________________
देवेन्द्रसूरिविरचितखो पज्ञटीकोपेतः
मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु ॥ ( प्रश० का ० २७६ )
कार्मणशरीरयोगी, चतुर्थके पञ्चमे तृतीये च । (प्रश० का० २७७) इति । प्रथमान्तिममनोयोगौ तु अविकलसकलविमल केवलज्ञानकेवलदर्शनबलाबलोकितनिखिल्लोकालोकस्य भगवतो मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनात् । हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनाऽवधिज्ञानेन वा पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वालोचनाकारान्यथानुपपत्त्या लोकखरूपादिकं बाह्यमर्थं पृष्टमवगच्छन्ति । प्रथमान्तिमवाग्योगौ तु देशनादिषु व्याष्टतस्य तस्यैव भगवतो द्रष्टव्याविति ॥ २८ ॥
मणबइउरला परिहारि सुहमि नव ते उ मीसि सविउव्वा । देसे सविउन्विदुगा, सकम्मुरलमिस्स अहखाए ॥ २९ ॥ परिहारविशुद्धि के सूक्ष्मसम्पराये च नव योगाः । के ते ? इत्याह--मनोयोगश्चतुर्धा वाग्योगश्चतुर्षा औदारिकं चेति । यत्त्वाहारकद्विकं वैक्रियद्विकं कार्मणमौदारिकमिश्रं च तद् न सम्भवत्येव । तथाहि —आहारकद्विकं चतुर्दशपूर्ववेदिन एव भवति, “आहारं चउदसपुविणो" इति वचनात् ; परिहारविशुद्धिकसंयमप्रतिपत्तिः पुनरुत्कर्षतोऽप्यधीत किञ्चिन्न्यूनदशपूर्वस्यैव, तथैव सिद्धान्तेऽभ्यनुज्ञानात्; तत् कथं परिहारविशुद्धिकस्याऽऽहारकद्विकसम्भव: ? । नापि तस्य वैक्रियद्विसम्भवः, तस्यामवस्थायां तत्करणाननुज्ञानात्, जिनकल्पिकस्यैव तस्याऽप्यत्यन्तविशुद्धाप्रमादमूलसंयमघोरानुष्ठानपरायणत्वात् वैक्रियारम्भे च लब्ध्युपजीवनेन औत्सुक्यभावात् प्रमादसम्भवात् । अत एव सूक्ष्मसम्परायसंयमेऽप्याहारकद्विकवैक्रियद्विकलक्षणानां चतुर्णी योगानामसम्भवः, सूक्ष्मसम्परायसंयमोपेतस्याऽप्यत्यन्तविशुद्धतया निस्तरङ्गमहोदधिकल्पत्वेन वैकियादिप्रारम्भासम्भवात् । कार्मणमौदारिकमिश्रं चापर्याप्ताद्यवस्थायामेवेति संयमद्वयेऽपि तस्याभावः । ते पुनः पूर्वोक्ता नव योगाः 'संवैक्रियाः' सह वैक्रियेण वर्तन्त इति सवैक्रिया वैकियसहिताः सन्तो दश योगाः 'मिश्र' सम्यग्मिथ्यादृष्टौ भवन्ति । तत्र वैक्रियं देवनारकापेक्षया, यत्तु वैक्रियमिश्रं तद् नैवावाप्यते, तस्याऽपर्याप्तावस्थाभावित्वात्, मिश्रभावस्य च "नं सम्ममिच्छो कुणइ कालं” इति वचनप्रामाण्याद् अपर्याप्तावस्थायामसम्भवात् ।
स्यादेतद् —– वैक्रियलब्धिमतां मनुष्यतिरश्चां सम्यग्मिथ्यादृशां सतां वैक्रियारम्भसम्भवेन कथं वैक्रियमिश्रं नावाप्यते ? इति उच्यते-तेषां वैक्रियारम्भासम्भवात्, अन्यतो वा कुतश्चित् कारणात् पूर्वाचार्यैस्तद् नाभ्युपगम्यत इति न सम्यगवगच्छामः, तथाविधसम्प्रदायाभावात्, अतोऽमाभिरपि तद् नेष्टमिति । 'देशे' देशविरते त एव नव पूर्वोक्ताः 'सवैक्रियद्विकाः' वैक्रियतन्मिश्रसहिताः सन्त एकादश योगा भवन्ति, देशविरतानामम्बडादीनां वैक्रियलब्धिमतां वैक्रियद्विकसम्भवात् । तथा त एव नव पूर्वोक्ताः 'सकार्मणौदारिकमिश्राः' सह कार्मणौदारिकमिश्राभ्यां वर्तन्त इति सकार्मणैौदारिकमिश्राः सन्त एकादश योगा यथाख्यातसंयमे भवन्ति । अयमर्थ:मनोयोगचतुष्टयवाम्योगचतुष्टयकार्मणौदारिकद्विकलक्षणा एकादश योगा यथाख्याते भवन्ति । तत्र मनोवाक्चतुष्कौदारिकयोगाः सुज्ञाना एव । कार्मणमौदारिकमिश्रं तु यथाख्यातसंयम१ आहारकं चतुर्दश पूर्विणः ॥ २ न सम्यग्मिथ्यादृष्टिः करोति कालं ॥
१५८
,
[ गाथा