________________
१३-५५ ]
esशीर्तिनामा चतुर्थः कर्मग्रन्थः ।
१८५
( गा० ४ ) इति गाथावयवेन नारकत्रिकादिषोडशप्रकृतीनां मिथ्यादृष्टावन्त उतरता मिथ्यात्व - प्रत्ययाः भवन्तीत्यर्थः । तद्भावे बध्यन्ते तदभावे तूतरत्र साखादनादिषु न बध्यन्त इत्यन्वयव्यतिरेकाभ्यां मिथ्यात्वमेवासां प्रधानं कारणम्, शेषप्रत्ययत्रयं तु गौणमिति । तथा मिथ्यात्वाविरतिप्रत्ययिकाः पश्चत्रिंशत् प्रकृतयः, तथाहि - "सासणि तिरि ३ थीण ३ दुहग ३ तिगं ॥ अण ४ मज्झागि ४ संघयणचउ ४ नि १ उज्जोय १ कुखगइ १ त्थि १ त्ति ।” ( कर्मस्त० गा० ४ - ५ ) इति सूत्रावयवेन तिर्यत्रिकप्रभृतिपञ्चविंशतिप्रकृतीनां साखादने बन्धव्यवच्छेद उक्तः, तथा - " बहर १ नरतिय ३ बियकसाया ४ । उरलदुगंतो २” (कर्मस्त० गा० ६ ) इति सूत्रावयवेन वज्रर्षभनाराचादीनां दशानां प्रकृतीनां देशविरते बन्धव्यवच्छेद उक्तः, एवं च पञ्चविंशतेर्दशानां च मीलने पञ्चत्रिंशत् प्रकृतयो मिथ्यात्वाविरतिप्रत्ययिका एताः, शेषप्रत्ययद्वयं तु गौणम्, तद्भावेऽप्युत्तरत्र तद्बन्धाभावादिति भावः । भणितशेषा आहारकद्विकतीर्थ करनामवजः सर्वा अपि प्रकृतयो योगवर्जत्रिप्रत्ययिका भवन्ति, मिथ्यादृष्ट्यविरतेषु सकायेषु च सर्वेषु सूक्ष्मसम्परायावसानेषु यथासम्भवं बध्यन्त इति मिथ्यात्वाविरतिकषायलक्षणप्रत्ययत्रयनिबन्धना भवन्तीत्यर्थः । उपशान्तमोहादिषु केवलयोगवत्सु योगसद्भावेऽप्येतासां बन्धो नास्तीति योगप्रत्ययवजनम्, अन्वयव्यतिरेकसमधिगम्यत्वात् कार्यकारणभावस्येति हृदयम् । आहारकशरीराहारकाङ्गोपाङ्गलक्षणाहारकद्विकतीर्थकरनाम्नोस्तु प्रत्ययः “सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं । " ( बृहच्छत० गा० ४५ ) इति वचनात् संयमः सम्यक्त्वं चाभिहित इतीह तद्वर्जनमिति ॥ ५३ ॥ उक्त प्रासङ्गिकम् । इदानीमुत्तरबन्धभेदान् गुणस्थानकेषु चिन्तयन्नाह
पणपन्न पन्न तियछहिय चत्त गुणवत्त छचउदुगवीसा ।
सोलस दस नव नव सत्त हेउणो न उ अजोगिनि ॥ ५४ ॥ मिथ्यादृष्टौ पञ्चपञ्चाशद् बन्धहेतवः १ । सासादने पञ्चाशद् बन्धहेतवः २ । चत्तशब्दस्य प्रत्येकं सम्बन्धात् त्र्यधिकचत्वारिंशदित्यर्थः, बन्धहेतवो मिश्रगुणस्थानके ३ । षडधिकचत्वारिंशद् बन्धहेतवोऽविरतिगुणस्थानके ४ । एकोनचत्वारिंशद् बन्धहेतवो देशविरतगुणस्थानके ५ । विंशतिशब्दस्य प्रत्येकं सम्बन्धात् षड्विंशतिर्बन्धहेतवः प्रमत्तगुणस्थाने ६ । चतुर्विंशतिर्बन्धहेतवोsप्रमत्तगुणस्थानके ७ । द्वाविंशतिर्बन्धहेतवोऽपूर्वकरणे ८ । षोडश बन्धहेतवोऽनिवृत्तिबादरे ९ । दश बन्धहेतवः सूक्ष्मसम्पराये १० । नव बन्धहेतव उपशान्तमोहे ११ । नव बन्धहेतवः क्षीणमोहे १२ । सप्त बन्धहेतवः सयोगिकेवलिगुणस्थाने १३ । 'न तु' नैवायोगिन्ये कोऽपि बन्धहेतुरस्ति, बन्धाभावादेवेति ॥ ५४ ॥ अथामूनेव बन्धहेतुन् भावयन्नाह
पणपन्न मिच्छि हारगवुगूण सासाणि पन्न मिच्छ विणा । मिस्सगकम्मअण विणु तिचत्त मीसे अह छचन्ता ॥ ५५ ॥ मिथ्यादृष्टौ आहारकाहारकमिश्रलक्षणद्विकोनाः पञ्चपञ्चाशद् बन्धहेतवो भवन्ति, आहारकद्विकवर्जनं तु "संयमवतां तदुदयो नान्यस्य" इति वचनात् । साखादने मिथ्यात्वपञ्चकेन बिना पञ्चाशद् बन्धहेतवो भवन्ति, पूर्वोक्तायाः पञ्चपञ्चाशतो मिथ्यात्वपञ्चकेऽपनीते पञ्चाशद् बन्धहे
१ सम्यक्स्वगुणनिमित्तं तीर्थकर संयमेनाहारकम् ॥
क० २४