________________
१८४
देवेन्द्रसूरिविरचितस्योपज्ञटीकोपेतः
[ गाथा.
'पञ्चदश योगा' अत्रैव व्याख्यातखरूपाः । 'इति' अमुना प्रदर्शितप्रकारेण पञ्चद्वादशपञ्चविंशतिपञ्चदशलक्षणेन सप्तपञ्चाशत् पुनरुत्तरमेदा बन्धस्य भवन्तीति ॥
1
प्रदर्शिता बन्धस्य मूलहेतवश्चत्वार उत्तरे सप्तपञ्चाशत्सङ्ख्याः । अधुना बन्धस्य मूलहेतून गुणस्थानकेषु चिन्तयन्नाह “इगचउपणतिगुणेसुं" इत्यादि । इहैवं पदघटना 'एकस्मिन' मिथ्यादृष्टिलक्षणे गुणस्थानके चत्वारः - मिथ्यात्वाविरतिकषाययोगलक्षणाः प्रत्ययाः – हेतवो यस्य स चतुःप्रत्ययो बन्धो भवति । अयमर्थः — मिथ्यात्वादिभिश्चतुर्भिः प्रत्ययैर्मिथ्यादृष्टिगुणस्थानकवर्ती जन्तुर्ज्ञानावरणादिकर्म बध्नाति । तथा 'चतुर्षु' गुणस्थानकेषु साखादनमिश्राविरतदेश विरतलक्षणेषु त्रयः - मिथ्यात्वविवर्जिता अविरतिकषाययोगलक्षणाः प्रत्यया यस्य स त्रिप्रत्ययो बन्धो भवतीति । अयमर्थः—साखादनादयश्चत्वारो मिथ्यात्वोदयाभावात् तद्वजैस्त्रिभिः प्रत्ययैः कर्म बनन्ति । देशविरतगुणस्थानके यद्यपि देशतः स्थूलप्राणातिपातविषया विरतिरस्ति तथापि साऽल्पत्वाद् नेह विवक्षिता, विरतिशब्देन इह सर्वविरतेरेव विवक्षितत्वादिति । तथा 'पञ्चसु' गुणस्थानकेषु प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायलक्षणेषु द्वौ प्रत्ययौ - कषाययोगा
यस्य स द्विप्रत्ययो बन्धो भवति । इदमुक्तं भवति - मिथ्यात्वा विरतिप्रत्ययद्वयस्य एतेवभावात् शेषेण कषाययोगप्रत्ययद्वयेनाऽमी प्रमत्तादयः कर्म बघ्नन्तीति । तथा 'त्रिषु' उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु एक एव मिथ्यात्वाविरतिकषायाभावाद् योगलक्षणः प्रत्ययो यस्य स एकप्रत्ययो भवति । अयोगिकेवली भगवान् सर्वथाऽप्यबन्धक इति ॥ ५२ ॥ भाविता मूलबन्धहेतवो गुणस्थानकेषु । सम्प्रत्येतानेव मूलबन्धहेतून् विनेयवर्गानुग्रहार्थमुत्तरप्रकृतीराश्रित्य चिन्तयन्नाह -
1
Gratcong
उमिच्छमिच्छअविरइपञ्चइया सायसोलपणतीसा ।
जोग विणु तिपञ्चयाऽऽहारगजिणवज्ज सेसाओ ॥ ५३ ॥ प्रत्ययशब्दस्य प्रत्येकं सम्बन्धात् चतुः प्रत्ययिका सातलक्षणा प्रकृतिः । मिध्यात्वप्रत्ययिकाः षोडश प्रकृतयः । मिथ्यात्वाविरतिप्रत्ययिकाः पञ्चत्रिंशत् प्रकृतयः । योगं विना 'त्रिप्रत्ययिका : ' मिथ्यात्वाविरतिकषायप्रत्ययिका आहारकद्विकजिनवर्जा: शेषाः प्रकृतय इति गाथाक्षरार्थः । भावार्थः पुनरयम् —–सातलक्षणा प्रकृतिश्चत्वारः प्रत्यया मिथ्यात्वाविरतिकषाययोगा यस्याः सा चतुःप्रत्ययिका, “अतोऽनेकखराद्” (सि० ७-२-६ ) इतीकप्रत्ययः, मिथ्यात्वादिभिश्चतुर्भिरपि प्रत्ययैः सातं बध्यत इत्यर्थः । तथाहि —सातं मिथ्यादृष्टौ बध्यत इति मिथ्यात्वप्रत्ययम्, शेषा अप्यविरत्यादयस्त्रयः प्रत्ययाः सन्ति, केवलं मिथ्यात्वस्य एवेह प्राधान्येन विवक्षितत्वात् ते तदन्तर्गतत्वेनैव विवक्षिताः, एवमुत्तरत्रापि । तदेव मिथ्यात्वाभावेऽप्यविरतिमत्सु साखा - दनादिषु बध्यत इत्यविरतिप्रत्ययम् । तदेव कषाययोगवत्सु प्रमत्तादिषु सूक्ष्मसम्परायावसानेषु बध्यत इति कषायप्रत्ययम्, योगप्रत्ययस्तु पूर्ववत् तदन्तर्गतो विवक्ष्यते । तदेवोपशान्तादिषु केवलयोगवत्सु मिथ्यात्वाविरतिकषायाभावेऽपि बध्यत इति योगप्रत्ययमिति । एवं सातलक्षणा प्रकृतिश्चतुः प्रत्ययिका । तथा मिथ्यात्वप्रत्ययिकाः षोडश प्रकृतयः । इह यासां कर्मस्तवे"नरयतिग ३ जाइ ४ थावरच ४ हुंडा १ऽऽयन १ छिबट्ट १ नपु १ मिच्छं १ । ओोतो"