________________
२९]
पडशीतिनामा चतुर्थः कर्मग्रन्थः । श्रीकुलगृहस्य भगवतः केवलिनः सम्भवति, तस्य हि समुद्धातगतस्य तृतीयचतुर्थपञ्चमसमयेषु कार्मणम् , “कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च ।" (प्रश० का०२७७) इति वचनात् , द्वितीयषष्ठसप्तमसमयेप्वौदारिकमिश्रम्, "मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ।" (प्रश. का० २७६ ) इति वचनाद् अवाप्यत इति यथाख्यातसंयमे द्वयोरपि सम्भवात् ।
अथ विनेयजनानुग्रहाय केवलिसमुद्धातखरूपमभिधीयते--तत्र सम्यग्-अपुनर्भावेन उत्प्राबल्येन कर्मणो हननं-घातः प्रलयो यस्मिन् प्रयनविशेषे स समुद्धातः । अयं च केवलिसमुद्धातोऽष्टसामयिकः, तं च प्रारभमाणः प्रथममेवाऽऽयोजिकाकरणमान्तमौइर्तिकमुदीरणाबलिकायां कर्मप्रक्षेपल्यापाररूपमभ्येति । अथाऽऽयोजिकाकरणमिति कः शब्दार्थः ? उच्यते"आङ् मर्यादायाम्" आ-मर्यादया केवलिदृष्टया योजनं-शुभानां योगानां व्यापारणमायोजिका, “भावे" (सि० ५-३-१२२) णकः, तस्याः करणमायोजिकाकरणम् । आह च
कहसमइए णं भंते ! आओजीकरणे पन्नत्ते ? गोयमा ! असंखेजसमइए अंतोमुहुतिए आओजीकरणे पन्नत्ते ।। (प्रज्ञापनापत्र ६०१-१) ___ अयं कृतकृत्योऽपि केवली किमर्थं समुद्धातं करोति ? इति चेद्, उच्यते--वेदनीयनामगोत्राणामायुषा सह समीकरणार्थम् । यदाह भगवान् श्रीभद्रबाहुखामी
'नाऊण वेयणिजं, अइबहुयं आउयं च थोवागं ।
गंतूण समुग्घायं, खवेइ कम्म निरवसेसं ॥ (आ. नि. गा. ९५४) प्रज्ञापनायामप्युक्तम्
कैम्हा णं भंते ! केवली समुग्धायं गच्छइ ? गोयमा ! केवलिस्स चत्तारि कम्मंसा अक्खीणा अवेइया अणिजिन्ना भवन्ति । तं जहा-वेयणिजे आउए नामे गोए। सबबहुए से वेयणिज्जे कम्मे हवइ, सबथोवे से आउए कम्मे हवइ, विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमीकरणयाए बंधणेहिं ठिईहि य एवं खलु केवली समुग्घायं गच्छइ ।। (पत्र ६०१-१)
"बंधणेहिं" ति बध्यन्त आत्मप्रदेशैः सह लोलीभावेन संश्लिष्टाः क्रियन्ते योगवशाद ये ते बन्धनाः, "भुजिपत्यादिभ्यः कर्मापादाने" (सि० ५-३--१२८) इति कर्मण्यन , कर्मपरमाणवः, स्थितयः-वेदनाकालाः, शेषं सुगमम् । उक्तं च
आयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः। न स्यात् स्थितिवैषम्याद्, गच्छति स ततः समुद्धातम् ॥ स्थित्या च बन्धनेन च, समीक्रियार्थ हि कर्मणां तेषाम् ।
अन्तर्मुहूर्तशेषे, तदायुषि समुजिघांसति सः ॥ कतिसाममिकं भदन्त ! आयोजिकाकरणं प्रज्ञप्तम् ? गौतम ! असङ्ख्येयसामयिकमान्तौहर्तिकम् आयोजिकाकरणं प्रज्ञप्तम् ॥ २ ज्ञाला वेदनीयं अतिघहुकं आयुष्कं च स्तोकम् । गला समुद्धातं क्षपयति कर्म निरवशेषम् ॥ ३ कस्माद् भदन्त ! केवली समुद्धातं गच्छति ? गौतम ! केवलिनश्चत्वारः कर्माशा अक्षीणा भवेदिता अनिर्जीर्णा भवन्ति । तद्यथा-वेदनीयं आयुष्कं नाम गोत्रम् । सर्वबहुक तस्य वेदनीयं कर्म भवति. सर्वस्तोकं तस्यायुःकर्म भवति, विषमं समं करोति, बन्धनैः स्थितिभिश्च, विषमस्य समकरणाय बन्धनः स्थितिभिश्च एवं खलु केवली समुद्धातं गच्छति ।।