________________
३७ ]
षडशीतिनामा चतुर्थः कर्ममन्यः ।
१७१
अतो निरयादिभ्यः सकाशात् स्तोका नराः, तेभ्यो नारका असङ्घयेयगुणाः । यत एवमनुयोगद्वारेषु नारकपरिमाणमुपदर्श्यते
नेरहयाणं भंते ! केवइया वेडवियसरीरा पन्नता ? गोयमा ! दुविहा पन्नत्ता, तं जहा - बद्धिलया मुकिल्लया य । तत्थ णं जे ते बद्धिल्लया ते णं असंखेजा असंखिज्जाहिं उस्सप्पिणिअवसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जहभागो । वासि णं ढणं विक्खंभसूई अंगुलपढमवग्गमूलं बीयवग्गमूलपडुप्पन्नं, अहव णं अंगुळबिइयवमामूलघणपमाणमित्ताओ सेढीओ ॥ ( पत्र १९९ - २ )
अस्येयमक्षरगमनिका— नारकाणां बद्धानि वैक्रियशरीराण्यसङ्ख्येयानि, प्रतिनारकसेकैक्कवैकियसद्भावाद् नारकाणां चासयेयत्वात्, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि । क्षेत्रतस्तु प्रतरा सङ्ख्ये य भाग वर्त्यसङ्ख्येयश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भवन्ति । ननु प्रतरासङ्ख्येयभागेऽसङ्ख्येययोजनकोटयोऽपि भवन्ति तत् किमेतावत्यपि क्षेत्रे या नभः श्रेणयो भवन्ति ता इह गृह्यते ? न, इत्याह - " तासि णं सेढीणं विक्खंभसूई" इत्यादि । तासां श्रेणीनां विष्कम्भसूचिर्विस्तरश्रेणिर्ब्राह्मेति शेषः । कियती ? इत्याह – “अंगुल " इत्यादि । अङ्गुलप्रमाणे प्रतरक्षेत्रे यः श्रेणिराशिः तत्र किलासङ्ख्येयानि वर्गमूलान्युत्तिष्ठन्ति अतः प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्न - गुणितम्, तथा च यावन्त्योऽत्र श्रेणयो लब्धा एतावत्प्रमाणश्रेणीनां विष्कम्भमूचिर्भवति, एतावत्यः श्रेणयोऽत्र गृह्यन्त इत्यर्थः । इदमुक्तं भवति – अङ्गुलप्रमाणे प्रतरक्षेत्रे किलाsसत्कल्पनया पट्पञ्चाशदधिके द्वे शते श्रेणीनां भवतः, तद्यथा - २५६, अत्र प्रथमं वर्गमूलं १६, द्वितीयं ४, चतुर्भिश्च षोडश गुणिता जाता चतुःषष्टिः ६४, एषा चतुःषष्टिरपि सद्भावतोsयाः श्रेणयो मन्तव्याः, एतावत्सङ्ख्य श्रेणीनां विस्तरसूचिरिह प्राया । अथवा 'णं' इति वाक्यालङ्कारे, अयं द्वितीयः प्रकारः प्रस्तुतार्थविषये । तथाहि – “अङ्गुलबिइयवग्गमूलघण” इत्यादि । अङ्गुलप्रमाणप्रतर क्षेत्रवर्तिश्रेणिराशेर्यद् द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घनश्चतुःषष्टिलक्षणस्तत्प्रमाणाः श्रेणयोऽत्र गृह्यन्त इति प्ररूपणैव भिद्यतेऽर्थतस्तु स एव । इदमत्र तात्पर्यम् – सप्तरज्जुप्रमाणस्य घनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्र क्षेत्रपदेशराशिगतद्वितीयवर्गमूलघनप्रदेशराशिप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणा नारकाः, अतस्ते नरेभ्योऽसङ्ख्यातगुणा एव ॥
एतेभ्योऽपि देवा असङ्ख्यातगुणाः । कथम् ? इति चेद् उच्यते — देवा हि भवनपत्यादिभेदेन चतुर्धा, भवनपतयोऽसुरादिभेदेन दशविधाः । तत्राऽसुरकुमारा अपि तावद् घनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्रगतप्रदेशराशिसम्बन्धिप्रथमवर्गमूलासङ्ख्येयभागगतप्रदेशराशिप्रमाणास्तासां सम्बन्धी यावान् प्रदेशराशिस्तावत्सङ्ख्याकाः, एवं नागकुमारादयोऽपि द्रष्टव्याः । तथा सत्येययोजनप्रमाणाकाशप्रदेशसूचिरूपैः खण्डैर्यावद्भिर्धनी कृतस्य लोकस्य मण्डकाकारः प्रतरोऽपह्रियते तावत्प्रमाणा व्यन्तराः । उक्तं च--- संखेज्जजोयणाणं, सूइपएसेहि भाइयं पयरं ।
वंतरसुरेहिं हीरइ, एवं एक्केकमेएणं || ( पञ्चसं० गा० ४८ )