SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १०-५२] षडशीतिनामा चतुर्थः कर्मग्रन्यः । १८५ अपूर्वकरणानिवृत्तिवावरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु शुक्ललेश्या भवति न शेषाः पञ्च । 'अयोगिनः' अयोगिकेवलिनः 'अलेश्याः' अपगतलेश्याः। इह लेश्यानां प्रत्येकमसोयानि लोकाकाशप्रदेशप्रमाणानि अध्यवसायस्थानानि, ततो मन्दाध्यवसायखानापेक्षया शुक्ललेश्यादीनामपि मिथ्याहमादौ, कृष्णलेश्यादीनामपि प्रमतगुणस्थानकेऽपि सम्मबो न विरुध्यत इति ॥ तदेवमुक्ता गुणस्थानकेषु लेश्याः । सम्प्रति बन्धहेतवो वक्तुमवसरप्राप्ताः, ते च मूलमेदतश्चस्वार उत्तरमेदतश्च सप्तपञ्चाशत् , तानुभयथाऽपि प्रचिकटयिषुराह-"बंधस्स मिच्छ” इत्यादि, 'बन्धस्य ज्ञानावरणादिकर्मबन्धस्य मूलहेतवश्चत्वारः 'इति' अमुना प्रकारेण भवन्ति । केन प्रकारेण ? इत्याह-'मिथ्यात्वाविरतिकषाययोगाः' तत्र मिथ्यात्वं-विपरीतावबोधखभावम् , अविरतिः-सावद्ययोगेभ्यो निवृत्त्यभावः, कषाययोगाः-आमिरूपितशब्दार्थाः । नन्वन्यत्र प्रमादोऽपि बन्धहेतुरभिधीयते, यदवादि मिथ्यात्वाविरतिप्रमादकपाययोगा बन्धहेतवः । (तत्त्वा० अ० ८ सू०१) इति स कथमिह नोक्तः ? उच्यते-मद्यविषयरूपस्य तस्याविरतावेवान्तर्भावो विवक्षितः । कषायाश्च पृथगेवोक्ताः, वैक्रियारम्भादिसम्भवी तु योगग्रहणेनैव गृहीत इत्यदोष इति ॥५०॥ उक्ताश्चत्वारो मूलहेतवः । इदानीमुत्तरमेदान् प्रचिकटयिषुः प्रथमं मिथ्यात्वस्याविरतेश्चोतरभेदानाह-~ अभिगहियमणभिगहियाऽभिनिवेसिय संसइयमणाभोगं । पण मिच्छ बार अविरइ, मणकरणानियम छजियवहो ॥५१॥ अभिप्रहेण-इदमेव दर्शनं शोभनं नान्यद् इत्येवंरूपेण कुदर्शनविषयेण निवृत्तमाभिग्रहिकम् , यद्वशाद् बोटिकादिकुदर्शनानामन्यतमं गृह्णाति । तद्विपरीतमनाभिग्रहिकम् , यदशात् सर्वाण्यपि दर्शनानि शोभनानीत्येवमीषन्माध्यस्थ्यमुपजायते । 'आभिनिवेशिकं' यद् अभिनिवेशेन निवृत्तम् , यथा गोष्ठमाहिलादीनाम् । 'सांशयिक' यत् संशयेन नितम् , यद्वशाद् भगवदर्हदुपदिष्टेष्वपि जीवाजीचादितत्त्वेषु संशय उपजायते, यथा-न जाने किमिदं भगवदुक्तं धर्मास्तिकायादि सत्यम् । उतान्यथा? इति । 'अनाभोग' यद अनाभोगेन निवृत्तम्, तचैकेन्द्रियादीनामिति । "पण मिच्छ” ति पश्चप्रकारं मिथ्यात्वं भवतीति । द्वादशमकाराऽविरतिः, कथम् ? इल्याह-मनःसान्तं, करणानि इन्द्रियाणि पञ्च तेषां खखविषये प्रवर्तमानानामनियमः-अनियत्रणम् , तथा पण्णा-पृषिव्यतेजोवायुवनस्पतित्रसरूपाणां जीवानां वधः-हिंसेति ॥५१॥ . अमिहिता मिथ्यावाविरत्युत्तरबन्धहेतवः। सम्प्रति कमाययोगोतरबन्धहेतूनाह भव सोल कसाया पनर जोग इय उत्तरा उ सगवना । इगचउपणतिषणेसुं, चउतिदुइगपचओ पंधो ॥ ५ ॥ .. सीवेदपुरुषवेदनपुंसकोदहास्यरत्यरतिशोकमयजुगुप्साल्पा नव नोकषायाः, ते च कषायसहचरितत्वाद् उपचारेणेह कषाया इत्युक्ताः । षोडश कमायाः अनन्तानुबन्धिक्रोधादयः । नोकवाअकालरूपं व सविस्तर खोपकर्मविपाकटीका निलमितमिति नत एवावधारणीयम् ।
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy