________________
१७२ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा. अस्या अक्षरगमनिका-सयेययोजनप्रमाणा 'सूचिः' एकप्रादेशिकी पतिस्तत्प्रदेशैः-सङ्ख्येययोजनप्रमाणैकप्रादेशिकपलिप्रदेशैरिति यावत् भक्तं प्रतरं व्यन्तरसुरैरपहियते तावद्भागलब्धराशिप्रमाणा व्यन्तरसुरा इत्यर्थः । इयमत्र भावना-सङ्ख्येययोजनप्रमाणसुचिप्रदेशाः किलाऽसत्कल्पनया दश, प्रतरप्रदेशाश्च लक्षम् , ततो दशभिर्भागे हृते लब्धाः सहस्रा दश एतावन्त इत्यर्थः । 'एवम्' उक्तेन प्रकारेण प्रतिनिकायं व्यन्तराणां भावना कार्या । न चैवं सर्वसमुदायपरिमाणनियमव्याघातप्रसङ्गः, सूचिप्रमाणहेतुयोजनसङ्ख्येयत्वस्य वैचित्र्यादिति ॥ __तथा षट्पञ्चाशदधिकशतद्वयानुलप्रमाणैराकाशप्रदेशसूचिरूपैः खण्डैर्यावद्भिर्यथोक्तखरूपं प्रतरमपहियते तावत्प्रमाणा ज्योतिष्का देवाः । उक्तं च
छपन्नदोसयंगुलसूइपएसेहिं भाइयं पयरं ।
जोइसिएहिं हीरइ, ( पञ्चसं० गा० ४९) इति । अत एवोक्तम्--"वोणमंतरेहितो संखेजगुणा जोइसिय" ति । तथा वैमानिकदेवा घनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धितृतीयवर्गमूलघनप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणाः, अतः सकलभवनपत्यादिसमुदायापेक्षया चिन्त्यमाना देवा नारकेभ्योऽसङ्ख्यातगुणा एव । तेभ्योऽपि च देवेभ्यस्तिर्यञ्चोऽनन्तगुणाः, तत्रानन्तसङ्ख्योपेतस्य वनस्पतिकायस्य सद्भावात् । उक्तं च---- ___ एऍसि णं भंते ! नेरइयाणं तिरिक्खजोणियाणं मणुम्साणं देवाणं सिद्धाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ! गोयमा ! सबथोवा मणुम्सा, नेरइया असंखेज्जगुणा, देवा असंखेज्जगुणा, सिद्धा अणंतगुणा, तिरिक्खजोणिया अणंतगुणा ॥
(प्रज्ञाप० पत्र ११९-२) तथा
थोवा नरा नरेहि य, असंखगुणिया हवंति नेरइया । तत्तो मुरा सुरेहि य, सिद्धाऽणता तओ तिरिया ॥
(जीवस० गा० २७१) इति ॥ ३७॥ उक्तं गतिष्वल्पबहुत्वम् । साम्प्रतमिन्द्रियद्वारे कायद्वारे तदभिधित्सुराह---
पण चउ ति दु एगिंदी, थोवा तिनि अहिया अणंतगुणा ।
तस थोव असंखऽग्गी, भूजलनिल अहिय वणणंता ॥ ३८ ॥ पञ्चेन्द्रियाश्चतुरिन्द्रियादिभ्यः स्तोकाः, तेभ्यश्चतुरिन्द्रिया ‘अधिकाः' विशेषाधिकाः, तेभ्यस्त्रीन्द्रिया विशेषाधिकाः, तेभ्यो द्वीन्द्रिया विशेषाधिकाः । तत्र च यद्यपि घनीकृतस्य लोकस्य
१ षट्पञ्चाशदधिकद्विशताङ्गुलसूचिप्रदेशेभक्तः प्रतरः । ज्योतिष्कः हियते ॥ २ व्यन्तरेभ्यः सवेयगुणा ज्योतिष्काः ॥ ३ एतेषां भदन्त ! नैरयिकाणां तिर्यग्योनिकानां मनुष्याणां देवानां सिद्धानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका मनुष्याः, नैरयिका मसझयेयगुणाः, देवा असाधेयगुणाः, सिद्धा अनन्तगुणाः, तिर्यग्योनिका अनन्तगुणाः॥ ४ स्तोका नरा नरेभ्यवासायगुणिता भवन्ति नैरयिकाः । ततः सुराः सुरेभ्यश्च सिद्धा अनन्तास्ततस्तिर्यश्चः।।