________________
१६४
देवेन्द्ररिविरचितखोपाटीकोपेतः
[गाथा . समए समए खविडं, कमेण सवं तहिं कम्मं ॥ (विशेषा० गा० ३०८२) रिउसेढीपडिवन्नो, समयपएसंतरं अफुसमाणो ।
एगसमएण सिज्झइ, अह सागारोवउत्तो सो ॥ (विशेषा० गा० ३०८८) अयं च समुद्भातविधिः सर्वोऽप्यावश्यकाभिप्रायेणोक्तः । तत्रेयं गाथा
दंडे कबाडे मंथंतरे य संहरणया सरीरत्थे।
भासाजोगनिरोहे, सेलेसी सिज्झणा चेव॥ (आ०नि० गा०९५५) इति ॥२९॥ अभिहिता मार्गणास्थानेषु योगाः । साम्प्रतमेतेप्वेव उपयोगस्वरूपनिरूपणपूर्वकमुपयोगानभिधित्सुराह
तिअनाण नाण पण चउ, दंसण वार जिय लकग्वणुधओगा।
विणु मणनाण दुकेवल, नव सुरतिरिनिरयअजएसु ॥ ३०॥ 'त्रीण्यज्ञानानि' मत्यज्ञानश्रुताज्ञानविभङ्गरूपाणि 'ज्ञानानि' मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यवज्ञानकेवलज्ञानलक्षणानि पञ्च स्वोपज्ञकर्मविपाकटीकायां विस्तरेणाभिहितस्वरूपाणि 'चत्वारि दर्शनानि' चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि इत्येवं द्वादशोपयोगाः प्रामिरूपितशब्दार्था भवन्ति । किंविशिष्टाः ? इत्याह---"जिय लक्षण" ति प्राकृतत्वाद विभक्तिलोपः, ‘जीवस्य' आत्मनः ‘लक्षणं' लक्ष्यते-ज्ञायते तदन्यव्यवच्छेदेनेति लक्षणम्-असाधारणं खरूपम् । अत एवोक्तमन्यत्र-... "उपयोगलक्षणो जीवः" इति । ते च द्विधा--साकारा अनाकाराश्च । तत्र पञ्च ज्ञानानि त्रीण्यज्ञानानि इत्यष्टावुपयोगाः साकाराः, चत्वारि दर्शनानि अनाकारा उपयोगाः। यदाह प्रवचनार्थसार्थसरससरसीरुहसमूहप्रकाशनसहस्रभानुर्मगवान् श्रीमदार्यश्यामः प्रज्ञापनायामुपयोगपदेऽष्टमे
कतिविहे णं भंते ! उवओगे पन्नत्ते ? गोयमा ! दुविहे उवओगे पन्नत्ते, तं जहासागारोबओगे य अणागारोघओगे य। सागारोवओगे णं भंते ! कतिविहे पन्नत्ते ? गोयमा ! अट्टविहे पत्नत्ते, तं जहा-आभिणिबोहियनाणसागारोवओगे मुयनाणसागारोवओगे ओहिनाणसागारोवओगे मणपज्जवनाणसागारोवओगे केवलनाणसागारोवओगे मइअन्नाणसागारोवओगे
१ खवियं कमसो सेलेसिकालेणं । इति विशेषावश्यकभाष्ये ॥ २ ऋजुश्रेणिप्रतिपन्नः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति अथ साकारोपयुक्तः सः॥ ३ दण्डः कपाटं मन्या अन्तराणि संहरणता शरीरस्थः । भाषायोगनिरोधः शैलेशी सिद्धिश्चैव ॥ ४ अस्मत्पार्श्ववर्तिषु सर्वेष्वपि पुस्तकादशेषु जैनधर्मप्रसारकसभया मुद्रिते चादर्श "उपयोगपदेऽष्टमे' इत्येवमेवोपलभ्यते परं प्रज्ञापमाया अष्टमपदं तु संज्ञापदमेब, उपयोगपदं तु एकोनत्रिंशत्तममेवेति ॥ ५ कतिविधो भदन्त ! उपयोगः प्रज्ञप्तः ? गौतम ! द्विविध उपयोगः प्रज्ञप्तः, तद्यथा-साकारोपयोगश्चानाकारोपयोगश्च । साकारोपयोगो भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! अष्टविधः प्रज्ञप्तः, तयथा-आभिनियोधिकज्ञानसाकारोपयोगः १ श्रुतज्ञानसाकारोपयोगः २ अवधिज्ञानसाकारोपयोगः ३ मनःपर्यवज्ञानसाकारोपयोगः ४ केवलज्ञानसाकारोपयोगः ५ मस्यशानसाकारोपयोगः ६ श्रुताज्ञानसाकारोपयोगः ७ विभङ्गज्ञानसाकारोपयोगः ८ । अनाकारोपयोगो भदन्त ! कलिविधः प्रज्ञप्तः ? गौतम ! चतुर्विधः प्रशतः, तद्यथा-चक्षुर्दर्शनानाकारोपयोगः १ अचक्षुर्दर्शनानाकारोपयोगः २ अवधिदर्शनानाकारोपयोगः ३ केवलदर्शनानाकारोपयोगः ४ ॥