________________
५६-५९] षडशीतिनामा चतुर्थः कर्मप्रन्थः । १८५ भवन्ति । 'अपूर्वे' अपूर्वकरणे पुनः सैव चतुर्विंशतिक्रियाहारकरहिता द्वाविंशतिबन्धहेतवो भवन्तीति ॥ ५७ ॥
अछहास सोल वायरि, सुहुमे दस वेयसंजलणति विणा ।
वीणुवसंति अलोमा, सजोगि पुवुत्त सग जोगा ॥५८॥ एते च पूर्वोक्ता द्वाविंशतिर्बन्धहेतवः 'अछहासाः' हास्यरत्यरतिशोकभयजुगुप्सालक्षणहास्यषट्करहिताः षोडश बन्धहेतवः “बायरि" त्ति अनिवृत्तिबादरसम्परायगुणस्थानके भवन्ति, हास्यादिषट्कस्यापूर्वकरणगुणस्थानक एव व्यवच्छिन्नत्वादिति भावः । तथा त एव षोडश त्रिकशब्दस्य प्रत्येक सम्बन्धाद् वेदत्रिक-स्त्रीपुंनपुंसकलक्षणं सवलनत्रिक-सञ्जवलनक्रोधमानमायारूपं तेन विना दश बन्धहेतवः सूक्ष्मसम्पराये भवन्ति, वेदत्रयस्य सज्वलनक्रोधमानमायात्रिकस्य चानिवृत्तिवादरसम्परायगुणस्थानक एव व्यवच्छिन्नत्वात् । त एव दश 'अलोभाः' लोभरहिताः सन्तो नव बन्धहेतवः क्षीणमोहे उपशान्तमोहे च भवन्ति, मनोयोगचतुष्कवाग्योगचतुष्कौदारिककाययोगलक्षणा नव बन्धहेतव उपशान्तमोहे क्षीणमोहे च प्राप्यन्ते, न तु लोभः, तस्य सूक्ष्मसम्पराय एव व्यवच्छिन्नत्वात् । सयोगिकेवलिनि पूर्वोक्ताः सप्त योगाः, तथाहि-औदारिकमौदारिकमिश्रं कार्मणं प्रथमान्तिमौ मनोयोगी प्रथमान्तिमौ वाग्योगौ चेति । तत्रौदारिकं सयोग्यवस्थायाम् औदारिकमिश्रकार्मणकाययोगी समुद्धातावस्थायामेव वेदितव्यौ।।
मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु ॥ (प्रशम० का० २७६)
कार्मणशरीरयोगी, चतुर्थक पञ्चमे तृतीये च । (प्रशम० का० २७७) इति । प्रथमान्तिममनोयोगी भगवतोऽनुत्तरमुरादिभिर्मनसा पृष्टस्य मनसैव देशनात् , प्रथमान्तिमवा. ग्योगी तु देशनादिकाले । अयोगिकेवलिनि न कश्चिद् बन्धहेतुः, योगस्यापि व्यवच्छिन्नत्वात् ॥ ५८ ॥ उक्ता गुणस्थानकेषु बन्धहेतवः । सम्प्रति गुणस्थानकेष्वेव बन्धं निरूपयमाह
अपमत्तंता सत्तट्ट मीसअप्पुवधायरा सत्त।
बंधइ छ स्सुहुमो पगमुवरिमाऽबंधगाऽजोगी ॥५९॥ मिथ्यादृष्टिप्रभृतयोऽप्रमत्तान्ताः सप्ताष्टौ वा कर्माणि बध्नन्ति, आयुर्बन्धकालेऽष्टौ शेषकालं तु सप्त । “मीसअप्पुबबायरा” इति मिश्रापूर्वकरणानिवृत्तिबादराः सप्तैव बन्नन्ति, तेषामायुर्वन्धाभावात् । तत्र मिश्रस्य तथाखाभान्याद् इतरयोः पुनरतिविशुद्धत्वाद् आयुर्वन्धस्य च घोलनापरिणामनिबन्धनत्वात् । “छ स्मुहुमु" ति सूक्ष्मसम्परायो मोहनीयायुर्वर्जानि षट् कर्माणि बध्नाति, मोहनीयबन्धस्य बादरकषायोदयनिमित्तत्वात् , तस्य च तदभावात् , आयुर्वन्धाभावस्त्वतिविशुद्धस्वादवसेयः । “एगमुवरिम" ति 'एक' सातदेवनीयं कर्म 'उपरितनाः' सूक्ष्मसम्परायाद् उपरिष्टाद्वर्तिन उपशान्तमोहक्षीणमोहसयोगिकेवलिनो बन्नन्ति, न शेषकर्माणि, तहन्धहेतुत्वामावात् । 'अवन्धकः' सर्वकर्मप्रपञ्चबन्धरहितः 'अयोगी' चरमगुणस्थानकवर्ती, सर्वबन्धहेतुत्वाभावादिति ॥ ५९ ॥ उक्ता गुणस्थानकेषु बन्धस्थानयोजना । साम्प्रतं गुणस्थानकेण्वेवोदयसत्ताखानयोजनां निरूपयसाह१सयोग्यवस्थाक०स०प०प०१०॥