________________
१६०
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
अथ सर्वेऽपि केवलिनः समुद्धातं गच्छन्ति न वा ? इति चेद्, उच्यते-यस्य केवलिन आयुषा सह वेदनीयनामगोत्राणि समस्थितिकानि भवन्ति स हि न केवलिसमुद्धातं करोति, शेषस्तु करोति । उक्तं च श्रीमदार्यश्यामपादैः
सविणं भंते! केवली समुग्धायं गच्छंति ? गोयमा ! नो इणेट्टे समट्टे ।
जस्साउण तुलाई, बंधणेहिं ठिईहि य । भवोवग्गाहिकम्माई, समुग्धायं से न गच्छइ ॥ अगंतूणं समुग्घायं, अणंता केवली जिणा । जरमरणविप्पमुक्का, सिद्धिं वरगई गया ॥ ( पत्र ० ६०१ - १ ) समुद्धातं च कुर्वन् केवली प्रथमसमये बाहुल्यतः खशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां सङ्घातदण्डं दण्डस्थानीयं ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामिकपाटमिव कपाटं करोति, तृतीयसमये तमेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणाद् मन्यसदृशं मन्थानं करोति लोकान्तप्रापिणमेव । एवं च लोकस्य प्रायो बहु पूरितं मन्थान्तराण्यपूरितानि भवन्ति, अनुश्रेणि गमनात् चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिप्कुटैः पूरयति, ततश्च सकलो लोकः पूरितो भवतीति । तदनन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचयति, षष्ठे समये मन्थानमुपसंहरति घनतरसङ्कोचनात् सप्तमे समये कपाटमुपसंहरति दण्डात्मनि सङ्कोचनात्, अष्टमे समये दण्डं समुपहत्य शरीरस्थ एव भवति । न चैतत् खमकाम्भितम् । यदाहुर्वृद्धाः
1
3
उड्डाहाय्य लोगंतगामिणं सो सदेहविक्खभं । पढसमयम्म दंडं, करेइ बिइयम्मि उ कवाडं ||
तइयसमयम्मि मंथं, चउत्थए लोगपूरणं कुणइ |
पडिलोमं संहरणं, काउं तो होइ देहत्थो || (विशेषा० गा० ३०५२-३०५३) वाचकवरोऽप्याह
दण्डं प्रथमे समये, कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये, लोकव्यापी चतुर्थे तु ॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे ।
सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् ॥ ( प्रश० का ० २७४ - २७५ ) तस्येदानीं समुद्धातस्य योगव्यापारश्चिन्त्यते – योगाश्च मनोवाक्कायाः, अत्रैषां कः कदा व्याप्रियते ? । तत्रेह मनोवाम्योगयोरव्यापार एव, प्रयोजनाभावात् ।
१ सर्वेऽपि भदन्त ! केवलिनः समुद्वातं गच्छन्ति ? गौतम ! नायमर्थः समर्थः । यस्याऽऽयुषा तुल्यानि बन्धनैः स्थितिभिश्च । भवोपग्राहि कर्माणि समुद्वातं स न गच्छति ॥ अगला समुद्वातमनन्ताः केवलिनो जिनाः । जरामरणविप्रमुक्ताः सिद्धिं वरगतिं गताः ॥ २ 'महे क० ख० घ० ङ० ॥ ३ ऊर्ध्वाधआयतं लोकान्तगामिनं स स्वदेहविष्कम्भम् । प्रथमसमये दण्डं करोति द्वितीये तु कपाटम् ॥ तृतीयसमये मन्थानं चतुर्थके लोकपूरणं करोति । प्रतिलोमं संहरणं कृत्वा ततो भवति देहस्थः ॥