________________
3
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ याबा
ततः सासादनभावेऽपि ज्ञानं सूत्रसम्मतमेव । तचेत्थं सूत्रसम्मतमपि नेह प्रकरणेऽधिकृतम्, किनवज्ञानमेव, कर्मग्रन्थाभिप्रायस्यानुसरणात् । तदभिप्रायश्वायम्-साखादनस्य मिथ्यात्वाभिमुखतया तत्सम्यक्त्वस्य मलीमसत्वेन तन्निबन्धनस्य ज्ञानस्यापि मलीमसत्वादज्ञानरूपतेति ।
तथा सूत्रे वैकिये आहारके चारभ्यमाणे तेन प्रारभ्यमाणेन सहौदारिकस्यापि मिश्रीभवनादू औदारिकमिश्रमुक्तमिति । तथा चाह प्रज्ञापनाटीकाकारः
यदा पुनरौदारिकशरीरी वैक्रियलब्धिसम्पन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिको वा पर्याप्तवादरवायुकायिको वा वैक्रियं करोति तदौदारिकशरीरयोग एव वर्तमानः प्रदेशान् विक्षिप्य वैक्रियशरीस्योम्यान् पुद्गलानादाय यावद् वैक्रियशरीरपर्याप्त्या पर्याप्तिं न गच्छति तावद् वैक्रियेण मिश्रता, व्यपदेशश्च औदारिकस्य प्रधानत्वात् ( पद १६ पत्र ३१९ - १ ) ।
/
एवमाहारकेणापि सह मिश्रता द्रष्टव्या, आहारयति चैतेनैवेति तस्यैव व्यपदेश इति । परित्यागकाले वैक्रियस्याहारकस्य च यथाक्रमं वैक्रियमिश्रमाहारकमिश्रं च । उक्तं च श्रीप्रज्ञापनाटीकायाम्
[यदा] आहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वाददारिकपदेशं प्रति व्यापाराभावान्न परित्यजति यावत् सर्वथैवाहारकं तावदौदारिकेण मिश्रति आहारकमिश्रशरीरकायप्रयोग इति ।
तच्चैवं वैक्रियाहारकारम्भकाले औदारिकमिश्रं सूत्रेऽभिहितमपि नेह प्रकरणेऽधिकृतं कार्मग्रन्थिकैः, गुणविशेषप्रत्ययसमुत्थलब्धिविशेषकारणतया प्रारम्भकाले परित्यागकाले च वैक्रियस्याहारकस्य च प्राधान्यविवक्षणेन वैक्रियमिश्रस्याऽऽहारकमिश्रस्य चैवाभिधानात् तदभिप्रायस्य चेहानुसरणात् । तथा नैकेन्द्रियेषु “सासाणो” ति भावप्रधानोऽयं निर्देशः, सासादनभावः सूत्रे मतः, अन्यथा द्वीन्द्रियादीनामिवै केन्द्रियाणामपि ज्ञानित्वमुच्येत, न चोच्यते, किं तु विशेषतः प्रतिषिध्यते । तथाहि
"
ऐगिदिया णं भंते! किं नाणी अन्नाणी ? गोयमा ! नो नाणी नियमा अन्नाणी ( भ० श० ८ उ० २ पत्र ३४५-२ ) इति ।
स चेत्थं सासादनभावप्रतिषेधः सूत्रे मतोऽपि केनचित् कारणेन कार्मग्रन्धिकैर्नाभ्युपगम्यत इतीहापि प्रकरणे नाधिक्रियते, तदभिप्रायस्यैवेह प्रायोऽनुसरणादिति । "नेहाहिगयं सुयमयं पि" इत्येतद् विभक्तिपरिणामेन प्रतिपदं सम्बन्धनीयम्, तथैव सम्बन्धितमिति ॥ ४९ ॥ अधुना गुणस्थानकेष्वेव लेश्या अभिधित्सुराह -
छसु सव्वा तेउतिगं, इगि छसु सुका अजोगि अल्लेसा । बंधस्स मिच्छविरइकसायजोग ति बउ हेऊ ॥ ५० ॥
'षट्सु' मिथ्यादृष्टिसासादनमिश्राविरतदेशविरतप्रमत्तलक्षणेषु गुणस्थानकेषु 'सर्वा:' षडपि कृष्णनीलकापोततेजःपद्मशुक्कलेश्या भवन्ति । "तेउतिगं इगि" ति 'एकस्मिन् ' अप्रमत्तगुणस्थानके 'तेजस्त्रिकं ' तेजः पद्मशुक्कलेश्यात्रयं भवति न पुनराद्यं लेश्यात्रयमित्यर्थालब्धम् । 'षट्सु' १ एकेन्द्रिया भदन्त ! किं ज्ञानिनोऽज्ञानिनः १ गौतम ! जो ज्ञानिनो नियमादज्ञानिनः ॥
"