________________
४७-१९] पडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१८१ द्वयोर्दर्शयोः समाहारो द्विदर्श-चक्षुर्दर्शनाचक्षुर्दर्शनरूपमित्येते पञ्चोपयोगा मिथ्यादृष्टिसासादनयोर्भवन्ति, न शेषाः, सम्यक्त्वविरत्यभावात् । तथा 'अयते' अविरतसम्यग्दृष्टी 'देशे देशविरते षड्डुपयोगा भवन्ति । तथाहि-"नाणदंसतिगं" ति त्रिकशब्दस्य प्रत्येकममिसम्बन्धाद् ज्ञानत्रिक-मतिज्ञानश्रुतज्ञानावधिज्ञानरूपं दर्शत्रिकं-चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनलक्षणमिति, न शेषाः, सर्वविरत्यभावात् । 'ते' पूर्वोक्ता ज्ञानत्रिकदर्शनविकरूपाः षड्डुपयोगाः 'मिश्रे' सम्यम्मिथ्यादृष्टिगुणस्थानके 'मिश्राः' अज्ञानसहिता द्रष्टव्याः, तस्योभयदृष्टिपातित्वात् ; केवलं कदाचित् सम्यक्त्वबाहुल्यतो ज्ञानबाहुल्यम् , कदाचिच मिथ्यात्वबाहुल्यतोऽज्ञानबाहुल्यम् , समकक्षतायां तूभयांशसमतेति । अस्मिंश्च गुणस्थानके यद् अवधिदर्शनमुक्तं तत् सैद्धान्तिकमतापेक्षया द्रष्टव्यमित्युक्तं प्राक् । “समणा जयाई" ति "यउपरमे" यमनं यतं-सर्वसावधविरतं तद् विद्यते यस्य स यतः-"अनादिभ्यः” (सि० ७-२-४६) इत्यप्रत्ययः प्रमत्तगुणस्थानकवर्ती साधुः, यत आदिर्येषां गुणस्थानकानां तानि यतादीनि-प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहलक्षणानि सप्त गुणस्थानकानि तेषु पूर्वोक्ता ज्ञानत्रिकदर्शनत्रिकाख्याः षड्डुपयोगाः “समण" त्ति मनःपर्यायज्ञानसहिताः सप्त भवन्तीति, न शेषाः, मिथ्यात्वघातिकर्मक्षयाभावात् । 'केवलद्विकं' केवलज्ञानकेवलदर्शनलक्षणोपयोगद्वयरूपम् 'अन्तद्विके' सयोगिकेवल्ययोगिकेवलिलक्षणचरमगुणस्थानकद्वये भवति, न शेषा दश ज्ञानदर्शनलक्षणाः, तदुच्छेदेनैव केवलज्ञानकेवलदर्शनोत्पत्तेः, "नेटुम्मि उ छाउमथिए नाणे" (आ०नि० गा० ५३९) इति वचनात् ॥ १८॥ तदेवमभिहिता गुणस्थानकेषूपयोगाः । साम्प्रतं यदिह प्रकरणे सूत्राभिमतमपि कार्मग्रन्थिकाभिप्रायानुसरणतो नाधिकृतं तदर्शयन्नाह
सासणभावे नाणं, विउव्वगाहारगे उरलमिस्सं।
नेगिदिसु सासाणो, नेहाहिगयं सुयमयं पि ॥४९॥ 'सासादनभावे' साखादनसम्यग्दृष्टित्वे सति ज्ञानं भवति नाज्ञानमिति 'श्रुतमतमपि सिद्धान्तसम्मतमपि, तथाहि
बेइंदिया णं भंते! किं नाणी अन्नाणी ? गोयमा ! नाणी वि अन्नाणी वि। जे नाणी ते नियमा दुनाणी, आभिणिबोहियनाणी सुयनाणी । जे अन्नाणी ते वि नियमा दुअन्नाणी, तं जहा-महअन्नाणी सुयअन्नाणी । (भ० श०८ उ०२ पत्र ३४३-२)
इत्यादिसूत्रे द्वीन्द्रियादीनां ज्ञानित्वमभिहितं तच्च साखादनापेक्षयैव, न शेषसम्यक्त्वापेक्षया, असम्भवात् । उक्तं च प्रज्ञापनाटीकायाम्
"बेइंदियस्स दो नाणा कहं लब्भंति ? भण्णइ-सासायणं पडच तस्सापजत्तवस्स दो नाणा लभति (
) इति ।
-
१° कस्याचित् सम्य° क० ग०प०॥ २ नष्टे तु छापस्थिके शाने ॥ ३ द्वीन्द्रिया भदन्त ! किं शानिनोऽशानिनः ? गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि । ये ज्ञानिनस्ते नियमादिज्ञानिनः, आमिनिबोषिकक्षानिनः श्रुतशानिनः । येऽशानिनस्तेऽपि नियमाद् यशानिनः, तद्यथा-मत्यज्ञानिनः श्रुताज्ञानिनः॥ ४ द्वीन्द्रियस्य द्वे ज्ञाने कथं लभ्येते ? भन्यते-साखादनं प्रतीत्य तस्यापर्याप्तकस्य द्वे जाने लभ्येते॥