________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा
केवलदुगे नियदुर्ग, नव तिअनाण विणु खइय अहखाए । दंसणनाणतिगं देसि मीसि अन्नाणमीसं तं ॥ ३३ ॥ ‘केवलद्विके' केवलज्ञानकेवलदर्शनलक्षणे 'निजद्विकं' केवलज्ञानकेवलदर्शनरूपमुपयोगद्विकं भवति, न शेषा दश, ज्ञानदर्शनव्यवच्छेदेनैव केवलयुगलस्य सद्भावात्, “नट्ठम्मि उ छाउमथिए नाणे । " ( आ० नि० गा० ५३९ ) इति वचनात् । तथा क्षायिके सम्यक्त्वे यथाख्याते च संयमे नवोपयोगा भवन्ति । के ते ? इत्याह- 'अज्ञानत्रिकं' मतिश्रुताज्ञानविभङ्गज्ञानलक्षणं विना, यतः क्षायिकयथाख्यातयोरज्ञानत्रिकं न भवत्येव, तस्य मिथ्यात्वनिबन्धनत्वात्, निर्मूलतो मिथ्यात्वक्षयेणोपशमेन च क्षायिकसम्यक्त्वयथाख्यातोत्पादात्, अत एतयोर्नवैवोपयोगा भवन्तीति । तथा 'देशे' देशविरते षडुपयोगा भवन्ति । कथम् ? इत्याह--- ' दर्शनज्ञानत्रिकं' त्रिकशब्दस्य प्रत्येकं सम्बन्धः, दर्शनत्रिकं चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनरूपम्, ज्ञानत्रिकंमतिश्रुतावधिज्ञानरूपमिति, न शेषाः, मिध्यात्वसर्वविरत्यभावात् । मिश्र तदेव दर्शनज्ञानत्रिकमज्ञानमिश्रं द्रष्टव्यम्, मतिज्ञानं मत्यज्ञानमिश्रं १ श्रुतज्ञानं श्रुताज्ञानमिश्रं २ अवधिज्ञानं विभङ्गज्ञानमिश्रं ३ दर्शनत्रिकं ३ चेति मिथेऽपि षडुपयोगाः सिद्धा भवन्ति । इह चावधिदर्शनमागमाभिप्रायेण उच्यते, अन्यथा एतेष्वेव मार्गणास्थानकेषु गुणस्थानकमार्गणायां “अजयाइ नव महसुओहिदुगे" ( गा० २१ ) इत्युक्तमिति ॥ ३३ ॥
१६६
मणनाणचक्खुवज्जा, अणहारे तिन्नि दंस चउ नाणा । चनाणसंजमोवसम वेयगे ओहिसे य ॥ ३४ ॥
मनः पर्यायज्ञानचक्षुर्दर्शनवजः शेषा दशोपयोगा अनाहारके भवन्ति । यत्तु मनः पर्यवज्ञानं चक्षुर्दर्शनं तच्चानाहारके न सम्भवति, यतोऽनाहारको विग्रहगतौ केवलिसमुद्घातावस्थायां च, न च तदानीं मनःपर्यायज्ञानचक्षुर्दर्शनसम्भव इति । तथा ' त्रीणि दर्शनानि' चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनरूपाणि ' चत्वारि ज्ञानानि' मतिश्रुतावधिमनः पर्यायलक्षणानीत्येवं सप्तोपयोगा भवन्ति; क ? इत्याह---चतुः शब्दस्य प्रत्येकं सम्बन्धात् चतुर्षु ज्ञानेषु - मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानेषु, तथा चतुर्षु संयमेषु - सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्परायेषु, औपशमिके सम्यक्त्वे 'वेदके' क्षायोपशमिकापरपर्याये, अवधिदर्शने 'च' समुच्चये, न शेषाः, तत्सद्भावे मत्यज्ञानादीनामसम्भवात् । इहाप्यवधिदर्शने मत्यज्ञानाद्युपयोगप्रतिषेधो बहुश्रुताचार्याभिप्रायापेक्षया द्रष्टव्यः, अन्यथा हि मत्यज्ञानादिमतामपि सूत्रे साक्षाद् अवधिदर्शनं प्रतिपादितमेव, प्रज्ञप्तिसूत्रं च प्रागेवोक्तमिति ॥ ३४ ॥
उक्ता मार्गणास्थानेषु उपयोगाः । अथ योगेषु जीवगुणस्थानकयोगोपयोगान् अधिकृत्य
मतान्तरमाह
-
दो तेर तेर बारस, मणे कमा अट्ट दु च च वयणे । च दु पण तिनि काए, जियगुणजोगोवओगने ॥ ३५ ॥ अन्ये त्वाचार्याः “मणि” त्ति मनोयोगे द्वे जीवस्थानके, त्रयोदश गुणस्थानकानि, त्रयोदश
१ °ये, अवधिद्विके–अवधिज्ञानावधिदर्शनरूपे चः क० ख० ग० ० ॐ० मुद्रितपुस्तकादर्शे च ॥