________________
१८६ देवेन्द्रसूरिविरचितखोपझटीकोपेतः
[गायो तवः सासादने द्रष्टव्याः । मिश्रे त्रिचत्वारिंशद् बन्धहेतवो भवन्ति, कथम् ! इत्याह-'मिश्रद्विकम्' औदारिकमिश्रवैक्रियमिश्रलक्षणं "कम्म" ति कार्मणशरीरं "अण" ति अनन्तानुबधिनस्तैर्विना । इयमत्र भावना--"न सम्ममिच्छो कुणइ कालं" इति वचनात् सम्यग्मिथ्यादृष्टेः परलोकगमनाभावाद् औदारिकमिश्रवैक्रियमिश्रद्विकं कार्मणं च न सम्भवति, अनन्तानुबन्ध्युदयस्य चास्य निषिद्धत्वाद् अनन्तानुबन्धिचतुष्टयं च नास्ति, अत एतेषु सप्तमु पूर्वोक्तायाः पञ्चाशतोऽपनीतेषु शेषास्त्रिचत्वारिंशद् बन्धहेतवो मिश्रे भवन्ति । 'अथ' अनन्तरं षट्चत्वारिंशद् बन्धहेतवो भवन्ति ॥ ५५ ॥
सदुमिस्सकम्म अजए, अविरहकम्मुरलमीसविकसाए ।
मुत्तु गुणचत्त देसे, छवीस साहारदु पमत्तं ॥५६॥ क? इत्याह ...--'अयते' अविरते, कथम् ? इत्याह-"सदुमिस्सकम्म" ति द्वयोर्मिश्रयोः समाहारो द्विमिश्रम् , द्विमिश्रं च कार्मणं च द्विमिश्रकार्मणम् , सह द्विमिश्रकार्मणेन वर्तते या त्रिचत्वारिंशत् । इयमत्र भावना-अविरतसम्यग्दृष्टेः परलोकगमनसम्भवात् पूर्वापनीतमौदारिकमिश्रवैक्रियमिश्रलक्षणं द्विकं कार्मणं च पूर्वोक्तायां त्रिचत्वारिंशति पुनः प्रक्षिप्यते ततोऽविरते षट्चत्वारिंशद् बन्धहेतवो भवन्ति । तथा 'देशे' देशविरते एकोनचत्वारिंशद् बन्धहेतवो भवन्ति, कथम् ? इत्याह-अविरतिः-त्रसासंयमरूपा कार्मणम् औदारिकमिश्रं द्वितीयकषायान्-अप्रत्याख्यानावरणान् मुक्त्वा शेषा एकोनचत्वारिंशदिति । अत्रायमाशयः --विग्रहगतावपर्याप्तकावस्थायां च देशविरतेरभावात् कार्मणौदारिकमिश्रद्वयं न सम्भवति, सासंयमाद् विरतत्वात् त्रसाविरतिर्न जाघटीति ।।
ननु सासंयमात् सङ्कल्पजाद् एवासी विरतो न वारम्भजादपि तत् कथमसी त्रसाविरतिः सर्वाऽप्यपनीयते ?, सत्यम् , किन्तु गृहिणामशक्यपरिहारत्वेन सत्यप्यारम्भजा साविरतिर्न विवक्षितेत्यदोषः । एतच्च बृहच्छतकहचूर्णिमनुसृत्य लिखितमिति न स्वमनीषिका परिभावनीया। तथाऽप्रत्याख्यानावरणोदयस्याऽस्य निषिद्धत्वाद् इत्यप्रत्याख्यानावरणचतुष्टयं न घटां प्राञ्चति । तत एते सप्त पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीयन्ते तत एकोनचत्वारिंशद् बन्धहेतवः शेषा देशविरते भवन्ति । तथा घड़िशतिर्बन्धहेतवः प्रमत्ते भवन्ति । "साहारदु" ति सह आहारद्विकेनआहारकाहारकमिश्रलक्षणेन वर्तत इति साहारकद्विका ॥ ५६ ॥
अविरइ इगार तिकसायवन अपमत्ति मीसदुगरहिया।
चउवीस अपुग्वे पुण, दुवीस अविउवियाहारा ॥५७॥ त्रसाविरतेर्देशविरतेऽपनयनात् शेषा एकादशाविरतय इह गृह्यन्ते, तृतीयाः कषायास्त्रिकषायाः-प्रत्याख्यानावरणास्तद्वर्जाः-तद्विरहिता साहारकद्विका च सैव एकोनचत्वारिंशत् षड्रिंशतिर्भवति । इदमत्र हृदयम्-~-प्रमत्तगुणस्थान एकादशधा अविरतिः प्रत्याख्यानावरणचतुष्टयं च न सम्भवति, आहारकद्विकं च सम्भवति, ततः पूर्वोक्ताया एकोनचत्वारिंशतः पञ्चदशकेऽपनीते द्विके च तत्र प्रक्षिप्ते षड्विंशतिर्बन्धहेतवः प्रमते भवन्तीति । तथा अप्रमत्तस्य लब्ध्यनुपजीवनेनाऽऽहारकमिश्रवैक्रियमिश्रलक्षणमिश्रद्विकरहिता सैव षडिंशतिश्चतुर्विंशतिधहेतबोअमवे