कर्मणी नामगोत्राख्ये योगा नाम-मनोवाक्कायरूपा विद्यन्ते यस्य स योगी-सयोगिकेवली उदीरयति, न शेषाणि । घातिकर्मचतुष्टयं तु मूलत एव क्षीणमिति न तस्योदीरणासम्भवः, वेदनीयायुपो