________________
३०-३२] षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१६५ सुयअन्नाणसागारोवओगे विमंगनाणसागारोवओगे । अणागारोबओगे णं भंते ! कइविहे पन्नते ? गोयमा ! चउबिहे पन्नत्ते, तं जहा-चक्खुदंसणअणागारोवओगे अचक्खुदंसणअणागारोवओगे ओहिदसणअणागारोवओगे केवलदंसणअणागारोवओगे य ॥ (उपयो० पद २९ पत्र ५२५-१)
भावार्थः प्रागेव मार्गणास्थाने भेदाभिधानावसरे सप्रपञ्चमभिहित इति । “विणु मणनाण" इत्यादि, विना मनःपर्यायज्ञानं केवलद्विकं च-केवलज्ञानकेवलदर्शनलक्षणं शेषा नवोपयोगा भवन्ति 'सुरे' सुरगतौ "तिरि" ति तिर्यग्गतौ 'नरके' नरकगतौ 'अयते' विरतिहीने, एतेषु सर्वेष्वपि हि सर्वविरत्यसम्भवेन मनःपर्यायज्ञानकेवलद्विकासम्भवादिति ॥ ३० ॥
तस जोय वेय सुक्काहार नर पणिदि सन्नि भवि सव्वे।
नयणेयर पण लेसा, कसाइ दस केवलदुगुणा ॥३१॥ बसेषु 'योगेषु' मनोवाक्कायरूपेषु 'वेदेषु द्रन्यवेदरूपस्त्रीपुंनपुंसकलक्षणेषु शुक्ललेश्यायाम् आहारकेषु नरगतौ पञ्चेन्द्रियेषु संज्ञिपु "भवि" ति भव्येषु च सर्वे द्वादशाप्युपयोगाः सम्भवन्ति, एतेषु सर्वेष्वपि सम्यक्त्वदेशविरतिसर्वविरत्यादीनां सम्भवात् । “नयणं" ति चक्षुर्दर्शने "इयर" त्ति अचक्षुर्दर्शने ‘पञ्चसु लेश्यासु' कृष्णनीलकापोततेजःपद्मलेश्यासु 'कषायेषु' क्रोधमानमायालोभेषु दश उपयोगा भवन्ति । के ? इत्याह---केवलद्विकेन ऊनाः-हीना ज्ञानचतुष्टयाऽज्ञानत्रिकदर्शनविकरूपाः, न तु केवलद्विकम् , चक्षुर्दर्शनादिसद्भावेऽनुत्पादात् तस्य ॥ ३१ ॥
चरिंदि सनि दुअनाणदंस इग बित्ति थावरि अचक्खू । तिअनाण दंसणदुर्ग, अनाणतिग अभव मिच्छदुगे ॥ ३२॥ चतुरिन्द्रिये असंज्ञिनि च चत्वार उपयोगा भवन्ति । के ते ? इत्याह---'व्यज्ञानदर्शने' द्वे अज्ञाने-मत्यज्ञानश्रुताज्ञानरूपे, द्वे दर्शने-चक्षुर्दर्शनाचक्षुर्दर्शनलक्षणे इत्यर्थः । तथा त एव पूर्वोक्ताश्चत्वार उपयोगाः “अचक्खु" त्ति अचक्षुषः-चक्षुर्दर्शनरहिताः सन्तस्त्रयो भवन्ति । केषु ? इत्याह----"इग" ति सामान्यत एकेन्द्रियेषु द्वीन्द्रियेषु त्रीन्द्रियेषु 'स्थावरेषु' पृथिव्यम्बुतेजोवायुवनस्पतिषु । कोऽर्थः ? एकद्वित्रीन्द्रियस्थावरेषु मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनरूपास्त्रय उपयोगा भवन्तीत्यर्थः, न शेषाः, यतः सम्यक्त्वाभावाद् मतिश्रुतज्ञानासम्भवः, सर्वविरत्यभावाच मनःपर्यायज्ञानकेवलज्ञानकेवलदर्शनाभावः, यत् पुनरवधिद्विकं विभङ्गज्ञानं च तद् भवप्रत्यय गुणप्रत्ययं वा, न चाऽनयोरन्यतरोऽपि प्रत्ययः सम्भवति, चक्षुर्दर्शनोपयोगाभावस्तु चक्षुरिन्द्रियाभावादेव सिद्धः । तथा त्रयाणामज्ञानानां समाहारः त्र्यज्ञानम् , अज्ञानत्रयम्-मत्यज्ञानश्रुताज्ञानविभावरूपं 'दर्शनद्विकं' चक्षुर्दर्शनाचक्षुर्दर्शनलक्षणमित्येते पञ्चोपयोगा भवन्ति । क ? इत्याह'अज्ञानत्रिके' मत्यज्ञानश्रुताज्ञानविभङ्गरूपे । यत्त्वज्ञानत्रिकेऽवधिदर्शनं पूर्वाचार्यैः कुतश्चित् कारणाद् नेप्यते तद् न सम्यगवगच्छामः, तथाविधसम्प्रदायाभावात् ; अथ च सिद्धान्ते प्रतिपाद्यते, तथा च प्रज्ञप्तिस्त्रं पूर्वदर्शितमेव, तदभिप्रायादस्माभिरपि नोक्तमिति । 'अभवे' अभव्ये 'मिथ्यासद्विके' मिथ्यात्वे साखादने च] पञ्चोपयोगा:-अज्ञानत्रिकदर्शनद्विकरूपा न शेषाः, अवदातसम्यक्त्वविरत्यमावादिति ॥ ३२ ॥