________________
१६२
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
पञ्चप्पणं करिज्जा, जोगनिरोहं तओ कुणई ||
किं न सजोगो सिज्झइ, स बंधहेउ त्ति जं खलु सजोगो ।
न समेइ परमसुक्कं स निज्जराकारणं परमं ॥ (विशेषा० गा० ३०५६-३०५८)
अन्यत्राप्युक्तम्
स ततो योगनिरोधं करोति लेश्यानिरोधमभिकाङ्क्षन् । समयस्थितिं च बन्धं, योगनिमित्तं स निरुरुत्सुः ॥ समये समये कर्मादाने सति सन्ततेर्न मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि ॥ नाकर्मणो हि वीर्य, योगद्रव्येण भवति जीवस्य । तस्याऽवस्थानेन तु, सिद्धः समयस्थितिर्बन्धः ||
[ गाथा
योगनिरोधं च कुर्वाणः प्रथमं मनोयोगं निरुणद्धि तत्र पर्याप्तमात्रसंज्ञिपञ्चेन्द्रियस्य प्रथमसमये यावन्ति मनोद्रव्याणि यावन्मानश्च तद्व्यापारस्तस्माद् असह्येयगुणहीनं मनोयोगं प्रतिसमयं निरुन्धानोऽसङ्ख्यैयैः समयैः साकल्येन निरुणद्धि । यदाह भगवान् श्रीमदार्यश्यामः
'से णं पुवामेव सन्निम्स पंचिंदियस्स पज्जत्तयम्स जहन्नजोगिम्स हिट्ठा असंखेज्जगुणपरिहीणं पढमं मणजोगं निरुंभइ || ( प्रज्ञा० समु० पद ३६ पत्र ६०७-२ )
भाष्यकारोऽप्याह
पेज्जत्तमित्तसन्निम्स जत्तियाई जहन्नजोगिस्स । हुंति मणोदबाई, तबावारो य जम्मत्तो ॥ तदसंखगुणविहीणं, समए समए निरंभमाणो सो । मणसो सबनिरोहं, कुणइ असंखिज्जसमएहिं ||
( विशेषा० गा० ३०५९ - ३०६० ) त अनंतरं चणं वेइंदियम्स पज्जत्तगस्स जहन्नजोगिस्स हिड्या असंखिज्जगुणहीणं दुखं वइजोगं निरुंभइ || ( प्रज्ञा० समु० पढ़ ३६ पत्र ६०७ -२ )
भाष्यकृदप्याह
पैज्जत्तमित्तबिंदियजहन्नवइजोगपज्जवा जे उ । तदसंखगुणविहीणं, समए समए निरुभंतो ॥ सबवइजोगरोहं, संखाई एहिँ कुणइ समएहिं । (विशेषा० गा० ३०६१-३०६२)
प्रत्यर्पणं कुर्यात् योगनिरोधं ततः करोति ॥ किं न सयोगः सिध्यति स बन्धहेतुरिति यत् खलु सयोगः । न समेति परमशुक्लं स निर्जराकारणं परम् ॥
१ स पूर्वमेव संज्ञिनः पश्चेन्द्रियस्य पर्याप्तकस्य जघन्ययोगिनोऽधस्तादसङ्ख्ये यगुणपरिहीणं प्रथमं मनोयोगं निरुद्वि ॥ २ पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्व्यापारश्च यन्मात्रः ॥ तदसगुणविहीनं समये समये निरुन्धन् सः । मनसः सर्वनिरोधं करोत्य सङ्ख्येय समयैः ॥ ३ ततोऽनन्तरं च द्वीन्द्रियस्य पर्याप्तकस्य जघन्ययोगिनोऽधस्ताद सख्येयगुणहीनं द्वितीयं वचोयोगं निरुणद्धि ॥ ४ पर्याप्तमात्रद्वीन्द्रियजघन्यवचोयोगपर्यायाः ये तु । तदसङ्खयगुणविहीनं समये समग्रे निरुन्धन् ॥ सर्ववचोयोगरोधं सङ्ख्यातीतैः करोति समयैः ॥