________________
३८] षडशीतिनामा चतुर्थः कर्मग्रन्थः।
१७३ ऊर्ध्वाधआयता एकपादेशिक्यः श्रेणयोऽसङ्ख्यातयोजनकोटीकोटीप्रमाणाकाशप्रदेशसूचिगतप्रदेशराशिप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यग्योनिपञ्चेन्द्रिया अविशेषेण सूत्रे निर्दिष्टाः, तथा चोक्तं तत्र यथोक्तरूपद्वीन्द्रियपरिमाणाभिधानानन्तरम्
जह बेइंदियाणं तहा तेइंदियाणं चउरिंदियाण वि भाणियवं पंचिंदियतिरिक्खजोणियाण वि । ( अनुयो० पत्र २०४-१) इति । ____तथापि सूचिपरिमाणहेतुयोजनगतासङ्ग्यातरूपसङ्ख्याया बहुभेदत्वान्न यथोक्तविशेषाधिकत्वाभिधानव्याघातः । अत एव च हेतोस्तिर्यग्योनिपञ्चेन्द्रियेषु द्वीन्द्रियादितुल्यतया सूत्रेऽभिहितेष्वपि तत्रापि नरनिरयदेवप्रक्षेपेऽपि पश्चेन्द्रियाश्चतुरिन्द्रियादिभ्यः स्तोका एव द्रष्टव्याः । यदभ्यधायि
पंचिंदिया य थोवा, विवज्जएण वियला विसेसहिया । (जीवस० गा० २७५) द्वीन्द्रियेभ्योऽपि चैकेन्द्रिया अनन्तगुणाः, वनस्पतिकायजीवराशेरनन्तानन्तत्वात् । यदुक्तमा
एसि णं भंते ! एगिदियबेदियतेइंदियचउरिंदियपंचिंदियाण य कयरे कयरेहितो अप्पा वा बहुआ वा विसेसाहिया वा ? गोयमा ! सबत्थोवा पंचिंदिया, चउरिंदिया विसेसाहिया, तेंदिया विसेसाहिया, बेइंदिया विसेसाहिया, एगिदिया अणंतगुणा ।।
(प्रज्ञापनापद ३ पत्र १२०-२) __"लस थोव" इत्यादि । 'त्रसाः' द्वीन्द्रियादयः पूर्वनिर्दिष्टसचयास्तेजस्कायिकादिभ्यः स्तोकाः । तेभ्यस्त्रसेभ्योऽसङ्ख्यातगुणाः “अग्गि" त्ति अग्निकायिकाः, तेषां सूक्ष्मबादरभेदभिन्नानामसङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यः “भू" त्ति पृथिवीकायिका विशेषाधिकाः । तेभ्यः "जल" ति अप्कायिका विशेषाधिकाः । तेभ्यः “अनिल' त्ति वायुकायिका विशेषाधिकाः । यद्यपि च एतेषामपि पृथिवीकायिकादीनामसङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणतया सूत्रे अविशेषेण निर्देशः कृतः, तथा चोक्तम्--
जहा पुढविकाइयाण एवं आउकाइयाणं पि । (अनु० पत्र २०२-१) इत्यादि। तथापि लोकानामसङ्ख्यातत्वस्याऽनेकभेदभिन्नत्वादिहैवं विशेषाधिकत्वाभिधानेऽपि न कश्चिदोषः । उक्तं च श्रीप्रज्ञापनायाम___ "ऐएसि णं भंते ! तसकाइयाणं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं
१ यथा द्वीन्द्रियाणां तथा श्रीन्द्रियाणां चतुरिन्द्रियाणामपि भणितव्यं पञ्चेन्द्रियतिर्यग्योनिकानामपि। २ पञ्चेन्द्रियाश्च स्तोका विपर्ययेण विकला विशेषाधिकाः॥ ३ एतेषां भदन्त! एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियाणां च कतरे कतरेभ्योऽल्पा वा बहुका वा विशेषाधिका वा? गौतम! सर्वस्तोकाः पश्चेन्द्रियाः, चतुरिन्द्रिया विशेषाधिकाः, श्रीन्द्रिया विशेषाधिकाः, द्वीन्द्रिया विशेषाधिकाः, एकेन्द्रिया अनन्तगुणाः ॥ ४ यथा पृथ्वीकायिकानामेवमप्कायिकानामपि ॥ ५ एतेषां भदन्त! सकायिकानां पृथ्वीकायिकानामप्कायिकानां तेजस्कायिकानां वायुकायिकानां वनस्पतिकायिकानामकायिकानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोकास्त्रसकायिकाः, तेजस्कायिका असङ्ख्यगुणाः, पृथ्वीकायिका विशेषाधिकाः, अप्कायिका विशेषाधिकाः, वायुकायिका विशेषाधिकाः, अकायिका अनन्तगुणाः, वनस्पतिकायिका अनन्तगुणाः ॥