________________
२९] षडशीतिनामा चतुर्थः कर्ममन्यः ।
१६१ यदाह धर्मसारमूलटीकायां भगवान् श्रीहरिभद्रसूरिः
मनोवचसी तदा न व्यापारयति, प्रयोजनाभावात् । काययोगस्य तु औदारिककाययोगस्यौदारिकमिश्रकाययोगस्य वा कार्मणकाययोगस्य वा व्यापारो न शेषस्य, लब्ध्युपजीवनाभावेन शेषस्य काययोगस्याऽसम्भवात् । तत्र प्रथमाघमसमययोरौदारिककायप्राधान्याद् औदारिककाययोग एव, द्वितीयषष्ठसप्तमकेषु पुनः कार्मणशरीरस्यापि व्याप्रियमाणत्वाद् औदारिकमिश्र एव, तृतीयचतुर्थपञ्चमेषु तु केवलमेव कार्मणं शरीरं व्यापारभागिति कार्मणकाययोगः ।
यदाहुः श्रीमदार्यश्यामपादाः श्रीप्रज्ञापनायां पत्रिंशत्तमे समुद्रातपदे
पढमट्टमेसु समएसु ओरालियसरीरकायजोगं जुंजइ, बिइयछट्ठसत्तमेसु समएसु ओरालियमीसगसरीरकायजोगं जुंजइ, तइयचउत्थपंचमेसु समएसु कम्मगसरीरकायजोगं झुंजइ ॥ (पत्र ६०१-२) भाष्यकारोऽप्याह
न किर समुग्धायगओ, मणवइजोगप्पओयणं कुणइ । ओरालियजोगं पुण, जुजइ पढमऽहमे समए । उभयचावाराओ, तम्मीसं बीयछट्टसत्तमए ।
तिचउत्थपंचमे कम्मगं तु तम्मत्तचिट्ठाओ।। (विशे० गा० ३०५४-३०५५) ततः समुद्धातात् प्रतिनिवृत्तो मनोवाक्काययोगत्रयमपि व्यापारयति । यतः स भगवान् भवधारणीयकर्मसु नामगोत्रवेदनीयेप्वचिन्त्यमाहात्म्यसमुद्धातवशतः प्रभूतमायुषा सह समीकृतेष्वप्यन्तर्मुहूर्तभाविपरमपदो यदाऽनुत्तरौपपातिकादिना देवेन मनसा पृच्छयते तर्हि व्याकरणाय मनःपुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यमसत्यामृषारूपं वा; मनुष्यादिना पृष्टः सन् अपृष्टो वा कार्यवशाद् गृहीत्वा भाषापुद्गलान् वाग्योगम् , तमपि सत्यमसत्यामृषारूपं वा; न शेषान् वाङ्मनोयोगान् , क्षीणरागद्वेषत्वात् ; काययोगं तु गमनादिचेष्टासु; तदेवमन्तर्मुहूर्त कालं यथायोगं योगत्रयव्यापारभाक् केवली भूत्वा तदनन्तरम् अत्यन्ताप्रकम्पं लेश्यातीतं परमनिर्जराकारणं ध्यानं प्रतिपित्सुरवश्यं योगनिरोधाय उपक्रमते, योगे सति यथोक्तरूपस्य ध्यानस्याऽसम्भवात् । यदाह भाष्यसुधाम्भोधिः
'विणिवत्तसमुग्धाओ, तिन्नि वि जोगे जिणो पउंजिज्जा । सञ्चमसञ्चामोसं, च सो मणं तह वईजोगं ॥
ओरालकायजोगं, गमणाई पाडिहारियाणं च । १ प्रथमाष्टमयोः समययोरौदारिकशरीरकाययोग युनक्ति, द्वितीयषष्ठसप्तमेषु समयेषु औदारिकमिवशरीरकाययोगं युनक्ति, तृतीयचतुर्थपश्चमेषु समयेषु कार्मणशरीरकाययोगं युनक्ति ॥ २ न किल समुद्रातगतो मनोवाग्योगप्रयोजनं करोति । औदारिकयोगं पुनर्युनक्ति प्रथमाष्टमयोः समययोः ॥ उभयव्यापाराद् तन्मिभं द्वितीयषष्ठसप्तमेषु । तृतीयचतुर्थपञ्चमेषु कार्मणं तु तन्मात्रचेष्टायाः ॥ ३ विनिवृत्तसमुद्धातस्त्रीनपि योवान् जिनः प्रयुजीत । सत्यमसत्यामृषं च त मनस्तथा वाग्योगम् ॥ औदारिककाययोगं गमनादि प्रातिहारिकाणां च ।
क०२१